Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः २५
वि० सं० २०६६ दक्षिणायनम्
सङ्कलनम् कीर्तित्रयी
Page #2
--------------------------------------------------------------------------
________________
आनन्दस्य क्षण:
वैक्रमीये २०५५ तमेऽब्दे उत्तरायणे प्रारब्धस्याऽयनपत्ररूपस्य नन्दनवनकल्पतरोरद्य पञ्चविंशी शाखा प्रकाश्यते इत्ययमानन्दस्याऽऽह्लादस्योत्सवस्य च क्षणः । गूर्जरदेशे सौराष्ट्रप्रदेशे संस्थितस्य तगडी-ग्रामस्य परिसरे वात्सल्यनिधि सङ्घनायकानां पूज्याचार्यभगवतां श्रीमद्विजयनन्दनसूरीश्वराणां स्वर्गमनभूमौ संस्थापितस्य श्रीनन्दनवनतीर्थस्य प्रतिष्ठायाः सुवर्णावसरे पूज्यगुरुभगवतां आचार्यवर्यश्रीविजयसूर्योदयसूरीश्वराणां श्रीविजयशीलचन्द्रसूरीश्वराणां च प्रेरणयाऽऽशिषा सहकारेण सार्वकालिकमार्गदर्शनेन च प्रारब्ध: संस्कृत-प्राकृत भाषामयोऽयनपत्रो नन्दनवनकल्पतरुरद्य पञ्चविंशतितमं प्रगतिस्तम्भं प्राप्तोऽस्ति । अस्मिन्नवसरे किञ्चिदात्मगतं वक्तुकामाः स्मो वयम् ।
-
3
Page #3
--------------------------------------------------------------------------
________________
यदा ह्ययं नन्दनवनकल्पतरुरैदम्प्राथम्येन प्रकाशयितुमारब्धोऽस्माभिस्तदा वयं प्रथमतया चलितुकामो बाल इव संस्कृतपत्रिकालेखन-प्रकाशनादिषु सर्वथाऽनभिज्ञा अनुभवरहिताश्चाऽऽस्म। किन्तु बालस्य मातेव नः पूज्यगुरुभगवन्तः सन्ततमूष्मपूर्णपथप्रदर्शनेन साक्षाच्च नव-नवसाहित्यसृष्ट्याऽस्मान् संस्कृतभाषापथे चलनार्थं व्यापारितवन्तः स्खलनानि शोधं शोधं च रक्षितवन्तः पतनात् ।
अनेनैव सह, अदूष्यवैदुष्यधारिण: काव्य-कथा-नाट्यादिसाहित्यप्रकारेषु पारगामिणः समस्तभारतवर्षे विश्रुतकीर्तयो बहवो मूर्धन्या विद्वांसो निःस्पृहतया केवलं भाषाप्रीत्या साहित्यप्रीत्या चाऽस्माकं साहाय्यार्थं नन्दनवनकल्पतरोश्च समृद्धीकरणार्थमग्रे समागताः । एतैर्हि सन्ततं विविधाः साहित्यरचनाः सम्प्रेष्याऽस्माकमुत्साह उल्लासश्च वधितोऽस्ति । अतोऽस्मिन्नवसरे तेषां कार्तश्यपुरस्सरं स्मरणमत्र कुर्महे । ते च सन्ति - डॉ. श्रीअभिराजराजेन्द्रमिश्रमहोदयः, डॉ. श्रीरामकिशोरमिश्रमहोदयः, श्रीदेवर्षिकलानाथशास्त्रिमहोदयः, डॉ. श्रीरूपनारायणपाण्डेयमहोदयः, श्रीएस्.जगन्नाथमहोदयः, अरैयर् श्रीरामशर्ममहोदयः, डॉ. एच्. वि. नागराजराव् महोदयः, श्रीसुरेन्द्रमोहनमिश्रमहोदयः, श्रीजगन्नाथपाठकमहोदयः, श्रीमदनलालवर्ममहोदयः, डॉ. श्रीवासुदेवपाठकमहोदयः, श्रीमहाबलेश्वरशास्त्रिमहोदय- इत्यादय औत्तराहा दाक्षिणात्याश्च विद्वांसः ।
एतानतिरिच्य सम्भाषणसन्देशः, भारती, कथासरित्-इत्यादिसंस्कृतपत्रिकाणां सम्पादकैरपि डॉ. श्रीविश्वासमहोदयः, डॉ. श्रीजनार्दनहेगडेमहोदयः, श्रीदेवर्षिकलानाथशास्त्रिमहोदयः, डॉ. श्रीनारायणदाशमहोदयः- इत्यादिभिर्यथाकालं स्वस्वपत्रिकासु नन्दनवनकल्पतरोः समीक्षादि प्रकाश्याऽस्माकं प्रेरणा मार्गदर्शनं च प्रदत्तमस्ति, तदर्थं वयं कृतज्ञाः स्मः ।
तथैव बहुभिः पूज्यसाधुभगवद्भिः - आचार्यवर्यश्रीविजयहेमचन्द्रसूरिवर-उपाध्यायश्रीभुवनचन्द्रजित्-मुनिश्रीधुरन्धरविजयमहाराजादिभिः स्वीयोत्कृष्टरचनाः सम्प्रेष्य यथाकालं मार्गदर्शनं च दत्त्वा न उत्साहो वधितोऽस्ति, तदर्थं वयं तेषामृणिनः स्मः । तथैव सर्वेषामपि वाचकानामपि वयमाभारं मन्यामहे ।
अथ चैतान् सर्वान् पूज्यमुनिभगवतो विद्वांसश्च विज्ञपयामोऽद्य यदेवमेव सर्वदा साहित्यप्रेषणेन मार्गदर्शनोत्साहवर्धनेन च नन्दनवनकल्पतरुं समृद्धीकुर्युरिति ।
कीर्तित्रयी
भाद्रपदपूर्णिमा, २०६६ अहमदाबादनगरम् ॥
Page #4
--------------------------------------------------------------------------
________________
वाचकानांप्रतिभावः
नन्दनवनकल्पतरोः प्रशंसा
नन्दने वने कल्पतरुरयम् । नन्दितद्विजो भवतु सर्वदा ॥ पञ्चविंशतः पत्रिका त्वियम् । मोददायिका लसतु भूतले ॥१॥
जिनतीर्थंकरवचनविभूषित ! । विश्वविशालविचारसुपूरित ! ॥ सज्जनमानसमोदसमन्वित ! । नन्दनवनकल्पतरो ! त्वं भव ॥२॥
विद्वल्लेखनकुसुमविराजित । विश्वोन्नतिपथदर्शनसंस्थित ! | दुर्जनदुर्गुणनाशसमन्वित ! । नन्दनवनकल्पतरो ! त्वं भव ॥३॥
वसुधातलमध्यस्थितभास्कर ! । जनमनसंस्थितध्वान्तनिवारक ! ॥ स्वकिरणजालविभूषितभूतल ! । नन्दनवनकल्पतरो ! त्वं ! भव ॥४॥
राकापूर्णनिशाकरशीतल !। सुन्दरज्योत्स्नानन्दप्रदायक ! ।। जगजनहितसम्पूरितसुन्दर ! । नन्दनवनकल्पतरो ! त्वं भव ।।५।।
विद्वान् महाबलेश्वर शास्त्री
बेङ्गलूरु-५६००८५
Page #5
--------------------------------------------------------------------------
________________
मान्याः
सादरं प्रणामाः ।
चतुर्विंशे 'नन्दनवनकल्पतरौ' प्रास्ताविके समीचीनं चिन्तनं विराजते । प्रा० अभिराजराजेन्द्रमिश्रस्य कथा 'प्रायश्चित्तम्' ग्राम्यजीवितस्य रम्यतरं वर्णनं प्रस्तौति । अत्र महिषीसंरक्षणस्योपेक्षायाः प्रायश्चित्तं बलदेवस्य पत्नी चकार । 'आर्याम्बा' इति कथायां भगवतः शङ्करस्य मातृभक्तिः, तस्य च मातुर्भावा हृदयं संस्पृशन्ति । 'मर्मगभीरम्' इति स्तम्भे सर्वाः लघुकथाः सद्विचारान् उपदिशति । 'संवेदनशीलता' त्वर्थशौचस्य नितरां गुरुत्वं प्रतिपादयति । मन्ये, न केवलम् आध्यात्मिकसाधनायामपि तु जीवनस्य सर्वेषु क्षेत्रेष्वर्थस्य शुचिता सर्वथाऽपेक्ष्यते। कस्याऽपि जनस्य, परिवारस्य, राज्यस्य, राष्ट्रस्य, निखिलजगतश्चाऽभ्युदय आथिकं शौचं विना न सम्भवति । अद्य सर्वे क्लेशा धनस्य विषये शुचिताया अभावात् प्रवर्तन्ते । 'किं दुःखस्य मूलम्', 'प्राणानप्यविगणय्य परोपकारं कुर्वाणा जीविनः' 'पापिनी' चेत्यादयः सर्वा रचनाः सत्समाजस्य संरचनाया मार्ग प्रदर्शयन्ति ।
