________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय
प्रश्नः
॥
श्री गौतम एवं द्वादशवतादि नियमं गृहीत्वा श्रीषीरं च वन्दित्वा स निजगृहे गतः । ततः शिवानन्दापि श्रीवीरप्रभुसमीपे गत्वा पृच्छा ॥
|| प्रभुं च वन्दित्वा शुद्धभावैः श्रावकधर्मव्रतं गृहीत्वा गृहे समागत्य स्वव्रतं पालयति । ॥१७॥
अथैकदाऽऽनन्देनैकादशपतिमाराधनार्थ मनसि मनोरथः कृतः। ततस्तेन कोरलाकयामे पौषधशालैका कारिता। पश्चाद वृद्धपुत्रं प्रति निजकुटुम्बभारं समर्प्य स्वजनांश्च मेलयित्वाऽन्नपानादिकं च भोजयित्वा स्वयं पौषधशालायामेकादशश्राद्धमतिमा अङ्गौचक्रे । एवं प्रतिमा वहन सन् सोऽतीव दुर्बलो जातः । धर्मजागरिकां कुर्वतस्तस्याऽनशनस्य मनोरथो जातः । पश्चासंलेखनां कृत्वा तेनाऽनशनं गृहीतं, तदा च तस्याऽवधिज्ञानं समुत्पन्नम् ।
अस्मिन् समये तत्र श्रीवीरः समवसृतः । तदा श्रीगौतमः पारणार्थ तन्नगरमध्ये गतः। आहारमादाय पश्चाद्वलितेन गौतमेन बहवो जना गच्छन्ता दृष्टाः पृष्टाच-" भो यूयं क्व गन्तुमनसः स्थ ?" तैरुक्तम्-"कोल्लाकग्रामे आनन्दश्राद्धेनाऽनशनं गृहीतमस्ति, तद्वन्दनाथं च वयं यामः।" तत् श्रुत्वा श्रीगौतमोऽपि तं वन्दापयितुं तत्र गतः। आगच्छन्तं श्रीगौतमं दृष्ट्वाऽऽनन्दो हृष्टो वन्दनां कृत्वा तं पप्रच्छ-" भो अनन्तलब्धिसम्पन्नगौतमस्वामिन् ! किं गृहस्थस्याऽवधिज्ञानं समुत्पद्यते ?"। गौतमः प्राह-" उत्पद्यते ।" आनन्देनोक्तम्-" तर्हि मम युष्मत्पसादादवधिज्ञानं समुत्पन्नमस्ति तेनाहं चतुर्दिक्षु पञ्चशतयोजनानि समयमध्ये पश्यामि, ऊर्ध्वं च सौधर्म यावदधश्च प्रथमपृथ्वीलोलुचनरकावासं यावच्च पश्यामि ।" तदा गौतमेनोक्तम्-“भो आनन्द ! गृहस्थस्य ज्ञानमेतावत्प्रमाणं नोत्पद्यते; तेन त्वं मिथ्यादुष्कृतं देहि ।" आनन्द उवाच
१ अहीं श्रावकनी ११ प्रतिमाओनु वर्णन कर.
錄影器蒸柴柴跳跳際發發發怨樂器柴柴柴器张密:染:聯發殘
器器樂器樂端端整聯聯樂器器樂鑑驗器樂器樂器鉴聽器樂幾
॥१७॥
For Private And Personal Use Only