Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra श्रीगोतम पृच्छा ।। * ॥६३॥ www.kobatirth.org " णोक्तम्- स्वमस्मिन् खण्डैकरविते स्थाले कथं भोजनं करोषि ?" तत् श्रुत्वा श्रेष्ठिनोक्तम् - " अस्मिन् स्थाले खण्डो न लगति " तदा मुनिना निजझपोलिकातस्तं खण्डं निष्कास्य तस्मिन् स्थाले स दत्तः, तदेव स खण्ड: स्थाले लग्नः । श्रेष्ठया दिसर्व कुटुम्बिनां हृदि चमत्कारो जातः । तदा श्रेष्ठी तं मुनिं वन्दित्वा पृच्छति - "भो मुने । अत्र किं कारणं ?" मुनिब्रूते - " त्वं मिथ्या * कथं जल्पसि ? इयं भवदीया ऋद्धिर्नास्ति, एषा ऋद्धिर्मदीयैव वर्तते । मया सा समुपलक्षितास्ति, अतस्त्वं सत्यं कथय । तदा तेन सत्यं प्रोक्तम् - "हे मुने! मद्गृहे समागताया अस्या ऋद्धेरौ वर्षाणि जातानि सन्ति" । तदा मुनिर्वदति "यदा मम पिता स्वर्गे गतस्तदादित इयं लक्ष्मीमद्गृहाद् गता । तद्वैराग्याच्च मया दीक्षा गृहीता । अवधिज्ञानेन च ज्ञाॐ त्वाऽहमत्रागतोऽस्मि" । तदा श्रेष्टिनोक्तम् "भो मुने । लमिदं सर्वं गृहाण, सुखेन च भुंक्ष्व । " तदा मुनिनोक्तम् " हे समुद्रदत्त ! ममपश्यत एव या लक्ष्मीगंता सा मया कथं गृह्यते । " तदा मुनिनिजं पूर्वभवं कथयति — श्रीपुरे नगरे जिनदत्ताभिधः श्रेष्ठी वसति । तस्य पद्माकरगुणाकरनामानौ द्वौ पुत्रावभूताम् । पित्रा निजमरणसमये कथितं यत्र ह्या अधोगतं निधानं युवाभ्यां तुल्यतया विभज्य गृहणीयम् । अथ पितुर्मरणानन्तरमेकेन वृद्धभ्रात्रा रात्रौ मच्छन्नतया तन्निधानं निष्कास्य गृहीतम् । द्वितीयदिने तेन निजलघुभ्रातरं प्रति कथितम् - " अद्यावां तन्निधानं निकासयावः " तेनापि काथतं " वरम्" । अथ तत्र गला ताभ्यां निधानकृते भूमिः खनिता, परं ततो निधानं न निःसृतम् । तदा मायाविना वृद्धभ्रात्रा प्रो. क्तम् - "अहो इतः केनापि पुरुषेण निधानं चोरितमस्ति । तदा वृद्धभ्रातृकपटं ज्ञात्वा लघुभ्राता मूच्छितः । यदा स सचेतनो 粥粥晚晚濕器 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only *************** द्वाविंशतितमत्रयोविंशतितममनौ । ॥६३॥

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141