मन्ये सत्यकथावैविध्यविलसिता पञ्चविंशतितमी शाखा न केवलं संस्कृतसाहित्यसम्पदं विवर्धयेत्, अपि तु मार्मिककथाभिः समग्रं भारतीयं समाजं सदाचारस्य नैतिकतायाश्चाऽभिनवं पन्थानं प्रदर्शयेत् । सुरभारतीसमर्चनामाध्यमेन समाजस्य संरचनायायां नन्दनवनकल्पतरोः परिवारस्य प्रयत्नाः सादरं समभिनन्दनीयाः सन्ति । जयतु संस्कृतं संस्कृतिश्च ।
डा० रूपनारायणपाण्डेयः
प्रयागः
पूज्यानां चरणारविन्दयोः प्रणामाः ।
नन्दनवनकल्पतरोः शाखाः क्रमशः प्राप्यन्ते । तासां पठनेन मोदमनुभवामि । प्रतिशाखं वाचनीयता वर्धमानाऽस्ति - इत्येतन्महते सन्तोषाय ।।
डॉ. विश्वासः मङ्गलूरुः ॥
Page #6
--------------------------------------------------------------------------
________________
मान्या, कीर्तित्रयी, प्रणामाः । प्रणम्यन्ते सादरं सम्पूज्याः सद्गुरुचरणाः ।
सारस्वतसमारम्यां नानाचार्यसुशोभिताम् । प्रसन्नाचार्यपर्यन्तां वन्दे विद्वत्परम्पराम् ।।
अनिवार्यमावश्यकं च सूचितम् अस्माकमयनपत्रस्य २४तमे अङ्के यत् साक्षरताभियानं स्यात् संस्कारदायकं पुनः । शिक्षकः शिक्षितस्स्याच्च संस्कारैश्शोभते तथा ।। जीवने सफलं सर्वं सु-फलं च भविष्यति ।।
एवं कृते, प्रोज्ज्वलं भविष्यति सर्वमिति निश्चितम् । एष विवेकः । विना विवेकं विफलं सर्वम् ॥
- लेखकानां निवास-निर्देशन सम्पर्कः शक्यः । प्रशस्यमिदम् ।।
२५तमस्याऽङ्कस्य विमोचनं संस्कृत-संस्कृति-समुपासकानां सद्गुरुवर्याणां शुभाशीर्वादैः, संस्कृते समारोह सम्पन्नं स्यादित्यपेक्ष्यते, प्रार्थ्यते च सादरम् । सन्निष्ठाः सारस्वताः लेखकाः तत्र सम्मानिता एव भवेयुः ।।
सुज्ञैः सर्वं सुधामयम् ॥ वयं तत्र सहयोगिनः ॥
विदुषां वशंवदत्वेन, वासुदेवः पाठकः, 'वागर्थः'
Page #7
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरोः शाखा चतुर्विंशतिः प्राप्ता । सानन्दं पठिता ।
'महावीरवाणी' इत्यत्र पूज्यत्वप्राप्तये कथं जीवनं यापनीयं इति सम्यक् सम्पादितम् ।
धर्माभासकुलकेन त्वस्माकं सर्वेषां मिथ्याऽहङ्कारो दूरीभवति ।
स्याद्वादसिद्धान्ताः – त्रैलोक्यमण्डनविजयस्य शोभन्तेतराम् । जैनदर्शनस्य हृदयमयं स्याद्वादः । अभ्यासकानां कृते सरलतया दत्तः ।
जैनदर्शने मुक्तिविभावना अत्र त्रैलोक्यमण्डनविजयेन सरलभाषायां विविधदर्शनानां मुक्तेविभावना दर्शिता ।
त्यागः कथा इदानीं स्वार्थरसिकानामअस्माकं जनानामतीव बोधदायिकाः ।
प्रायश्चित्तम् – इत्यत्र प्राणिनः परोपकारं कृत्वा किमपि न कथयन्ति किन्तु तेषां अभावे एव तैः कृतः परोपकारो ज्ञायते ।
पाइयविन्नाणकहा धर्मराज-प.पू.प्रात:स्मरणीयकस्तूरसूरिमहाभागानां कृतयः स्वयमेव अनन्यसदृशा अत्यन्तबोधदायिन्यः आबालगोपालानां हितकराः सन्ति ।
मुनिविश्रुतयशविजयः
अयि भो आर्यवराः !
-
भवद्भिः प्रेष्यमाणाः सर्वा अपि नन्दनवनकल्पतरोः सञ्चिका उपलभ्यन्ते ।
महते सन्तोषाय समजनि नन्दनवनकल्पतरोश्चतुर्विंशीं सञ्चिकां दृष्ट्वा । प्रतिसञ्चिकमुत्कृष्टपत्रेषु मुद्यमाणो नन्दनवनकल्पतरुरतितमां मुदे भवति ।
यद् भवद्भिर्विद्युत्प्रेषण(email ) व्यवस्था कारिता तत् साधु ।
8
इति
-
एस्. जगन्नाथः मैसूरुः ॥
Page #8
--------------------------------------------------------------------------
________________
अनुक्रमः
मन्दावनकल्पतरुः
पृष्ठम्
कृतिः
कतो श्रीपार्श्वेश्वरस्तोत्रम्
स्व. प्रवर्तकमुनिश्रीयशोविजयः चित्रकाव्यानि
स्व. प्रवर्तकमुनिश्रीयशोविजयः सर्व-समृद्धिकरं आदिनाथप्रभुस्तवनम्
मुनितारकचन्द्रसागरः जिनचतुर्विंशतिस्तुतिः
प्रा. अमृत-पटेलः ऋषभदेवस्तोत्रम्
डॉ. आचार्यरामकिशोरमिश्रः श्रीगुरुवरवरणम्
डॉ. वासुदेव वि. पाठकः इन्दिराष्टकम्
विद्वान् महाबलेश्वर-शास्त्री अनुभूतिशतकम्
डॉ. अभिराजराजेन्द्रमिश्रः अन्योक्तयः
डॉ. अभिराजराजेन्द्रमिश्रः गलज्जलिका - दैवज्ञं कं पृच्छेयम् ?
डॉ. अभिराजराजेन्द्रमिश्रः अलङ्कारलक्ष्यपद्यानि
एस्. जगन्नाथः श्रीविद्याप्रबन्धः
स्व. मुनिश्रीहिमांशुविजयः जैनदर्शनसत्कतत्त्वविभावना - मुक्तिः
मुनित्रैलोक्यमण्डनविजयः ग्रन्थपरिचयः - श्रीधनञ्जयविरचितं द्विसन्धानकाव्यम् एच्. वि. नागराजराव्
विषयविशेषः - मम हृदयस्पर्शिनी घटना
- अद्याऽपि नीतिमत्ता न विनष्टा - प्रेम्णो विश्वासस्य च शक्तिः - ऋणमुक्तिः - आतिथ्यम् - मम हृदयस्पर्शिनी घटना - प्रेममयी माता - त्वदर्थमेव वत्स ! त्वदर्थम् - को भगवान् ?
मुनि धर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिविश्रुतयशविजयो गणी मुनितीर्थबोधिविजयः मुनित्रैलोक्यमण्डनविजयः डॉ. वासुदेव वि. पाठकः 'वागर्थ'
Page #9
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरः
अनुक्रमः
कृतिः
कर्ता
पृष्ठम्
- धन्योऽसि - मम जीवनस्य त्रयः प्रसङ्गाः - सुख-शान्तिकृते - जगतः सौन्दर्यम्
- भगवदस्तित्वम् पत्रम् ग्रन्थसमीक्षा
- आजादचन्द्रशेखरचरितम्
प्रा. चन्द्रिका वा. पाठक डॉ. मदनलालवर्मा मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिधर्मकीर्तिविजयः
डॉ. रूपनारायणपाण्डेयः
कथा
- शान्तिः
मुनिरत्नकीर्तिविजयः मुनिरत्नकीतिविजयः मुनिकल्याणकीर्तिविजयः सा० धृतियशाश्रीः
०
डॉ. अभिराजराजेन्द्रमिश्रः कीर्तित्रयी
०
- दुःखमुक्तेरुपाय: - क्षुधितः फकीरः
- कथायां बोधः रङ्गमञ्चः
मृदङ्गदासप्रहसनम् मर्म-नर्म प्राकृतविभागः
पहावपुण्णाइं गुणाई पाइयविन्नाणकहा १. गेहेसूरसुवण्णयारस्स कहा २. निद्धणवणिअस्स कहा ३. चउजामायराणं कहा
or or
आ. विजयकस्तूरसूरिः आ. विजयकस्तूरसूरिः
o m
m
3
10
Page #10
--------------------------------------------------------------------------
________________
Title-4
निवेदनम्
अयि भो ! नन्दनवनकल्पतरुफलरसास्वदिच्छुकाः सहृदयवाचकाः !
