Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम पृच्छा ॥३१॥
***29082
नवमप्रश्नः ॥
गाथा-मारेइ जो न जोवे, दयावरो अभयदाणसंतुट्ठो। दीहाऊ सो पुरिसो, गोयम ! भणिओ न संदेहो ॥ २५ ॥ (९)
व्याख्या:-यो जीवान मास्यति, यश्च दयावान् भवति, पुनर्यो अभयदानं दत्वा सन्तुष्टो भवति स जीवो मृत्वा परभवे सम्पूर्णायुभवेत् , हे गौतम ! तद्विषये त्वं सन्देहं मा कृथाः ॥२५॥ एवंविधः पुरुषो दामनकवदीर्घायुभवति । तद्यथा
राजगृहनगरे जितशत्रुनामा राजा राजते । तस्य जयश्रीनाम्नी राज्ञी विद्यते । तत्र मणिकारः श्रेष्ठी, तस्य च सुयशानाम्नी पत्नी । तयोः पुत्रो दामनकाख्योऽभूत् । स यदाष्टवार्षिको जातस्तदा तस्य पितरौ मृतौ । दारिद्यभावात्स दामनको नगरमध्ये धनिनां गृहेषु भिक्षावृत्तिं करोति । ... अथैकदा द्वौ मुनी सागरपोताख्यवृद्धश्रेष्ठिनो गृहे आहारार्थ प्रविष्टौ, आहारं च गृहीत्वा यदा तो बहिः समागतो, | तदा ताभ्यां स भिक्षाचरो बालकस्तस्य द्वारि स्थितो दृष्टः । तं दृष्टैकेन मुनिनोक्तं द्वितीयं मुनि प्रति-“भो मुने! नून मयं बालोऽस्य गृहस्य स्वामी भविष्यति ।"
अथ गवाक्षस्थितेन गृहस्वामिना श्रेष्ठिना रतत्सर्वमाकर्णितम् । तेन च स वज्राहत इव सजातः चिन्तितं च तेन "अहो मयानेकै कष्टैर्मायावीभूयाऽयं विभव उपार्जितोऽस्ति, तस्य विभवस्य चायं रङ्कः स्वामी भविष्यति, गुरुवचनमन्यथा नैव
१ अहीं अभयदान तथा अहिंसानुं सारी रीते वर्णन करवू. २ साधुए बहु विचारीने बोलवू भाषा समिति वगेरे पांच समितिओनुं वर्णन करवू.
经常熟茶佛密密密整蒂蒂蒂蒂亲张黎夢夢密游张继轮游游游染
2288000
॥३१॥
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141