Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय प्रश्नः ॥ श्री गौतम एवं द्वादशवतादि नियमं गृहीत्वा श्रीषीरं च वन्दित्वा स निजगृहे गतः । ततः शिवानन्दापि श्रीवीरप्रभुसमीपे गत्वा पृच्छा ॥ || प्रभुं च वन्दित्वा शुद्धभावैः श्रावकधर्मव्रतं गृहीत्वा गृहे समागत्य स्वव्रतं पालयति । ॥१७॥ अथैकदाऽऽनन्देनैकादशपतिमाराधनार्थ मनसि मनोरथः कृतः। ततस्तेन कोरलाकयामे पौषधशालैका कारिता। पश्चाद वृद्धपुत्रं प्रति निजकुटुम्बभारं समर्प्य स्वजनांश्च मेलयित्वाऽन्नपानादिकं च भोजयित्वा स्वयं पौषधशालायामेकादशश्राद्धमतिमा अङ्गौचक्रे । एवं प्रतिमा वहन सन् सोऽतीव दुर्बलो जातः । धर्मजागरिकां कुर्वतस्तस्याऽनशनस्य मनोरथो जातः । पश्चासंलेखनां कृत्वा तेनाऽनशनं गृहीतं, तदा च तस्याऽवधिज्ञानं समुत्पन्नम् । अस्मिन् समये तत्र श्रीवीरः समवसृतः । तदा श्रीगौतमः पारणार्थ तन्नगरमध्ये गतः। आहारमादाय पश्चाद्वलितेन गौतमेन बहवो जना गच्छन्ता दृष्टाः पृष्टाच-" भो यूयं क्व गन्तुमनसः स्थ ?" तैरुक्तम्-"कोल्लाकग्रामे आनन्दश्राद्धेनाऽनशनं गृहीतमस्ति, तद्वन्दनाथं च वयं यामः।" तत् श्रुत्वा श्रीगौतमोऽपि तं वन्दापयितुं तत्र गतः। आगच्छन्तं श्रीगौतमं दृष्ट्वाऽऽनन्दो हृष्टो वन्दनां कृत्वा तं पप्रच्छ-" भो अनन्तलब्धिसम्पन्नगौतमस्वामिन् ! किं गृहस्थस्याऽवधिज्ञानं समुत्पद्यते ?"। गौतमः प्राह-" उत्पद्यते ।" आनन्देनोक्तम्-" तर्हि मम युष्मत्पसादादवधिज्ञानं समुत्पन्नमस्ति तेनाहं चतुर्दिक्षु पञ्चशतयोजनानि समयमध्ये पश्यामि, ऊर्ध्वं च सौधर्म यावदधश्च प्रथमपृथ्वीलोलुचनरकावासं यावच्च पश्यामि ।" तदा गौतमेनोक्तम्-“भो आनन्द ! गृहस्थस्य ज्ञानमेतावत्प्रमाणं नोत्पद्यते; तेन त्वं मिथ्यादुष्कृतं देहि ।" आनन्द उवाच १ अहीं श्रावकनी ११ प्रतिमाओनु वर्णन कर. 錄影器蒸柴柴跳跳際發發發怨樂器柴柴柴器张密:染:聯發殘 器器樂器樂端端整聯聯樂器器樂鑑驗器樂器樂器鉴聽器樂幾 ॥१७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141