अवधार्यतामेतद् यत् प्रवर्त्तमानं वर्षं कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यस्य पुण्यस्मृत्याऽङ्कितम् । महापुरुषस्याऽस्य ११६६ तमे वैक्रमीयवर्षे सूरिपदेनाऽलकृतिः समजनि । तत इदानीं कलिकालसर्वज्ञस्य नवमसूरिपदशताब्द्या उत्सवाचरणस्य पुण्यावसरः । उत्सवेऽस्मिन् स्वीयया विशिष्टशैल्या भागं ग्रहीष्यति नन्दनवनकल्पतरुपरिवारः । तन्नाम नन्दनवनकल्पतरोरग्रिमा शाखा 'कलिकालसर्वज्ञ-विशेषाङ्क' रूपेण प्रकाशयिष्यते । अतो निमन्त्र्यन्ते भवन्तो यद अघोनिर्दिष्टेषु तत्सदृशेषु वा कलिकालसर्वज्ञसम्बन्धिविषयेषु लेखनी प्रचाल्य विशेषाङ्कमिदमङ्कर्वन्तु । विषयाः
- कलिकालसर्वज्ञस्य जीवनम् - कलिकालसर्वज्ञस्य राजनैतिकक्षेत्रे प्रभावः - कलिकालसर्वज्ञस्य समुदारदृष्टिः - कलिकालसर्वज्ञस्य योगसिद्धिः - कलिकालसर्वज्ञस्य दार्शनिकप्रतिभा - कलिकालसर्वज्ञेन संस्थापितानि नैतिकमूल्यानि - कलिकालसर्वज्ञस्य ग्रन्थाः - त्रिषष्टिशलाकापुरुषचरित्रमहाकाव्यस्य रमणीयता - योगशास्त्रस्थं स्वानुभवपरिपाकजं योगवर्णनम् - वीतरागस्तवे प्रकटीभवद् भक्तितत्त्वम् - सिद्धहेमशब्दानुशासनस्योत्कृष्टता
एतदतिरिच्य कलिकालसर्वज्ञसम्बन्धि प्रेरणास्पदघटनारोचकप्रसङ्गः-स्तुत्याद्यपि प्रेषयितुं कल्पते । भवद्हृदयस्थं कलिकालसर्वज्ञं प्रत्यादरं व्यक्तीकर्तुमयमेकः सुयोग्योऽवसरः ।
प्रेषणावधिः
11
Page #11
--------------------------------------------------------------------------
________________
॥ श्रीपार्श्वेश्वरस्तोत्रम् ॥
(कविजगद्धररचित-हरस्तोत्रान कारि)
विजयनेमिसूरीश्वरशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः
(हरिगीतं छन्दः)
भववनभ्रमजनितदिग्भ्रमसततमानससंभ्रम विगतचेतनमसमचेतनगुणनिकेतन! पार्थ! माम् ॥ विशदशारदकुमुदबान्धववदन! मन्दिरमापदां सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥१॥
दरितभेदन! विविधवेदनमसमखेदनवापदं मदनमर्दन! मदविमर्दन! दुरिततर्दन! निर्दयम् ॥ लसदुपासन! विततशासन! विततवासनमानसं सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥२॥
भुवनभूषण! विहतदूषण! कुमतिसंहतिपूषणं भुवनपावन! विगतभावनविषयधावनलोलुभम् ॥ भयविभञ्जन! भविकरञ्जन! वरनिरञ्जनपूजन! सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥३॥
Page #12
--------------------------------------------------------------------------
________________
भविकबोधक! विषयरोधक! विगतबोधकचित्तकं समयबोधन! सकलशोधन! विविधबाधनसाधनम् ॥ भवविमोचन! विगतशोचन! विमललोचन! चञ्चलं सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥४॥
गुणसमुद्र! महत्त्वमुद्र! विनिद्रसम्पदमुद्रण ! सकलसज्जनजननतारणचरणचारणकारण! ॥ असमसंवर! भविजनम्भर विजितशम्बरशातन! सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥५॥
चलदनर्गलभवदवानलविकलकल्मषभाजनं कपटकौशलकलितपाकलफलितकर्मविपाककम् ॥ लसितलालसललितलाघवदलितबोधबलोदयं सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥६॥
गुणविवर्जितविबुधर्जितशमविसर्जितमानसं भयहुताशनशमितशासनमसदुपासनलालसम् ॥ कुगतिसङ्गतिलसदसन्मतिसततसद्गतिवर्जितं सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥७॥
अरिपटच्चरहठविलुण्ठितचटुलचेतनविह्वलं मतिविवर्जितचिरतरार्जितनियतितर्जितसक्रियम् ॥ कृतकराञ्जलिमघदवावलिविकलितालसचेतसं सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥८॥
इति श्रीशकलितसकलकलहकोलाहलकपटकुलकलशैलकूटप्रविघटनप्रकटकौशलकुलिशायमाननिःशेषशेमुषीसमुन्मेषपराजितापरापराजितनिर्जराचार्यवर्याचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपादपद्मेन्दिन्दि
रायमाणविनेययशोविजयविरचितं
शरणगतोद्धरणाख्यं स्तोत्रं समाप्तम् ॥
Page #13
--------------------------------------------------------------------------
________________
१. श्रीवीरस्तुतिः
< धनुर्बन्धा > < वसन्ततिलका >
मि
मा
न
रं
प
ल मे
वी
ल
चित्रकाव्यानि
नं
द
या
लुं घो
वीरं नमामि विपदां दलनं दयालुं
रा
पापान् समुद्धरति यो जितभाववैरी
विजयनेमिसूरीश्वरशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः
३
-ST
साकदेगजनंमशप्रमद्दर्पोदरीवैवभातजियोतिरद्धमुसन्या
का
र
घोरान्धकारविधुरान् विविधोपतापान् ।
दर्पोद्गमप्रशमनं जगदेकसारम् ॥
वि
धु
रान्
ক
न्
वि
वि
15
ता
पा
Page #14
--------------------------------------------------------------------------
________________
२. श्रीवीरस्तुतिः
<शरबन्धः >
Lo
सर्व
Ᏹ
भ
सर्व
त्र
奸
धी
tot to
दा
FF v to
न्मा
म्
न्न
तम्
रितो
षण
सर्वदा दारितोन्मादं सर्वर्द्धिधिषणैर्नुतम् ।
वन्दे वीरं महाधीरं भवसत्रत्रसन्नतम् ॥
४
३. श्रीजिनस्तुतिः <त्रिशूलबन्धः>
दा
स
वि
तम्
सि
how m
भा
सा
ज
म
द्दा
उ
उद्दामतेजसा भासद्देहसौन्दर्यभासितम् ।
तं सदाऽदासतं देवं वंदेत विदितं दिवि ॥
Page #15
--------------------------------------------------------------------------
________________
सर्व-समृद्धिकरं आदिनाथप्रभुस्तवनम्
मुनितारकचन्द्रसागरः
शिवमन्दिरयानरथे वृषभं, नतसर्व-सुरेन्द्र-नरेन्द्रगणम् । श्रितभव्यजनं कूततीर्थवरं, प्रणमामि जिनेश्वरमादिजिनम् ॥१॥ (तोटकवृत्तम्) अमलं वदनं मधुरं वचनं, नयनं वरपङ्कजपत्रसमम् । नर-देवनतं गुणलक्षयुतं, प्रणमामि जिनेश्वरमादिजिनम् ॥२॥ भजनात् क्षणुते भवकर्मरिपुं, स्तवनात् तनुते गुणकेलिगृहम् । स्मरणात् ददते सकलं विभवं, प्रणमामि जिनेश्वरमादिजिनम् ॥३॥ वरदिक्कुमरीकूतसत्करणं, सुरकोटिगणैः कृतजन्ममहम् । त्रिजगज्जनता-नतपादयुगं, प्रणमामि जिनेश्वरमादिजिनम् ॥४॥ परमात्ममयं जिनपं विमलं, सविशुद्धसुवर्णसदृक्चरणम्। गतसर्वविकार-विषादमलं, प्रणमामि जिनेश्वरमादिजिनम् ॥५॥ हतमोहमहारिपु-सैन्यबलं, निजचेतनभावसमाधिगतम् । गतहास्य-रति-भय-शोकगणं, प्रणमामि जिनेश्वरमादिजिनम् ॥६॥ वरसिद्धिपदे स्थितमैन्द्रमयं, निरुपाधिनिरञ्जनमात्ममयम् । अविकल्पमयं निरपेक्षमयं, प्रणमामि जिनेश्वरमादिजिनम् ॥७॥ समवस्थितमात्मसुख्खे कमनं, वरकेवलबोधयुतं मधुरम् । सफलं सरसं रुचिरं प्रियदं, प्रणमामि जिनेश्वरमादिजिनम् ॥८॥ अघपर्वतभञ्जनवज्रसमं, भवदुःख-निवारण-कामघटम् । विगतेन्द्रियसर्व-विकारभरं, प्रणमामि जिनेश्वरमादिजिनम् ॥॥ भववारिनिधौ वयानसमं, भवभीमवने वरसार्थसमम् । अधरीकृतजन्मजरा-मरणं, प्रणमामि जिनेश्वरमादिजिनम् ॥१०॥ शुभशान्तसुधारसकुण्डमयं, शतभास्ककान्तिशरीरधरम् । वरसौख्यदधर्मविधानपरं, प्रणमामि जिनेश्वरमादिजिनम् ॥११॥ भवरोगनिवारण-वैद्यसमम्, भवतापनिवारण-मेघसमम् । बहुपुण्यकलाललितं प्रवरं, प्रणमामि जिनेश्वरमादिजिनम् ॥१२॥ उपसर्गमहानिल-शैलसम, कलिकालतमो निशि दीप-समं । भवतारक-तीर्थकरं सुभगं, प्रणमामि जिनेश्वरमादिजिनम् ॥१३॥
Page #16
--------------------------------------------------------------------------
________________
'जिनचतुर्विंशति' स्तुतिः
अमृतपटेलः
A
सध्यानपार्वणशशिद्युतिराशिधौतं, सद्ध्यानचन्दनरजःप्रकरेण शीतम् । सध्यानकल्पलतिकावरपुष्पगन्धि, चित्तं ममाऽस्तु जिन ! ते वरदप्रसादात् ॥१॥ (व.ति.) दुःखस्य पूरैर्मनसः कृशत्वं, सगौरवे हृद्यजने निवेद्यम् । न यस्य कस्याऽपि निवेदनीयं, ‘खला न सर्वे नहि सन्ति' सत्यम् ॥२॥ (उपजातिः) सगौरवोऽहंस्त्वमिति प्रतीतः, सार्वो जगहृद्यतमोऽस्तमोहः । स्तुतेर्मिषानाथ ! निवेदयामि, मनोगतं त्वत्पुरुतो, जडोऽहम् ॥३॥ स्तोतुं न शक्यो जिन ! ते गुणौघः, सर्वत्रसडख्यातिगसर्वभावः क्षेत्रे समस्ते सकले च काले, जिनौघ! एकोऽस्ति विभुत्वप्रख्यः ॥४॥ आनन्दनिःस्यन्दमनिन्द्यमाद्यं नन्दीन्द्रसङ्घार्थ्य-वृषाध्वदीपम् । वृषैक केतुं वृषभद्रवन्द्यं, श्रीनाभिजातं प्रणतोऽस्मि भकत्या ॥५॥ मेधा मदीयाजित ! विश्वबन्धो !, बन्धुत्वसम्बन्धसुबद्धसन्धिः । सानिध्यतश्चन्दनपादपस्य, जडाऽपि भूः शीतलतां दधाति ॥६॥ त्वं संभवः शंभवदेवदेवो भवस्य नाशाय जिनेन्द्र ! भूयात् । भक्तोऽयमित्थं मयि देव ! पश्य, त्वद्वक्त्रचन्द्र कुमुदायितोऽहम् ॥७॥
Page #17
--------------------------------------------------------------------------
________________
नाम्नाभितो नन्दयसि प्रभो ! हेडभिनन्दनार्हन् ! बहुप्राणिवर्गम् । युष्मादृशां देव ! दयापराणां, कल्याणकूलाम हि मत्र एव ॥८॥ सेव्योऽसमुद्भिः सुमते ! मतीशः, त्वमीप्सुभिर्भक्तिमतिं वराशैः । भक्तिविवेकात् सुमतिं विधत्ते, विवेकदीपो मृदुचित्तगर्भे ॥९॥ सान्ध्यो रवी राजति रागवर्णः, पदमप्रभोर्देहविभानकारी। पद्मप्रभो ! राजति रागहीन-श्चित्रं प्रभूणां चरितं ह्यगम्यम् ॥१०॥ शयाग्रमादाय दयेश ! बालममुं नयेस्त्वं नयदीप्रदीपम्।। सुपार्थ ! याचे सुदयां दयेन !, दयेक्षणात् सूदय एव नित्यम् ॥११॥ चन्द्रप्रभाउहारि जिनेन्द्र ! चन्द्र-प्रभा त्वया शुक्लतरेण नित्यम् । शुक्लो न, नित्यो नहि चन्द्र एष, यतोऽधिकस्तेन परस्तु जेयः ॥१२॥ निधिं गुणानां सुविधे ! विधेहि, गुणेषु हीनोऽस्मि, जिनाधिकस्त्वम् । न साम्प्रतं स्वामिनि सद्गुणौघे, यत् सेवको निर्गुणितार्तिनिघ्नः ॥१३॥ त्वं शीतलेशः, कुरु शीतलेश्यं, मां पापदग्धं जिन ! पापवारिन् ! । दाहार्ति रेतीहन चन्दनेडगे, श्रितस्य कस्याऽपि विचेतनस्य ॥१४॥ श्रेयांस ! धर्मांशविकासिभासा, विभासितं चित्तमदोऽस्तु रम्यम् । मोहान्धकारेण परा परान्धं. तत पीडितं पीडित-पीडितं यत ॥१५॥ व्यलेखि रेखा गुणिशेखरेषु, त्वनाम निर्मयगुणं जपद्भिः । श्रीवासुपूज्येश तनोति नाम, त्वदीयमत्रैव शिवं जनानाम् ॥१६॥ श्यामायमानान् विमलीकरोषि, तत् त्वां जिनाऽर्हन् विमलं स्तवीमि । त्वमेव सत्यं विमलोऽसि देव !, यत् कर्ममालिन्यमलं पुनासि ॥१७॥ यथा यथा ते वचसां प्रथा मे चित्तेश ! चित्तेऽचलतां प्रयाति । तथा तथाऽनन्तजिन ! प्रमोदो, मनाति मौहं परमं प्रमादम् ॥१८॥ नवावतारोऽखिलपादपानां, नवैर्नवैः पल्लवजैः सुवर्णैः । यथा मधौ, ते जिन ! धर्म ! धनवावतारः श्रुतजैः सुवर्णैः ॥१९॥ शान्तीश ! मां देहि सदा हि शान्ति, यतोऽहमंहोभिरशान्त-तान्तः । त्वय्येव शान्तिन हरादिकेषु, यस्याऽस्ति यद्, तद् हि ततोऽस्ति लभ्यम् ॥२०॥ व्यर्थं व्यथा नाथ ! मयेत्यमापि, भीष्मे भवेऽत्र प्रथितेऽतिमोहे । विज्ञप्तमेतत् तु सुदारुणं रे... रे... नाथ ! कुन्थो ! तनु धर्मभाऽऽवम् ॥२१॥
Page #18
--------------------------------------------------------------------------
________________
हे नाथ ! मोहस्य चरौ दुराशौ, कामश्च कोपश्च निगूढतत्त्वौ । कदर्थयन्तौ सततं सुमूढं, मां रक्ष रक्षाऽर ! जितार: मौऽऽर ! ॥२२॥ मलीप्रभो ! मोहतमोन्धमुग्धं, विधेहि मां शुद्धतरं सुबुद्धम् । अन्धोऽसि मुग्धस्त्वमितीह नोह्यं, कारुण्यधाम्नां करुणा हि शश्चत् ॥२३॥ श्रीसुव्रतोऽस्यन्यमुनिव्रजे त्वं, न सुव्रतास्ते विरता न पापात् । ज्ञात्वेति नाऽन्यं परमं समीक्षे, सारेतरज्ञानवतां न मोहः ॥२४॥ नमेनमेः पादपयोजमोजः-पूरेण धौतं कलुषं कुकर्म । रे जीव ! तेनैव तवाऽस्तु कृत्यं, दिग्धं सुधाऽऽसारकूताऽर्हता यद् ॥२५॥ सौम्याऽऽर्य ! काम्याडर्चित ! कर्मजेत-नेतः प्रभूणां नरकान्तभाऽवम् । नेमे ! विभूतेर्वरभूत ! भृत्ये, त्वमाभवं मे भव नाथ ! नाथः ॥२६॥ काँऽन्तं विधत्से जगदेककान्त !, तत्त्वेन सत्त्वौघहितेन पार्श्व ! । कल्याणधामन् ! कुरु मां विभक्तिं, निष्कामदं प्रतपोभिरामम् ॥२७॥ वन्दारुवृन्दारकवृन्दवन्द्यं, वन्दे वरं वीरविभुं विभारम् । विश्वात्मवर्यं वरदं विभेन्द्र, विभाऽऽयविष्णुं विगतारसारम् ॥२८॥ कृपाऽमृतं ते जिनराजवून्द !, काङ्गलहं तत्पर एव भक्तौ । भक्तिं विधायाऽऽप्य परं सुपुण्यं, पुण्यं भवेद् विश्वमिदं तु विश्वम् ॥२९॥
१. सगौरवे हृदि अजने एकान्ते इत्यपि स्यादन्वयः ।
नन्दितुं शीलं अस्येति नन्दिः, सदा प्रसन्नः, इन्द्रः आत्मा यस्य सः - इन्द्रीन्द्रः, तेन सडेन अर्यः इति । वृषो धर्मः, तस्य मार्गः, तं दीपयति इति । पद्मप्रभनामा प्रभुः इति पद्मप्रभुः इति मध्यमपदलोपः समस्तः ।
नुक् स्तुतौ इति धातोः अल्प्रत्यये नवः, नवनं नवः-स्तुतिः प्रशंसा, तया युक्तोऽवतारः इति नवावतारः । ५. आ-समन्तात्-अवः, रक्षणं आवः, धर्मस्य भा भानं ज्ञानं प्रकाशो वा तेन आवः इति । ६. मा ज्ञानं, तया आरणं आरो गमनं, प्राप्तिर्वा यस्य सः माऽऽर: । तत्सम्बोधने माउडर !
