SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम नवमप्रश्नः॥ । पृच्छा ॥३६॥ नामध्ये आचार्येण कथितम्-" यो मनुष्यो मांस भक्षयति स बहुदुःखभानरकगामी च भवति" इति श्रुत्वा स नातसंवेगो मांसभक्षणस्य शपथं जग्राह, जीवरक्षायां च तत्परोऽभूत् ।" तदादितः स कदापि जीवहिंसा नाकरोत् । ___अथ कियत्कालानन्तरं तत्र कल्पान्तकालोपमो दुष्कालः पतितः । सर्वे जनाच मांसभक्षणतत्परा जाताः। तदा सुनन्दस्य भार्या तं प्रति कथयति-" हे स्वामिन् ! त्वमपि नद्यास्तीरे याहि. तत्र च नदीमध्ये जालं विस्तार्य मत्स्यान् गृहोत्वानय, येनास्मत्कुटुम्बस्य पोषणं भवेत्" इति तयोक्तोऽसावुराच-“हे प्रिये ! इदं कार्य कदाप्यहं न करोमि, अस्मिन् कार्ये महाहिसा भवति ।" तदा भाययोक्तम् -" त्वं कैश्चिन्मुण्डकैर्वचितोऽसि, अतस्त्वं दूरे याहि ।" एवं भार्यया बहुशो निर्धेछनान्सुनंतो द्रहे मत्स्यान् निष्कासयितुं गतः । तत्रागाधे जले च जालं चिक्षेप । तत्र जालमध्ये पतितान् मीनान् दुःखाकूलान् वीक्ष्यानुकम्पया स तान् पुनर्जलमध्येऽमुञ्चत् । दिनद्वयावधि तेनैवमेव कृतम् । तृतीयदिनेऽप्येवं करणत एकस्य मीनस्य पक्षिका त्रुटिता । तद् दृष्ट्वा सुनन्दोऽतीव शोका” जातः । स्वगृहे समागत्य च स्वजनान् प्रति जगाद"अहं कदाचिदपि नरकनिवन्धनरूपां जीवहिंसां न करिष्यामि" एवमुक्त्वा स गृहानिर्गतः। एवं कियत्कालं यावत्तनियमं प्रपाल्य ततो मृत्वाऽयं त्वं दामनको जातः । मत्स्यपक्षत्रोटनकर्मोदयत इह भवे तवैकाङ्गुली त्रुटिता।" एवं गुरुभ्यो निजपूर्वभवं श्रुत्वा सुनन्दः संवेगतोऽनशनं विधाय समाधिना च स्वायुः प्रपाल्य मृत्वा सुरवरो बभूव । ततश्युत्वा मर्त्य भवं प्राप्य जैनी दीक्षां च प्रपद्य क्रमात्स मोक्षं यास्यति । ॥ इति जीवदयादानविषये दामनककथा सम्पूर्णा ॥ (९) 染整藥端警號樂器藤籃差继蒸聯盛號談談器樂樂器鉴器鉴號密 ॥३६॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy