________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा ।। ॥४७॥
चतुर्दशमपञ्चदशमप्रश्नी ॥
अथान्यदा तस्मिन्नगरे एको ज्ञानी गुरुः परिवारयुतः समागतः । तदा नृपसुबुद्धयादयो लोकास्तं वन्दितुं गताः। १देशनाश्रवणानन्तरं सुबुद्धिना पृष्टम्-“हे भगवन् ! केन कर्मणाऽयं कुबुद्धिरीदृशो जातः?" तदा गुरुरुवाच-" भो मन्त्रिन् ! शृणु
अस्मिन्नेव नगरे विमलाचलनामानौ द्वौ वणिक्पुत्रावभूताम् । तयोविमलेन गुरोः समीपे दीक्षा गृहीता। क्रमेण स द्वादशाङ्गीपाठको जातः । सोऽन्येषां मुनीनां पाठयति । तुष्टेन गुरुणा तस्मै आचार्य पदं दत्तम । पश्चाद् धर्मोपदेशेन तेन बहवो जनाः प्रतिबोधिताः। स्वायुःक्षयेण च स द्वितीये देवलोके गतः श्रुतभक्तिवशात् । अचलश्च यतीनां ज्ञानवतां च निन्दाकरणात्स्वायुःक्षये मृत्वा द्वितीये नरके गतः । ततश्त्युत्वा विमलस्य जीवस्त्वं सुबुद्धिनामा जातः। द्वितीयोऽचलजीवश्व नरकाच्युत्वा निन्दापापयोगादयं दुबुद्धितिः। पुनरप्ययं बहु संसारं भ्रमिष्यात । मृबुद्धिरथ दीक्षां गृहीत्वा श्रुतस्य पठनपाठनं च विधाय स्वायुरन्ते पञ्चमे देवलोके देवो भृत्वा क्रमेण मनुजभवं प्राण मोक्षं यास्यति ।
इति सुबुद्धिकुबुद्धिकथा समाप्ता ।। [१४-१-0] (भणे भणावे ज्ञान जे, थाये निर्मल बुद्धि । देव गुरु भक्ति करे, अनुक्रमे पनि सिद्धि)
अथ षोडशसप्तदशमप्रश्नोत्तरमाहषोडशप्रश्नः (श्रीगौतमस्वामी पृच्छति-“हे जनवत्सल! हे करुणासागर ! हे कृपालो भगवन् ! " इषः काय पण्डितो भवति?" १६)
१ अनित्यादि बार भावनाओ तथा मैत्री आदि चार भावनाओनुं वर्णन कर.
॥४७॥
For Private And Personal Use Only