________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवम
श्री गौतम
प्रश्न:
NERS HIGHER****
कृतम् ? यत्प्रसादादयं भवतोः संगमो जातोऽस्ति" इत्युक्त्वा पुष्पादिभृतभाजनयुतौ तौ दंपती सन्ध्यासमये पूजार्थ गोत्रदेच्या आयतने स मुमोच। ___एवं तौ सन्ध्याकाले पूजार्थ गोत्रदेवीमन्दिरे गच्छन्तौ दृष्ट्वा हट्टस्थितश्रेष्टिपुत्रः समुद्रदत्त उत्थाय तो प्रत्युक्तवान्-"अत्र सन्ध्यासमये पूजावसरो नास्ति" इत्युक्त्वा तावेकान्ते तत्र चतुष्पथे संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देवालये प्राविशत्। तदा संकेततस्तत्रागतेन पिंगलचाण्डालेन ज्ञातं यत्स एव पुरुषः समागतः, इति विचार्य तेन स श्रेष्टिपुत्रः समुद्रदत्तः खङ्गेन | व्यापादितः, चिन्तितं च-" अद्य मया श्रेष्ठिनो मनोवाञ्छितं कार्य विहितम् ।" ___अथ क्रमेण तत्र हाहारवो जातः । सागरपोतो निजपुत्रमरणं विज्ञाय वक्षःस्फोटनेन पुत्रवियोगदुःखितो मृत्युमाप । अथ | कुटुम्बिनिर्मिलित्वा स दामनकस्तस्य श्रेष्ठिनो गृहादिसर्वधनस्य प्रभुश्चक्रे । अथ स दामनको यौवनेऽपि धर्म चकार, परं विषयेषु वाञ्छ न व्यधात् ।
एकदा तेन कस्यचित्साधोरग्रे धर्मदेशना श्रुता, देशनाश्रवणानन्तरं दामनकेन पृष्टम् - "हे भगवन् ! कृपां विधाय मम पूर्वभवं कथयत।" मुनिनोक्तम्-“भो दामनक ! शणु___अम्मिन्नेव भरतक्षेत्रे गजपुरनगरे सुनन्दाख्य एकः कुलपुत्रोऽभूत् । तस्य जिनदासाख्य रसुहृद् बभूव । एकदा तावुद्याने गतौ । तत्रस्थं कश्चनाचार्य निरीक्ष्य सुनन्दो मित्रसहितस्तदन्तिके समागत्य स्थितः । आचार्येण देशना दत्ता । देश
१ धर्मना प्रभावन वर्णन करवं.
॥३५॥
For Private And Personal Use Only