SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतम | पृच्छा ॥ ॥१६॥ द्वितीयप्रश्न:। 柴柴晓晓晓晓晓遊张继张继继錄器避茶器整張密密聯涨涨涨涨 गृहे सुवर्णस्य द्वादशकोटयः सन्ति । दशसहस्रगोप्रमाणानि चत्वारि गोकुलानि वर्तन्ते । तद्ग्रामादीशानकोणे कोल्लाकनामा | सन्निवेशोऽस्ति । तत्र च आनन्दस्य बहवः सम्बन्धिनो वसन्ति । अथैकदा तत्र द्रुतपलाशवने श्रीवीरः समवसृतः। तदा जितशत्रुराजा आनन्दश्च तत्र प्रभुं वन्दितुं समागतौ। वन्दित्वा च उचितस्थाने समुपविष्टौ । तत्र श्रीवीरस्य देशनां श्रुत्वा आनन्देन श्राद्धस्य द्वादशव्रतपूर्वक श्रावकत्रतं गृहीतं, परिग्रहस्य |* चैवंविधं परिमाणं कृतम् " द्वादशस्वर्णकोटयो धन, चत्वारि गोकुलानि, पञ्चशतहलानि, पञ्चशतशकटानि देशान्तरव्यापारार्थ, पञ्चशतशकटानि गृहकार्याथ, मधुयष्टिदन्तधावनं, शतपाकसहस्रपाकतैलेऽभ्यङ्गनार्थ, अन्येषां नियमः । सुगन्धद्रव्यचूर्णमुद्वर्तनाथ, अन्येषां | | नियमः । अष्टौ पानीयस्य लघुघटकाः स्नानार्थ, अन्येषां नियमः । श्वेतपट्टकुलयुग्मपरिधानमन्येषां च नियमः । चन्दनागुरूकुंकुंमकर्पूराश्च विलेपनार्थमन्येषां च नियमः । अगरसेल्हारसधृपे अन्येषां च नियमः। घृतपूरखण्डखण्डखर्जकानि पक्वान्नभोजने, अन्येषां च नियमः। द्राक्षादिनिष्पन्नं पेयं क्षैरेयीं च अन्येषां नियमः । सुगन्धकलमशालिं विनाऽन्यौदनस्य नियमः । माषमुद्गकलापं विनान्यधान्यस्य नियमः । शरत्कालनिष्पन्नं घृतं विनान्यस्य नियमः । वास्तुकं मंडकिं पल्यक विनाऽन्यशाकस्य नियमः। आकाशसत्कं पानीयं विनाऽन्यस्य नियमः। एलालबङ्गकङ्कोलकर्पूरजातिफलैमिश्रितं तांबूलं विनाऽन्यस्य नियमः। गृहसत्कवस्तूनि विनाऽन्येषां नियमः । अन्यतीर्थिकः परिगृहीतं जिनबिम्बमहं नमस्कारं न करोमि।" १ अहीं श्रावकना बार व्रतोनु वर्णन करो. 部除:藥聯端柴柴聯聚號密继婆婆幾殘张馨盛举染整密聯密密寄 ॥१६॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy