Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम
नवमप्रश्नः॥
।
पृच्छा ॥३६॥
नामध्ये आचार्येण कथितम्-" यो मनुष्यो मांस भक्षयति स बहुदुःखभानरकगामी च भवति" इति श्रुत्वा स नातसंवेगो मांसभक्षणस्य शपथं जग्राह, जीवरक्षायां च तत्परोऽभूत् ।" तदादितः स कदापि जीवहिंसा नाकरोत् । ___अथ कियत्कालानन्तरं तत्र कल्पान्तकालोपमो दुष्कालः पतितः । सर्वे जनाच मांसभक्षणतत्परा जाताः। तदा सुनन्दस्य भार्या तं प्रति कथयति-" हे स्वामिन् ! त्वमपि नद्यास्तीरे याहि. तत्र च नदीमध्ये जालं विस्तार्य मत्स्यान् गृहोत्वानय, येनास्मत्कुटुम्बस्य पोषणं भवेत्" इति तयोक्तोऽसावुराच-“हे प्रिये ! इदं कार्य कदाप्यहं न करोमि, अस्मिन् कार्ये महाहिसा भवति ।" तदा भाययोक्तम् -" त्वं कैश्चिन्मुण्डकैर्वचितोऽसि, अतस्त्वं दूरे याहि ।" एवं भार्यया बहुशो निर्धेछनान्सुनंतो द्रहे मत्स्यान् निष्कासयितुं गतः । तत्रागाधे जले च जालं चिक्षेप । तत्र जालमध्ये पतितान् मीनान् दुःखाकूलान् वीक्ष्यानुकम्पया स तान् पुनर्जलमध्येऽमुञ्चत् । दिनद्वयावधि तेनैवमेव कृतम् । तृतीयदिनेऽप्येवं करणत एकस्य मीनस्य पक्षिका त्रुटिता । तद् दृष्ट्वा सुनन्दोऽतीव शोका” जातः । स्वगृहे समागत्य च स्वजनान् प्रति जगाद"अहं कदाचिदपि नरकनिवन्धनरूपां जीवहिंसां न करिष्यामि" एवमुक्त्वा स गृहानिर्गतः। एवं कियत्कालं यावत्तनियमं प्रपाल्य ततो मृत्वाऽयं त्वं दामनको जातः । मत्स्यपक्षत्रोटनकर्मोदयत इह भवे तवैकाङ्गुली त्रुटिता।"
एवं गुरुभ्यो निजपूर्वभवं श्रुत्वा सुनन्दः संवेगतोऽनशनं विधाय समाधिना च स्वायुः प्रपाल्य मृत्वा सुरवरो बभूव । ततश्युत्वा मर्त्य भवं प्राप्य जैनी दीक्षां च प्रपद्य क्रमात्स मोक्षं यास्यति ।
॥ इति जीवदयादानविषये दामनककथा सम्पूर्णा ॥ (९)
染整藥端警號樂器藤籃差继蒸聯盛號談談器樂樂器鉴器鉴號密
॥३६॥
For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141