अन्ये अन्यतीर्थिकाः मुनयः अन्यमुनयः, तेषां व्रजेषु इति । ८. कं दुःखं, तस्य अन्तः कान्तः, तं दुःखविनाशनम् ।
विशिष्टा भा ज्ञानस्वरूपःप्रकाशः, कैवल्यमेव, तस्मिन् आ रमते इति विभाऽऽर: । १०. विशिष्टा भा केवलज्ञानं विद्यते येषां ते- विभाः-सामान्यके वलिनः, तेषु इन्द्रः - तीर्थकरत्वात् ।
२०३, एकता एवेन्यू बेरेज रोड, वासणा, अमदावाद-७
Page #19
--------------------------------------------------------------------------
________________
ऋषभदेवस्तोत्रम्
डॉ. आचार्यरामकिशोरमिश्रः
(१)
वन्दे जिनं जगति जैनसमाजपूज्यम्, तीर्थङ्करं प्रथममत्र तपोऽग्रमूर्तिम्, यं जैनधर्मजनकं मनसा स्मरामि,
तस्मै नमो भगवते ऋषभाय देशे ॥१॥
(२)
ज्ञानप्रदोऽत्र जनताशुभचिन्तको यः, विप्रादिशूद्रजनतासमताप्रदः सः । भाषोपदेशकवरो जनताहिते यः,
सम्मानितं तमूषभं प्रणमामि देवम् ॥२॥
(३)
यः कर्मणाऽत्र मनसा च हृदा च वाचा जीवस्य पीडनविराम इहैवमैच्छत् । यः साधनासमयकष्टसहस्रभोगी,
तं ब्रह्मनिष्ठमूषभं शिरसा नमामि ॥३॥
(४) सांसारिकादिसुखसङ्ग्रहमुक्तिदाता, जीवात्मवान् स भगवानपरिग्रही यः । तं सत्यवादिनमहं हृदये स्मरामि,
श्रीजैनधर्मजनकम् ऋषभं नमामि ॥४॥
यः स्वीचकार जडचेतनमूलरूपम्, तस्मिनु कदापि न च यो विकूतिं चकार । जैनप्रवर्तकवराय मुनीश्वराय,
तस्मै नमो भगवते ऋषभाय देशे ॥६॥
Page #20
--------------------------------------------------------------------------
________________
अस्तेयमत्र पुनरन्तमनेकतायाः, एकत्वमेव जनजीवनसौख्यहेतोः, यश्चाऽब्रवीदिह सदाचरणं त्वकोपम्,
सम्मानितं तमृषभं प्रणमामि देवम् ॥७॥
(७) सत्यं त्वसङ्ग्रहमहिंसकतां च लोके, कल्याणहेतव इतीदमुपादिशद् यः । यस्याऽतिकष्टतपसो व्रतपारणा हि,
तं ब्रह्मनिष्ठमूषभं शिरसा नमामि ॥८॥
(८)
सम्पूर्णयौवनसुखानि विहाय योगी, चक्रे तपो वनगतोऽत्र विरागवान् सः । पीडा परस्य कथिता भुवि येन हिंसा,
स्वान्ते स्मरामि ऋषभं तमहिंसकं हि ॥॥
योगेन सत्यवचसा यमहिंसया च, ध्यानेन जीवदयया च तितिक्षया च, स्वात्मानमेव कूतवानिह यो हि तीर्थम्, तीर्थङ्करं प्रथममो ! ऋषभं भजामि ॥१०॥
(१०) आध्यात्मिकाय जनवर्णविभेदहाय, कल्याणदाय जनचिन्तनकर्मकाय, ध्यानाय योगनियमादिकपालकाय,
तस्मै नमो भगवते ऋषभाय बन्धो ! ॥११॥
२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१
Page #21
--------------------------------------------------------------------------
________________
श्रीगुरुवरवरणम् ॥
डॉ. वासुदेव वि. पाठकः 'वागर्थ'
उत्कर्षार्थं किं करणीयम् सिद्धिसाधने किं करणीयम् ।
आप्तुमीप्सितं किं करणीयम् श्रीगुरुवरवरणं वरणीयम् ॥
पुण्यचयार्थं किं करणीयम् पापविमुक्त्यै किं करणीयम् । स्वस्थं सत् किं करणीयम् श्रीगुरुवरवरणं वरणीयम् ॥
सुखशान्त्यर्थं किं करणीयम् दुःखं जन्तुं किं करणीयम् । मोदं प्राप्तुं किं करणीयम्
श्रीगुरुवरवरणं वरणीयम् ॥ मानं प्राप्तुं किं करणीयम् हानं हन्तुं किं करणीयम् । प्रीत्याप्त्यर्थं किं करणीयम् श्रीगुरुववरणं वरणीयम् ॥
दिव्यदयार्थं किं करणीयम् सत्त्वाप्त्यर्थं किं करणीयम् । प्राप्ते सत्त्वे किं करणीयम् श्रीगुरुववरणं वरणीयम् ॥
गुरोः कृपार्थं किं करणीयम् शिष्यत्वार्थं किं करणीयम् । सर्वयोग्यतार्थं स्मरणीयम् श्रीगुरुववरणं वरणीयम् ॥
३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५
फोन : ०७९-२६७४५७५४
Page #22
--------------------------------------------------------------------------
________________
इन्दिराष्टकम्
विद्वान् महाबलेश्वरशास्त्री
(पञ्चचामरच्छन्दः)
रत्नपूर्णस्वर्णपात्रहस्तपङ्कजान्विते ! । रक्तपङ्कजालये ! समस्तभक्तसंस्तुते ! ॥ देवराजमुख्यनाकलोकवासिवन्दिते !। पाहि पाहि पङ्जाक्षवल्लभे ! नमाम्यहम् ॥१॥
देहि मे समस्तरत्नपूर्णस्वर्णभाजनं । रक्ष्य मां त्वदीयपादपदमसेवकं सदा । इन्दिरे ! मदीयदेवमन्दिरे सदा वस । पाहि पाहि पङ्कजाक्षवल्लभे ! नमाम्यहम् ॥२॥
बालभास्करोपमानदिव्यवस्त्रभूषिते ! । विप्रवर्गपठ्यमानवेदमध्यगोचरे ! ॥ वन्दिताङ्घि ! पद्मभक्तकार्यसाधनोद्यते ! । पाहि पाहि पङ्कजाक्षवल्लभे ! नमाम्यहम् ॥३॥
१२
Page #23
--------------------------------------------------------------------------
________________
वासरे भूगौ प्रदोषकालपूजनप्रिये ! रक्तपद्मयुग्महस्तमध्यभागशोभिते ! पूर्णचन्द्रतेजसा विराजिताननान्विते ! पाहि पाहि पङ्कजाक्षवल्लभे ! नमाम्यहम् ॥४॥
यस्त्वदीयपूर्णदृष्टिपूतमानवस्सदा । स्वर्णरत्नकङ्कणादिभूषणान्वितो गृहे ॥ सम्पदन्विताग्रगण्यमध्यशोभितो भवेत् । पाहि पाहि पङ्कजाक्षवल्लभे ! नमाम्यहम् ॥५॥
यस्य मन्दिरं रमानिवासशोभितं सदा । पुण्यपूर्णमानवं वदन्ति तं नरं जनाः ॥ सर्वयोग्यताप्रदानमिन्दिरावशे स्थितम् । पाहि पाहि पडूजाक्षवल्लभे ! नमाम्यहम् ॥६॥
कैटभारिवक्ष्यमध्यभागशोभिते ! सदा । चन्द्रिकासमानमन्दहासशोभितानने ! ॥ रक्तपङ्जालये ! समस्तसौख्यदायिनि ! । पाहि पाहि पङ्कजाक्षवल्लभे ! नमाम्यहम् ॥७॥
इन्दिराकृपाकटाक्षपूतमानवोऽस्म्यहं । इन्दिरापदाब्जभक्तिरस्तु सर्वदा मम ॥ इन्दिरा ममाऽऽलये सदा निवासिनी भवेत् । पाहि पाहि पङ्कजाक्षवल्लभे ! नमाम्यहम् ॥८॥
भक्त्येन्दिराष्टकमिदं । प्रदोषे भृगुवासरे ॥ ये पठन्ति नरास्तेषां । सर्वसम्पत्प्रदेन्दिरा ॥८॥
(पञ्चचामरवृत्तलक्षणं तु - गुरुर्लगुनिरन्तरं भवेच्च पञ्चचामरम् ।)
तेजस् - नं १२४/सि, ५ क्रास् गिरिनगरम्, बेङ्गलूरु:, पिन-५६००८५
Page #24
--------------------------------------------------------------------------
________________
अनुभूतिशतकम्
डॉ. अभिराजराजेन्द्रमिश्रः
माधुर्यं कोमलत्वञ्च धत्ते पक्वं फलं यथा । नरस्तथैव वार्धक्ये जायते कोमलो मृदुः ॥१॥ मातुर्धातुः पितुर्मित्रात् लोकादपि सुगोपितम्। जानात्यात्मा स्वकं पापं सोऽथवा जगदीश्वरः ॥२॥ पापमाश्रित्य संवृद्धो न जातः कोऽपि पर्वतः । वरं वल्मीकभावोऽसौ ततः पुण्यसमाश्रयैः ॥३॥ येऽभिराजस्य हन्तारो ये वाऽकारणवैरिणः । हन्त तेऽपि हता द्विष्टा लक्ष्यन्ते स्वयमात्मना ॥४॥
१. रचनाकालः ८.८.०९ (१-२६)
१६.८.०९ (२६-५०) ३०.८.०९ (५१-७०) १.९.०९ (७१-१०१)
१४
Page #25
--------------------------------------------------------------------------
