________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा ॥
*
द्वाविंशतितमत्रयो विशतितमप्रश्नौ ।
********
__व्याख्याः-यः पुरुषो निजे स्तोके धने सत्यपि स्वक्त्या तस्य सुपात्रे दानं दत्ते, पुनरन्यस्य पार्थाच्च दापयति, तस्य पुरुषस्य हे गौतम ! परजन्मनि लक्ष्मोः संमिलति, समुद्रदत्तपुत्रमदनवत् ॥३९॥
(तयोः) तत्सम्बन्धमाद
दक्षिणदेशे दक्षिणमथुरायां नगर्यो धनदत्तनामा श्रेष्टी वसति । स कोटीश्वरो विद्यते । तस्य सुधननामा पुत्रोऽस्ति । स प्रत्यहं व्यवसायं करोति । इत उत्तरमथुरायामेक: समुद्रदत्ताख्यो व्यवहारी वर्तते । तेन सह स व्यापारं करोति । क्रयाणकानां पंचशतशकटप्रमाणानां राशिं प्रवहणेषु भृत्वा स समुद्रमध्ये चलति । पुनः स व्याजे धनं ददाति । तथैव किंचिद्धनं स निधानेऽपि रक्षति। .
अर्थकदा दाहज्वरेण धनदत्तो मृतः । तदा सम्बन्धिभिः सुधनस्तस्य पट्टे स्थापितः । एवं स सुधनः कुटुम्बभारं निवहति । एकदा स सुधनः स्वर्णकुण्डिको नीरेण भृत्वा स्वर्णसिंहासनोपरि च स्थित्वा स्नानं करोति । स्नानानन्तरं च सा | स्वर्णकुंडिका तत्स्वर्णसिंहासनं चाकाशे उड्डीय गते । ततोऽसौ देवपूजां कर्तु लग्नः । देवपूजानन्तरं च तद्देवगृहं देवबिम्बं च परिकरयुतं सर्वगुडोयाकाशे गतम् । तस्मिन् समये प्रवहण भंगस्य सन्देशः समागतः । ततोऽसौ भोजनं कर्तुमुपविष्टः। भोजनानन्तरं द्वात्रिय कचोलिकासहितः स सुवर्णस्थालोऽप्युड्डीयाकाशे गन्तुं नः । तदा सुधनेन झटिति हस्तेन स स्थालो गृहीतः। तदा तस्य स्थालस्यैकः खण्डस्तस्य हस्ते स्थितः, परं स्थालस्तृडीय गतः । एवं तस्य सर्वापि लक्ष्मीगता। जातश्च स निर्धनः।
曼聯柴柴继继器器茶器茶號號號號號器费號茶懿港聯聯發號
****
॥६॥
**
For Private And Personal Use Only