Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥४७॥ चतुर्दशमपञ्चदशमप्रश्नी ॥ अथान्यदा तस्मिन्नगरे एको ज्ञानी गुरुः परिवारयुतः समागतः । तदा नृपसुबुद्धयादयो लोकास्तं वन्दितुं गताः। १देशनाश्रवणानन्तरं सुबुद्धिना पृष्टम्-“हे भगवन् ! केन कर्मणाऽयं कुबुद्धिरीदृशो जातः?" तदा गुरुरुवाच-" भो मन्त्रिन् ! शृणु अस्मिन्नेव नगरे विमलाचलनामानौ द्वौ वणिक्पुत्रावभूताम् । तयोविमलेन गुरोः समीपे दीक्षा गृहीता। क्रमेण स द्वादशाङ्गीपाठको जातः । सोऽन्येषां मुनीनां पाठयति । तुष्टेन गुरुणा तस्मै आचार्य पदं दत्तम । पश्चाद् धर्मोपदेशेन तेन बहवो जनाः प्रतिबोधिताः। स्वायुःक्षयेण च स द्वितीये देवलोके गतः श्रुतभक्तिवशात् । अचलश्च यतीनां ज्ञानवतां च निन्दाकरणात्स्वायुःक्षये मृत्वा द्वितीये नरके गतः । ततश्त्युत्वा विमलस्य जीवस्त्वं सुबुद्धिनामा जातः। द्वितीयोऽचलजीवश्व नरकाच्युत्वा निन्दापापयोगादयं दुबुद्धितिः। पुनरप्ययं बहु संसारं भ्रमिष्यात । मृबुद्धिरथ दीक्षां गृहीत्वा श्रुतस्य पठनपाठनं च विधाय स्वायुरन्ते पञ्चमे देवलोके देवो भृत्वा क्रमेण मनुजभवं प्राण मोक्षं यास्यति । इति सुबुद्धिकुबुद्धिकथा समाप्ता ।। [१४-१-0] (भणे भणावे ज्ञान जे, थाये निर्मल बुद्धि । देव गुरु भक्ति करे, अनुक्रमे पनि सिद्धि) अथ षोडशसप्तदशमप्रश्नोत्तरमाहषोडशप्रश्नः (श्रीगौतमस्वामी पृच्छति-“हे जनवत्सल! हे करुणासागर ! हे कृपालो भगवन् ! " इषः काय पण्डितो भवति?" १६) १ अनित्यादि बार भावनाओ तथा मैत्री आदि चार भावनाओनुं वर्णन कर. ॥४७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141