________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा ॥ ॥१८॥
द्वितीयप्रश्न:॥
號聯聯發聯躲躲躲器端器端離器整蹤器器幾验器
" भो गौतमस्वामिन् ! किं सत्यवादिना मिथ्यादुष्कृतं दीयते वा असत्यवादिना ?" गौतमस्वाम्याह-" हे आनन्द ! असत्यवादिनैव तावन्मिथ्या दुष्कृतं देयम् ।" आनन्दः प्राह-" तर्हि भवद्भिरेव मिथ्या दुष्कृतं देयम् ।" तत् श्रुत्वा गौतमस्वामी सशको जातः । उत्थाय च ततः श्रीवीरस्यान्तिके समागतः ।
भक्तपानमालोच्य स्वामिनं प्रति स पृष्टवान्-" हे भगवन् ! आनन्दः सत्यवादी किं घाऽहम् ?" भगवतोक्तम्-" भो | गौतम ! आनन्द एव सत्यवादी, अतस्त्वं तत्रानन्दपार्श्व गत्वा मिथ्या दुष्कृतं देहि" तदा गौतमेनागत्य तस्मै मिथ्या | दुष्कृतं दत्वा प्रोक्तम्-“भो आनन्द ! भगवता त्वं सत्यवादी प्रोक्तोऽसि, अतोऽहं ते मिथ्या दुष्कृतं ददामि । मया यदा तद्विषये स्वामी पृष्टस्तदा तेनोक्तं तत्सर्वमपि स पश्यति ।" अथानन्दोऽनशनं विधाय समाधिना स्वायुः पूर्णीकृत्य सौधर्मदेवलोकेऽरुणाभविमाने देवो जातः ।। (२)
॥ इति श्री खरतर० आनन्दस्य कथा समाप्ता ।। इति द्वितीयः प्रश्नः ।। (२) तृतीयचतुर्थप्रश्नोत्तरमाह
तृतीयप्रश्न:-(श्रीगौतमस्वामी तृतीयं प्रश्नं पृच्छति-हे कृपासिन्धो ! हे दयासागर ! स एव जीवो मृत्वा तिर्यक्षु किमुत्पद्यते ? ३)
उत्तर:-( कृपालुभगवान् तृतीयप्रश्नस्योत्तरं कथयति यथा-) १ अहीं निरभिमानपणानुं अने घमंडीपणानुं वर्णन करवू.
会能继器柴柴柴柴柴柴柴柴跳跳跳跳跳跳樂器錄器鉴路路路器
॥१८॥
For Private And Personal Use Only