________________
कुचकन्दुकखेलाभिर्याभिस्तन्वि ! जितं जगत् । हन्त तावपि सञ्जातौ शाल्मलीतूलसन्निभौ ॥५॥ प्रार्थनाशतदुत्कर्ता निग्रहानुग्रहक्षमः । क्वाऽसि रूपाभिमानस्ते साम्प्रतं भो तिलोत्तमे ! ॥६॥ दिवसाश्च निशाश्चाऽपि व्यतियान्ति सदा समम् । लक्षकोटिधनेशानां द्रुमाधश्शायिनामपि ॥७॥ यत्नतोऽर्गलितं द्वारं शतद्वाःस्थसुरक्षितम् । समुद्घाटयति स्वैरं विपत्तिर्यमप्रेषिता ॥८॥ सोढं सोढं विपच्चक्रं वीतचिन्तोऽस्मि साम्प्रतम् । द्रक्ष्यामि ननु पर्यायं तटस्थीभूय दुर्हृदाम् ॥९॥ शीतमेव जलं नोष्णं वह्निरुष्णो न शीतलः । निसर्गेऽपि पदार्थानां धातुरेवाऽधिकारिता ॥ १० ॥ यथा त्यक्तं दुर्वचनं जायते हि निरर्थकम् । दुःखञ्चाऽप्यननुभूतं तथा वैयर्थ्यमाप्नुते ॥११॥ व्युप्तः कन्दलितः प्रोत्थस्तावके एव मानसे । का मे हानिर्जयेन्मित्र ! भवत्पापवटद्रुमः ॥१२॥ संघर्षो न वरेण्योऽस्ति नृणामथ वनौकसाम् । कीचकाः पश्य दह्यन्ते ग्रीष्मे संघर्षजाग्निभिः ॥१३॥ न वै कम्रधियं क्रोधो बाधते जातु मानवम् । जलदानां गृहे नाऽग्निर्धुक्षितोऽपि प्रवर्तते ॥१४॥ गर्दभाद् गर्दभो जात अश्वादश्वो हि जायते । सैरिभं हस्तिनी सूता श्रुतं केनेति भूतले ? ॥१५॥ आकाङ्क्षव विपन्मूलं समुच्छिन्नं नु तन्मया । मूले छिन्ने क्च तच्छारवा तत्प्रसूनञ्च तत्फलम् ॥ १६ ॥ सुखदं पुत्रजन्मेति माऽस्मिन् बन्धो ! रतिं कृथाः । कियत्सुखं ददौ कंसः पित्रे वेनोऽथ रावणः ? ॥१७॥ सद्बीजमूषरे चाऽपि स्फुटित्वा जायते द्रुमः 1 धेनुकुक्षावपि न्युप्तं बीजं गोकर्णतां गतम् ॥१८॥ तटं संक्षिप्य विस्तार्य छित्त्वा भित्त्वा पुरस्सरा । नदीव मनुजं पश्चात् कुर्वती वर्धते दशा ॥१९॥
१५
Page #26
--------------------------------------------------------------------------
________________
यो हि विस्मर्यते लोके स परमार्थतो मृतः । नित्यं जीवत्वसौ किन्तु यो हि लोके समर्च्यते ॥२०॥ जीवलपि मूतो नूनं लोकसन्तापको नरः । जेजीव्यते मृतोऽप्येष लोककल्याणसाधकः ॥२१॥ कुटुम्ब उत्पथः पापी निजोऽप्यत्ययमर्हति । यादवान् नाशयित्वेदं हरिलॊकमदर्शयत् ॥२२॥ न चरित्रं न वा निष्ठा नाऽपि शीलमपेक्ष्यते । संसत्ततो हि नेतृणां स्वर्गादपि गरीयसी ॥२३॥ पाण्डिती हिण्डते द्वारि-द्वारि शीलं विपद्यते । लक्ष्यते जयिनी सैका युगेऽस्मिन् कूकलासता ॥२४॥ किञ्चिन्नैव पराधीनं भक्ष्यं पेयञ्च मैथुनम् । सुखिनः कलविङ्कास्ते ग्रहेभ्योऽप्यनियविताः ॥२५॥ मांसार्थं न वधोऽभीष्ट: स्वरार्थं न च बन्धनम् । पितृपक्षे परा पूजा को नु काकान्महत्तर: ?? ॥२६॥ स्तम्भादुच्चो द्रुमादुच्चो मेघादुच्चोऽपि जायताम् । हिमादि निकषा हन्त लघुरेव नरो भवेत् ॥२७॥ छिद्रं पिधेहि कायस्य च्छिद्रं गौरवरेचकम् । आमुखाम्भःप्रपूर्णोऽपि कुम्भश्छिद्रेण रिच्यते ॥२८॥ भाति भुङ्क्ते भुनक्तीति बिभर्तीति बिभेति वा । भार्या केन भकारेण विरञ्चिर्वेत्ति केवलम ॥२९॥ पृथ्वी शय्या छदिाम भक्ष्यं शाको नदी जलम् । किन्नु नैयून्यमूर्धानां चरितुं चेद्धराङ्गणम् ॥३०॥ त एव सुखिनो लोके येषां तृष्णा न विद्यते । सतृष्णा नित्यमुद्विग्ना अतृष्णा नित्यनन्दिताः ॥३१॥ लोष्टवन्निरपेक्षस्य लक्षकोटिमितं धनम् । उष्णयेन्तु किमधिकं लम्बरा कम्बलावृतम् ॥३२॥ आत्मपादद्वये सत्यप्यारोहन्ति चतुष्पदान् । कीदृशास्ते नरा मूढा नाऽहं वेद्मि यथार्थतः ॥३३॥
Page #27
--------------------------------------------------------------------------
________________
कान्तभुक्ताऽपि शय्यायां कान्ताऽभिनयपारगा। केन भुक्तेति जानाति केवलं स्वैरिणी धिया ॥३४॥ यथा प्लावनमाधत्ते वर्षौ नु नदीजलम् । एनसामपि सम्भारं तथा जातु विलोक्यते ॥३५॥ तनिम्ना स्वादुपयसा शीते भाति सरिद्यथा । प्रकृत्याऽकिञ्चनतया मनस्वी पुरुषस्तथा ॥३६॥ वृक्षाणां धरणी वन्द्या धनानां सागरस्तथा । नदीनां पर्वतो वन्द्यो वन्द्या तृणाञ्च जन्मदा ॥३०॥ अगृहस्य गृहं माताऽप्यपितुर्जननी पिता । अबन्धोर्जननी बन्धुरनाथानाञ्च साऽखिलम् ॥३८॥ सम्बन्धिनोऽखिला लोके मत्कुणा रक्तशोषिणः । तस्माद् विधेहि सम्बन्धं केवलं हरिणा सह ॥३९॥ समृद्धं यो न गृीतेऽप्यसमृद्धं न मुञ्चति । अकारणप्रणयिनं समाश्रयत तं हरिम् ॥४०॥ क्षीरं सोदरजं प्रेम प्रसूगोनिस्सृतं मृदु । प्रियारागाम्लतामिश्रं विकृतं हन्त जायते ॥४१॥ स्वर्गो गृहेऽथ पनी चेन्मनोवृत्तानुसारिणी। प्रतीपपथगा सैव गेहे सृजति रौरवम् ॥४२॥ संरोपितोऽपि माकन्दो नित्यसङ्कटसङ्कुलः । निर्भयं वर्धते हन्त स्वयंजातस्स्नुहीतरुः ॥४३॥ अधीत्य वाङ्मयं नित्यं मया हृदर्पणीकृतम् । ततोऽत्र जगतां रूपमयनं प्रतिबिम्बितम् ॥४४॥ न तयुगं न कवयस्ते न तादृशपाठकाः । अहमेव कलावस्मिन् कालिदासोऽथ भारविः ॥४५॥ जगत्प्रकाशके सूर्ये गगने संस्फुरत्यपि । सान्ध्यनीराजना देव्या दीपकेनैव जायते ॥४६॥ कवयः कवयस्त्वेव धनिनो धनिनस्तथा । नामशेषा भवन्त्यन्ये यशश्शेषाः कवीश्वराः ॥४७॥
१७
Page #28
--------------------------------------------------------------------------
________________
ईश्वरस्य समुच्छेत्ता ग्रहाणामपि शातकः । सुखदुःखप्लवोन्मुक्तः कविरेव निरङ्कुशः ॥४८॥ अश्नामि भोजनं पक्वं स्वेनैव हृदयाग्निना । पिबाम्यश्रु सुखं सुप्तः स्मरामि जगदीश्वरम् ॥४९॥ यदि सृष्टिः प्रवृत्ता स्यात् ख्रिस्ताद् वाऽथ मुहम्मदात् । तदैव तेषां सिद्धान्ता मान्याः स्युर्जगतीतले ॥५०॥ किल्विषमाचरन्तं मां 'न मां कोऽपि विलोकते' । ध्यायन्नितीश्वरं पापी लघयत्यूर्ध्वदर्शनम् ॥५१॥ मानसे यदि नो शौचं तीर्थस्नानं शतं वृथा । आचरणं न चेत्पूतं व्यर्था धर्मक्रियास्तदा ॥५२॥ आत्मानमीश्वरं विद्धि स्वदेहं विद्धि मन्दिरम् । अनुष्ठानानि कर्माणि भव सद्धार्मिको भुवि ॥५३॥ प्रातर्गङ्गाजलस्नानं पापासक्तिर्दिवानिशम् । परापकारव्यसनं वाक्कीलं धिनाधमम् ॥५४॥ जानलपि नरं पापं नृशंसं यो हि रक्षति । निष्पापञ्च दुनोत्यद्धा कूटयुक्त्या धिगेव तम् ॥५५॥ मानं न मानिनां, शीलं पश्यति शीलवतामपि । क्रीडत्यहो भागधेयैः प्राड्विवाकाधमो नृणाम् ॥५६॥ पापवाक् पापकर्मा च प्रत्यहं पापमानसः । हेयोऽस्पृश्यश्च वाक्कीलो वीथिकाकुक्कुरादपि ॥५७॥ जायेत मे पुनर्जन्म योनौ कस्यामपि प्रभो ! स्वीकरोमि, परं नाथ ! प्राविवाकं न मां कृथाः ॥५८॥ तोषयितुं न वा शक्तः कुबेरस्यापि सम्पदा । लोलजिह्वस्तु वाक्कीलो जीर्णपर्यङ्कमत्कुणः ॥५९॥ आर्तानामश्रुभिः स्नातः साधुव्यसनहर्षितः । छलच्छद्मार्जितो योगैर्वाक्कीलो भुवि जीवति ॥६०॥ परेषामहितं नित्यं कर्तुं युक्तोऽसि सोत्सवम् । त्वत्कृतेऽपि तथैवाऽन्यः कथं नैतत्समीक्षसे ?? ॥६१॥
१८
Page #29
--------------------------------------------------------------------------
________________
दुर्बुद्धयैव हतो वाली रावणो दुर्धिया हतः । दुर्बुद्धयैव हतः कंसो कौरवा दुर्धिया हताः ॥६२॥ सुबुद्धिः सम्पदां मूलं दुर्बुद्धिर्मूलमापदाम् । विवेकश्मिना ग्राहया सयत्नं बुद्धिरश्विनी ॥६३॥ घटादिनेऽपि मेघानां भानुमाच्छादयेद्यथा। पूर्वजन्मार्जितं पापं तथा भाग्यं सतामपि ॥६४॥ क्षणमश्वान् सहन्ते नो हन्त वैशाखनन्दनाः । काका: काकेषु मोदन्ते कौशिकेष्वेव कौशिकाः ॥६५॥ समाद्रियते वाड्मात्रैधूर्ताऽभिनयपारगः । सत्पुरुषाः परं लोके प्रीणात्यर्थिनमर्थितैः ॥६६॥ रोपितो हि मया तालस्त्वयाऽऽम्रो रोपितोऽजिरे । दुस्सहेऽस्मिनिदाघेऽद्य त्वं सच्छायोऽहमातपे ॥६७॥ वेदज्ञोऽथ पुराणज्ञः स्मृतिज्ञोऽपि भवेन्नरः । भवितव्ये समायाते ज्ञाज्ञौ तुल्यावुभावपि ॥६८॥ शिशुर्मातरि जीवन्त्यां वृद्धोऽपि जायते नरः । युवाऽप्यकालवृद्धोऽसौ निरम्बो जायते पम् ॥६९॥ सन्तोषे सति सर्वत्र सुखमेवाऽनुभूयते । असन्तोषाग्निदग्धानां वाप्यामपि कुतः सुखम् ॥७०॥ निदाघानन्तरं भूयो निदाघो नैव जायते । जीवनेऽपि तथा दुःखं दुःखै वाऽनुगम्यते ॥७१॥ यथा तापहरी वृष्टिर्निदाघमनुवर्तते । पश्चात्तथा हि दुःखानां सुखं दु:खापहारकम् ॥७२॥ कुलायनिर्मितिज्ञानं खगेभ्यः केन शिक्षितम् ? निसर्ग एव सर्वेषां जीवानां सर्वशिक्षकः ॥७३॥ विदधाति बिलान्याखः सश्चि तेषु शेरते । श्रमोऽन्यस्य च भोक्ताऽन्यो विचित्रैव विधेर्गतिः ॥७४॥ अशिवं चिन्तयेन्नाऽल्पमाचरेद् वाऽप्यसुन्दरम् । ब्रूयात कुच्छ्रेऽपि नाडसत्यं लोकं तोषयितुं नरः ॥७५॥
