Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम पृच्छा ।। ॥११॥
प्रथमप्रश्नः ॥
杂染部举染带染染強部落部落染染器密继染染能染務:染:器懿
अथ स जमदग्निस्तापसो गृहे गत्वा बहुपुत्रीपितुः क्रोष्टिकनगराधिपतेर्जितशत्रोनृपस्य पार्श्व समागत्यैको कन्यां ययाच। एवं तं तापस चलचित्तं तपोव्रताच भ्रष्टं विज्ञाय स मिथ्यात्वी देवो जैनधर्मे दृढानुरागी जातः।
अथ तापसयाचनानन्तरं राज्ञोक्तम्-" मम पुत्रीशतं वर्तते, तन्मध्याद्या त्वां वाञ्छत तां गृहाण ।" तदा स ऋषिनृपस्यान्तःपुरे गतः। तत्र सकलाः कन्यास्तं तापसं जटिलं दुर्बलं असंस्कृतदेहं मलिनाङ्गोपाङ्गं च दृष्ट्वा तं प्रति थूत्कृतं चक्रः । तदा कुपितेनर्षिणा ताः सर्वा अपि कन्याः कुब्जीकृताः । पश्चाद्वलितेन तेनैका नृपकन्या नृपप्रासादाङ्गणे रममाणा दृष्टा, तस्यै निजरूपं सम्यक् प्रदर्य तेनोक्तम्-"त्वं मां वाञ्छसि ?" इत्युक्त्वा तस्या हस्ते बीजपूरकफलं दत्वा तामुत्पाटय स चलितः। शापभयभीतेन राज्ञा सहस्रगोकुलदासदासीसहिता सा कन्या तस्मै दत्ता। पश्चात्तेनर्षिणा नृपविनयातुष्टेन तपःप्रभावात्ताः सर्वा अपि कुब्जीभूताः कन्याः समीचीनाः कृताः । एवं तेन स्वकीयं सर्वमपि तयो निष्फलीकृतम् ।
अथ तेन सा कन्या निजाश्रमे स्थापिता यौवनं प्राप्ता च परिणीता । 'रेणुका' इति तस्या अभिधानं जातम् । तया सह स विषयसुखानि भुनक्ति । अथैकदा ऋतुकालसमये तस्यै जमदग्निनोक्तम्-“हे पिये! अद्याहं त्वां प्रत्येक वस्तु साधयित्वा दास्यामि, येन तव पुत्रोत्पत्तिभविष्यति ।" तदा रेणुकयोक्तम्-" हे स्वामिन् । युष्माभिमन्त्रैर्द्व वस्तुनी साधयितव्ये, यथैकेन वस्तुना क्षत्रियः पुत्रो द्वितीयेन च ब्राह्मणः पुत्रो मे भवेत् ।" तापसेनापि तथा कृतम् । तद्वस्तुद्वयं च रेणुकाग्रे मुक्तम् । अथ रेणुकया तन्मध्यादेकमौषधं जग्धं, तत्पभावतश्च तस्या महाशूरो महाप्रतापी च पुत्रोऽभूत् । अपरं चौषधं हस्तिनागपुरे स्वभगिन्य प्रेषितं, तया च तद्भक्षितम् , तत्पभावेण च तस्या अपि कृत(कीर्ति)वीर्यनामा पुत्रो जातः ।
染染器继器發端鄉發發器夢夢發器婆婆發蒸發器瓷器瓷器器築
For Private And Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141