SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** श्री गौतमपृच्छा । ॥४६॥ चतुर्दशमपञ्चदशमप्रश्नी॥ ********* चत्वारि निधानानि गृहस्य चतुःकोणकेषु क्षिप्तानि सन्ति, तानि युष्माभिर्गृहीतव्यानि" । इत्युक्त्वा स धनश्रेष्ठी मृतः। अथ तैश्चतुर्भिातृभिमिलित्वा तानि निधानानि निष्कासितानि । तत्र वृद्धभ्रातुः केशनिधानं, द्वितीयस्य मृत्तिकानिधानं, तृतीयस्य कद्लनिधनं, चतुर्थस्य च स्वर्णरत्ननिधानं निःसृतम् । तदा चतुर्थः पुत्रो निज निधानं दृष्ट्वाऽतीव हृष्टो बभूव । अन्ये त्रयोऽपि भ्रातरः क्लेशं तु लग्नाः । [ने परस्परं प्रोचुः-पित्रा वयं वश्चिताः, बल्लभस्य लघुपुत्राय सारधनं दत्तं, अतो वयं रत्नसुवर्णादिकं धनं विभज्य लामः । तदा लघुभ्रात्रा प्रोक्तम्-"भो भ्रातरः ! पित्रा यद्यद्वस्तु यस्य यस्य दत्तं, तत्सदेव तेन ग्राह्य, तद्विपये मनम्यन्यथा नैव चिन्तनीयम् ।" परं [एवं] ते सर्वे कलह कुर्वन्तो राज्ञः समीपं समागताः । विज्ञप्तश्च ते राजा यदम्माकं कलहं त्वं दृगकुरु ? राज्ञा निजमन्त्रिणे तत्कल दूरीकरणार्थमादिष्टम् । तत् श्रुत्वा मन्त्री किंक तव्यमृहः संजातः । तदा तत्रस्थेन सुधुद्धिनाम्ना मन्त्रिपुत्रेण तान् भ्रातनकान्ते समाकार्य कथितम्-"यूयं कलहं मा कुरुत । अतिविज्ञेन युष्मत्पित्रा सर्वेभ्यो युष्मद्भ्यस्तुल्यमेव धनं दत्तमस्ति, यूयं तन्निधानानां परमार्थ न जानीथ । केशभृतनिधानस्वामिनो गोघोटव प्रमुख धनं दत्तमस्ति । मृत्तिकाभृतनिधानस्वामिनः क्षेत्रवाटिकादिरूपं धनं दत्तमस्ति । कद्गलभृतनिधानस्वामिन उद्ग्राहणि कादिगतं धनं दत्तमस्ति । चतुर्थस्य च तत्परिमितमूल्योपेतं स्वर्णरत्नादिरूपं धनं दत्तमस्ति"। एवं तेन सुबुद्धिना तेषां कलहो दूरीकृतोऽस्ति । तत् श्रुत्वा हुष्टो राजा तस्मै मुबुद्धये निजमन्त्रिपदं ददौ । लोकेऽपि च स प्रमिद्धो जातः। द्वितीयो मूर्खभ्राता च कुबुद्धिरिति ख्यातो बभूव । ** ********* ॥४६॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy