Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir B8 श्री गौतम पृच्छा ।। ॥५०॥ पोडशसप्तदशमप्रश्नो॥ % * क्तम्-"सत्यधर्मवक्तार गुरुः।" एवंविधं सम्यक्त्व तेन विद्याधरेणाप्यङ्गीकृतम् । ततस्तेन विद्याधरेण वैश्रमणश्रेष्टिनं प्रत्युक्तम्-“हे श्रेष्टिन् ! एकदा मम पित्रैको नैमित्तिकः पृष्टो ' यन्मम पुत्र्याः को वशे भविष्यति ?' तदा तेन नैमित्तिके.* नोक्तम्-'यस्तव पुत्रस्याकाशगामिनीविद्याया विस्मृतं पदं कथयिष्यति स तव पुत्र्या भर्ता भविष्यति ।' अतः कारणा-* दमत्रागतोऽस्मि, ततस्त्वं त्वत्पुत्रं मम साथै मुश्च ? यथा वैतादयपर्वते गत्वा मम भगिनी सुन्दरीं तेन सार्द्ध विवाह्याहं तं पश्चादत्र समानयामि।" तद्वचः श्रुत्वा श्रेष्टिना तत्तथैवाङ्गीकृतम् । ततः स विद्याधरस्तं श्रेटिसुतं मार्थे गृहीत्वा वैताढयपर्वते च निजगृहं समागत्य तेन सह निजां भगिनी परिणाय्य, तं च शाश्वतान् चैत्यान् बन्दापयित्वा तेन सह मण्डपे समागत्य श्रमणमुनि च वन्दित्वा तत्र स्थितः। तदा कुशलेन मुनये पृष्टम् - "हे भगवन् ! मम केन कर्मणा निर्मला पदानुसारिणी लब्धिर्जाता ?" तदा मुनिः कथयति इतो भवात्तृतीये भवे आम्रनिम्बनामानौ द्वौ कुलपुत्रावभूताम् । तौ परस्परमत्यन्तस्नेहपरौ । तयोर्मध्ये एक आम्रो गुरोः सेवां करोति, पुण्यपापयोर्विचारं पृच्छति । एकदा तस्मै गुरुणा भणितम्-"वं पञ्चवर्षोपरि पञ्चमासान् यावद् ३ज्ञानपञ्चमीतपः कुरु ।" अथैवं करणतः पुण्यबन्धनाचं ततो मृत्वा देवोऽभूः । ततश्च व्युत्वा त्वमयं वैश्रमणश्रेष्टिनो गृहे समुत्पन्नः। १ अहीं देव, गुरु तथा धर्मर्नु स्वरूप विस्तारथी समजाव, २ अहीं सभकितना ६७ बोलनु वर्णन कर. ३अहीं ज्ञानपंचमी तपर्नु स्वरूप समजावq. 蜂浆张器器部歌恐张議姓聚器端张张张张张张张张器端张 *99* ॥५०॥ *** For Private And Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141