१९
Page #30
--------------------------------------------------------------------------
________________
न मया पूजिता देवा न मया मन्दिरं श्रितम् । अटितं तीर्थजातं नो धृतं वृत्तं समञ्जसम् ॥७६॥ पित्रोर्येषां पर भक्तिः वृत्तपूतञ्च जीवनम् । तेषां मुष्टौ सदा मुक्तिर्नाऽन्यो धर्मोऽप्यपेक्षितः ॥७७॥ यशस्करी पापहवी धर्मार्थकामसाधिका । शिवेतरक्षतौ शक्ता सङ्कटघ्नी सरस्वती ॥७८॥ जिताः सपत्ना धैर्येण जिताः सर्वा विपत्तयः । धैर्येणैवाऽखिलं लब्धं तस्माद धैर्यं ममेश्वरः ॥७९॥ निर्वाप्यते यथा वहिनः प्रोज्ज्चलनपि वारिणा । तथैव शाम्यति क्रोधः सोढं सोढं स्वयम्भूतः ॥८०॥
कोकिलानां वरं मौनं मौकुलीनां हि काहले । विलीयते घनध्वाने मृदङ्गध्वनिमाधुरी ॥८१॥ सर्वं सोढं मया पापं जन्मजन्मान्तरार्जितम् । इतिकृत्वैव नो कश्चित् शत्रुरूपो मयेक्षितः ॥८२॥ आयुषि सत्यपि ध्वस्ताः प्रतीकारपरायणाः । सहिष्णवश्च जीवन्ति सुखं मानयशोधनाः ॥८३॥ यस्मिन् देशे वसेद् द्वेष्टा स हातव्यो नु तत्क्षणम् । अन्यत्र वसतिं कुर्यात् सुहृदस्ति पदे-पदे ॥४॥ नो निर्वहति या प्रीतिं सा कुलीनाऽपि पुंश्चली । तत्स्मृतौ न क्षणो देयो दुःस्वप्नमिव विस्मरेत् ॥५॥ पूच्छन्ति केचिदिह मां वेश्या-पल्योः किमन्तरम् ? निष्ठयैव भवेत्पत्नी वेश्या प्रीतावनिष्ठया ॥८६॥ सक्ता जारेषु चेद् भार्या वेशवाटस्तदा गृहम् । वेशाङ्गनाऽऽत्मनिष्ठा चेद् वेशोऽप्यात्मगृहं तदा ॥८७॥ जलदाम्बून्यनादाय निरङ्कुरो यथोषरः । तथा सुखान्यनागृह्य निराकाङ्क्षो भवेत्पुमान् ॥८८॥ भिन्नतैव जगद्योनिभिन्नता नो घृणास्पदम् । कारणं सन्ततीनां किं पतिपत्न्योर्न भिन्नता ?? ॥८९॥
२०
Page #31
--------------------------------------------------------------------------
________________
जातप्रसवने नारी नैकला, नैकलः पुमान् । यत्लैरपि क्षमौ, तस्मात् तयोर्वैभिन्न्यमादृतम् ॥१०॥ वनस्पतीनां वस्तूनां द्विपदाच्च चतुष्पदाम् । समेषामेव भिन्नत्वं सृष्टिदृष्ट्या समञ्जसम् ॥१॥ भिन्नत्वेऽप्यविभिन्नत्वं ये नेक्षन्ते गुणाश्रयम् । वस्तुतस्ते हि वैधेयाः लोकमङ्गलघातकाः ॥२॥ यादृशच यथा यद्वत् निर्ममे जगदीश्वरः । तादृशञ्च तथा तद्वत् ग्राह्यमेतन्मया त्वया ॥३॥ जलस्य किन्नु नैयून्यं वापीमेषां गृहाङ्गणे । दीनानुलुकपाः किन्तु तृषापूत्यै भ्रमन्त्यहो ॥१४॥ नतोलतत्वं सम्प्रेक्ष्य साम्प्रतिकं विवेकिनः । अनागतं समीक्षन्ते मूढाः पाषाणबुद्धयः ॥१५॥ अयशस्कारकात् पुत्रात् तनुजा कीर्तिवर्धिनी । श्रेष्ठा प्रेष्ठा महिष्ठा च लोकद्वयविवर्धिनी ॥६॥ आह्लादयन्त्विमा लोकानभिराजाऽनुभूतयः । आत्मसाद्विहिताः सत्या मृदुतिक्ता नतोलताः ॥१७॥ अभिराजीतनूजन्मा मध्यमश्शारदासुतः । काव्यनाट्यकथाग्रन्थशतकर्ता बुधानुगः ॥८॥ सङ्ग्रहं स्वानुभूतीनां पुरस्करोति सादरम् । यथाकालमुपादेयं दिव्यं निश्शुल्कदेशिकम् ॥७९॥ शतकं स्वानुभूतीनामिदं पीयूषपानकम् । सन्देहगरलं नृणां हृदिस्थं सत्वरं हरेत् ॥१०॥ मासे भाद्रपदे शुक्ले वामनद्वादशीतिथौ । शत्रुशत्रुखयुग्मेऽब्दे भौमे काव्यं प्रपूरितम् ॥१०१॥
॥ इति श्रीमदभिराजराजेन्द्रविरचितम् अनुभूतिशतकसमाप्तम् ॥
Sunrise Villa Nr. Senior Secondary School, ___Lower Summer Hill, SHIMLA - 171005
२१
Page #32
--------------------------------------------------------------------------
________________
अन्योक्तयः
डॉ. अभिराजराजेन्द्र मिश्रः
बलाहकः
कालागुरुः
विलोचनम्
अमन्दजलवर्षणैर्गिरिनिदाघतापं हरन् विपत्रितलतावलीरुजमुशीरलैपैथुवन् । विपन्नकृषिसम्पदं द्विगुणयन्नमृतपानकैर्घनागमबलाहकोऽस्म्यहमुदारदानव्रतः ॥१॥ दग्धं शरीरमखिलं तिलशस्तवोत्थो धूमोच्चयो निबिडगन्धभरावनम्रः । कालागुरोः क्षतिमुपेत्य महोपकारिन् ! भस्मावशेषमपि ते महितं नमामः ॥२॥ त्वद्धूविकुञ्चनलवोद्गतसविलासैजेंगीयते विषमसायकनाट्यनान्दी । भ्रातर्विलोचन ! तनूत्तम ! रागमूल ! त्वां भावयेऽनिशमहं स्मरबन्धुरत्नम् ॥३॥ प्रानिर्दयं क्रकचदन्तचयैर्निकृत्तं पश्चात्कृतं विपणिविक्रयणाय खण्डम् । घृष्टं ललाटतिलकार्थमथोऽश्मपट्टे पाटीर ! किन्नघटितं त्वयि हा ! नृशंसम् ॥४॥ अर्धांशेन पयोभूता हि कलशाः स्वैरं नदन्ति ध्रुवं शून्यं शब्दगुणं यतस्तदुदरे प्राज्यं भवत्येव तत् । धन्याः पूर्णघटाः कथञ्चिदपि ये नाऽल्पं नदन्त्यध्वनि ब्रहाज्ञानसुखोन्मदा इव महासत्त्वा विमुक्त्यर्थिनः ॥५॥ शुण्डोत्थापितभारवत्तमतरुस्कन्धं दृढं दन्तयोलग्नं हस्तिपकाकुशाग्रविलिखभालो वहस्याकुलः । प्रत्यङ्गं क्षतमाबिभर्षि नितरां गाल्या च सम्बोध्यसे भ्रातस्सिन्धुर ! किं भवान्न सहते क्षुद्रानराद् दुष्कृतम् ॥६॥
पाटीरः
पूर्णघटः
सिन्धुरः
२२
Page #33
--------------------------------------------------------------------------
________________
क्षाराब्धिः
छविल्ललडहः
धिक् क्षारतोयधिमुदीर्णतॄषामपेयं धिक् चाऽऽपगां मधुजलां वसतेर्दविष्ठाम् । वन्देऽग्रहारजलपानगृहीतदीक्षा वापीमुदारपरिधिं सजलां शरण्याम् ॥७॥ ज्येष्ठः स्वप्रतिभाबलेन समभून्नासास्थवैज्ञानिको व्यापारैर्ननु मध्यमोऽर्बुदपतिः कन्या कुबेरस्नुषा । योऽसौ निष्प्रतिमश्छविललडहो मत्कीर्तिचन्द्रग्रहो मत्रीभूय स एव मां परिजनं दिष्ट्याऽद्य संसेवते ॥८॥ नीलाम्बरादमृतचन्द्रमरीचिवृष्टिः प्राचीसमीरणझरी परितोऽपि वाति । कासारशीतलजलं घनमङ्घिमूले भ्रातस्सरोरुह ! तथाऽपि न ते विकाशः ॥९॥ भुवाउन्नान्युदरम्भरि प्रतिपलं नीरं पिब स्वेच्छया कक्षेषु क्वचिदप्यवस्करचये गाढं स्वपिहयादिनम् । किञ्चाऽपानपुरीषमूत्रनिवहं सर्वं सहे तेऽनिशं मा छित्त्वा वसनानि मूषिक ! सख्खे ! कार्तघ्जयमुद्घोषय ॥१०॥
सरोरुहम्
मूषिकः
अरण्यम निपतितजरत्पत्राः शाखा लताश्च विपल्लवा
श्शुलुकसलिला वापी कुओऽप्यपुष्पतलिच्छकः । निहतसुषमारण्य ! भ्रातर्न दैन्यमुपाश्रय
नभसि परितो मेघाश्चारी चिराय वितन्वते ॥११॥ शिवफलम् (सेव) सन्त्वेव हन्त धनिनां सहकारवाट्यः
संरोपिताः परिजनैः शतलक्षवृक्षाः । द्वारि स्थितश्शिवफलद्रुम एकलोऽयं
धन्यः कुटुम्बभूदनन्तफलानतो मे ॥१२॥ लवणम् एलाहिङ्गलवङ्गपिप्पलहरिद्राजीरकाद्यैर्भूशं
पक्वालं कियदेव सौम्यविधिना संस्कृत्य क्लृप्तं भवेत् । येनैकेन परन्तु हीनमखिलं व्यर्थं हि सञ्जायते जीयातल्लवणं महानसलसन्नारीमहानायकम् ॥१३॥
२३
Page #34
--------------------------------------------------------------------------
________________
गलज्जलिका
दैवज्ञं कं पृच्छेयम् ?
