________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
B8
श्री गौतम पृच्छा ।। ॥५०॥
पोडशसप्तदशमप्रश्नो॥
%
*
क्तम्-"सत्यधर्मवक्तार गुरुः।" एवंविधं सम्यक्त्व तेन विद्याधरेणाप्यङ्गीकृतम् । ततस्तेन विद्याधरेण वैश्रमणश्रेष्टिनं प्रत्युक्तम्-“हे श्रेष्टिन् ! एकदा मम पित्रैको नैमित्तिकः पृष्टो ' यन्मम पुत्र्याः को वशे भविष्यति ?' तदा तेन नैमित्तिके.* नोक्तम्-'यस्तव पुत्रस्याकाशगामिनीविद्याया विस्मृतं पदं कथयिष्यति स तव पुत्र्या भर्ता भविष्यति ।' अतः कारणा-* दमत्रागतोऽस्मि, ततस्त्वं त्वत्पुत्रं मम साथै मुश्च ? यथा वैतादयपर्वते गत्वा मम भगिनी सुन्दरीं तेन सार्द्ध विवाह्याहं तं पश्चादत्र समानयामि।"
तद्वचः श्रुत्वा श्रेष्टिना तत्तथैवाङ्गीकृतम् । ततः स विद्याधरस्तं श्रेटिसुतं मार्थे गृहीत्वा वैताढयपर्वते च निजगृहं समागत्य तेन सह निजां भगिनी परिणाय्य, तं च शाश्वतान् चैत्यान् बन्दापयित्वा तेन सह मण्डपे समागत्य श्रमणमुनि च वन्दित्वा तत्र स्थितः। तदा कुशलेन मुनये पृष्टम् - "हे भगवन् ! मम केन कर्मणा निर्मला पदानुसारिणी लब्धिर्जाता ?" तदा मुनिः कथयति
इतो भवात्तृतीये भवे आम्रनिम्बनामानौ द्वौ कुलपुत्रावभूताम् । तौ परस्परमत्यन्तस्नेहपरौ । तयोर्मध्ये एक आम्रो गुरोः सेवां करोति, पुण्यपापयोर्विचारं पृच्छति । एकदा तस्मै गुरुणा भणितम्-"वं पञ्चवर्षोपरि पञ्चमासान् यावद् ३ज्ञानपञ्चमीतपः कुरु ।" अथैवं करणतः पुण्यबन्धनाचं ततो मृत्वा देवोऽभूः । ततश्च व्युत्वा त्वमयं वैश्रमणश्रेष्टिनो गृहे समुत्पन्नः।
१ अहीं देव, गुरु तथा धर्मर्नु स्वरूप विस्तारथी समजाव, २ अहीं सभकितना ६७ बोलनु वर्णन कर. ३अहीं ज्ञानपंचमी तपर्नु स्वरूप समजावq.
蜂浆张器器部歌恐张議姓聚器端张张张张张张张张器端张
*99*
॥५०॥
***
For Private And Personal Use Only