________________
Shri Mahavir Jain Aradhana Kendra
श्रीगोतम पृच्छा ।। *
॥६३॥
www.kobatirth.org
"
णोक्तम्- स्वमस्मिन् खण्डैकरविते स्थाले कथं भोजनं करोषि ?" तत् श्रुत्वा श्रेष्ठिनोक्तम् - " अस्मिन् स्थाले खण्डो न लगति " तदा मुनिना निजझपोलिकातस्तं खण्डं निष्कास्य तस्मिन् स्थाले स दत्तः, तदेव स खण्ड: स्थाले लग्नः । श्रेष्ठया दिसर्व कुटुम्बिनां हृदि चमत्कारो जातः । तदा श्रेष्ठी तं मुनिं वन्दित्वा पृच्छति - "भो मुने । अत्र किं कारणं ?" मुनिब्रूते - " त्वं मिथ्या * कथं जल्पसि ? इयं भवदीया ऋद्धिर्नास्ति, एषा ऋद्धिर्मदीयैव वर्तते । मया सा समुपलक्षितास्ति, अतस्त्वं सत्यं कथय । तदा तेन सत्यं प्रोक्तम् - "हे मुने! मद्गृहे समागताया अस्या ऋद्धेरौ वर्षाणि जातानि सन्ति" । तदा मुनिर्वदति "यदा मम पिता स्वर्गे गतस्तदादित इयं लक्ष्मीमद्गृहाद् गता । तद्वैराग्याच्च मया दीक्षा गृहीता । अवधिज्ञानेन च ज्ञाॐ त्वाऽहमत्रागतोऽस्मि" । तदा श्रेष्टिनोक्तम् "भो मुने । लमिदं सर्वं गृहाण, सुखेन च भुंक्ष्व । " तदा मुनिनोक्तम् " हे समुद्रदत्त ! ममपश्यत एव या लक्ष्मीगंता सा मया कथं गृह्यते । " तदा मुनिनिजं पूर्वभवं कथयति —
श्रीपुरे नगरे जिनदत्ताभिधः श्रेष्ठी वसति । तस्य पद्माकरगुणाकरनामानौ द्वौ पुत्रावभूताम् । पित्रा निजमरणसमये कथितं यत्र ह्या अधोगतं निधानं युवाभ्यां तुल्यतया विभज्य गृहणीयम् । अथ पितुर्मरणानन्तरमेकेन वृद्धभ्रात्रा रात्रौ मच्छन्नतया तन्निधानं निष्कास्य गृहीतम् । द्वितीयदिने तेन निजलघुभ्रातरं प्रति कथितम् - " अद्यावां तन्निधानं निकासयावः " तेनापि काथतं " वरम्" ।
अथ तत्र गला ताभ्यां निधानकृते भूमिः खनिता, परं ततो निधानं न निःसृतम् । तदा मायाविना वृद्धभ्रात्रा प्रो. क्तम् - "अहो इतः केनापि पुरुषेण निधानं चोरितमस्ति । तदा वृद्धभ्रातृकपटं ज्ञात्वा लघुभ्राता मूच्छितः । यदा स सचेतनो
粥粥晚晚濕器
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
***************
द्वाविंशतितमत्रयोविंशतितममनौ ।
॥६३॥