डॉ. अभिराजराजेन्द्रमिश्रः
आयुरहो मे कियदवशिष्टं दैवज्ञं कं पृच्छेयम् ? सम्प्रत्यपि किं किं करणीयं दैवज्ञं कं पृच्छेयम् ?? ॥१॥
मयि जीवति गाङ्गेयसदृक्षे, सुयोधनादीनां नाशः भविता वा, न वा समरभूमौ दैवज्ञं कं पृच्छेयम् ? ॥२॥
अधिरथसूनोरिव ममाऽपि सूर्यात्मजता, मरणात्पूर्वम् पृथया प्रकाशयिष्येत नो वा, दैवज्ञं कं पृच्छेयम् ? ॥३॥
प्रतिशाखं सुस्थिरा उलूका अस्मिन्मञ्जुलकेलिवने समुत्सारयिष्यन्ते नो वा, कं दैवज्ञं ? पृच्छेयम् ? ॥४॥
पामरवसतेः सुखोन्मूलिनी दृष्टिर्द्रविणपिशाचानाम्' क्वचिदन्यत्र स्थास्यति नो वा, कं दैवज्ञं पृच्छेयम् ? ॥५॥
हृदयोदधिमन्थनसमुत्थितं प्राणदाहि मे गरलमिदम् धूर्जटिना पीयते वा न वा, कं दैवज्ञं पृच्छेयम् ? ॥६॥
जनितस्वापा क्लृप्तसाध्वसाऽपहृतमिथः परिचयसूत्रा विपत्तमिस्रा क्षीयते न वा, दैवज्ञं कं पृच्छेयम् ? ॥७॥
कामं श्वेताम्बरः संसदि, व्यवहारे नग्नो नेता प्राप्स्यति मुक्तिं मृतो वा न वा, दैवज्ञं कं पृच्छेयम् ॥८॥
राष्ट्रमिदं प्रच्छन्नसपलैर्बान्धव्याभिनयोत्तीर्णैः
मुक्तं हन्त भवेद् वा न वा, कं दैवज्ञं पृच्छेयम् ? ॥९॥
१. Builders.
२४
Page #35
--------------------------------------------------------------------------
________________
अलङ्कारलक्ष्यपद्यानि
१.
२.
३.
मैत्रः शौर्येण वज्रीव बालो बुद्धौ प्रधीरिव । शिशुश्चन्द्र इव श्वेतः सीता श्रीरिव सुन्दरी ॥ स्मितं कुसुमवद् रम्यं हिता वाणी सुधा यथा । नवनीतमिव स्वान्तं मृदुलं तव सन्मते ! ॥
धर्मलुप्ता
४. अङ्गारसदृशे नेत्रे गर्जनं स्फूर्जथूपमम् ।
५.
(१) उपमालङ्कारलक्ष्याणि
ताराकान्तिश्चारुमुक्तावलीव ग्लौबिम्ब श्रीः सुन्दरास्यप्रभेव । व्योमच्छाया रम्यकेशच्छटेव स्वान्तप्रान्ते यामिनी कामिनीव ॥
(धर्मलुप्ता)
७.
किन्तु ते धीरधुर्यस्य हृदयं सुमसम्मितम् ॥ (धीरधुर्यस्येति पदस्य विपरीतलक्षणया भीरोरित्यर्थः 1)
तपनसन्निभ ! ते रिपुसन्ततिः नृपवरापगया सदृशी सती । तव दृशः पतनेन किल क्षणान्मरुधरासमतामयते न किम् ? ॥
(धर्मलुप्ता)
६.
(श्रौती धर्मलुप्ता वाक्ये)
मानवं गिरिसङ्काशचित्ताभोगमधिक्षिपन् । सौदामनीसममतिर्लटको लाति सम्मदम् ॥
[लटको दुष्ट: । लाति
=
आददाति । ला आदाने]
एस्. जगन्नाथः, मैसूरु ।
तथा वादनमङ्गुल्या नर्तक्या नर्तनं यथा ।
तथा च वल्लकी मित्र ! रङ्गसर्वंसहा यथा ॥
['मित्र' इत्यत्र ‘भाति' इति पाठकल्पने भानस्य साधारणधर्मता, तेन च श्लोकोऽयम-नुदाहरणत्वं
भजते ॥]
२५
Page #36
--------------------------------------------------------------------------
________________
(श्रौती धर्मलुप्ता समासे) ८. प्रजाभिः सहिते राज्ये नेत्रैदृष्टोऽम्बुजैरिव ।
ताराभिरन्विते व्योम्नि राजा राजेव हे सखे ! ॥ ["इवेन समासो विभक्त्यलोपश्च" इति वैयाकरणसमयः । तस्मात् 'अम्बुजैरिव', 'राजेव' इत्युभयत्रापि समासो न केवलं सन्धिः । अन्यच्च- 'हे सखे' इत्यत्र ‘राजते' इति पाठकल्पने
तु राजनस्य साधारणधर्मत्वात् पूर्ववदनुदाहरणत्वं प्रसज्येत ] (आर्थी धर्मलुप्ता-वाक्ये) ९. सुधया सम्मिता वाणी शिलया सदृशी मतिः ।
नटाभिनीत्या दुष्टस्य तुल्या वचनवैखरी ॥ (आर्थी धर्मलुप्ता-समासे) १०. कोकिलालापसंवादी नादः संगीतके श्रुतः ।
सुधाधारासजातीया जाता चाऽऽमोदसन्ततिः ॥ (आर्थी धर्मलुप्ता-तद्धिते) ११. सदृढधियां फलकल्पं लषितं नृणां भवत्यसंकसकम ।
चञ्चल ! जहति न संकल्पास्ते संकल्पकल्पतां जातु ॥ [अ-संकुसुकम-स्थिरम् । 'संकुसुकोऽस्थिरे' इत्यमरः ।।
वाचकलुप्ता१२. शीतांशुगौरेण कपोतकेन छत्राभिरामे विटपिन्यदीर्थे ।
अगायि गीतं बहुधा रवेण नीरेऽश्मपात-ध्वनिमञ्जुलेन ॥ (कर्तृक्यङि वाचकलुप्ता) १३. सति वस्तुकृते धनव्यये हृदयं धन्वगताम्बुजायते ।
कृपण ! द्रविणगमे तु ते रविबिम्बेक्षकनीरजायते ॥
[धन्व = मरुस्थलम् । (कर्तृक्यङि वाचकलुप्ता) १४. शब्दैः पुरं सृति-ग-वाहन-वृन्दजातैः
श्वभ्रायते नमनो गरलायमानैः । ग्रामः पुनर्जनपदादृतमञ्जुगीतैः स्वर्गायते मनुजचित्तसुधायमानैः ॥
२६
Page #37
--------------------------------------------------------------------------
________________
वाचकलुप्ता समासगा१५. आकाशे सलिलाशयनीले शीतांशुखण्डरुचिराणाम् ।
कहानामावलिरुपजनयति मुदमननुभूतपूर्वां मे ॥
(कहानाम् = बकानाम् । (वाचकलुप्ता समासगा)
दाडिमरोहितमुज्झन् निशि राकायां शनैर्निजं रूपम् । सुविदलितकूर्चके सरशुभं बिम्बं दधाति शीतांशुः ॥
[कूर्चके सरो नारिकेलः । 'लाङ्गली' इत्यपरं नामाऽस्ति नारिकेलस्य । एतेन, शुद्धसंस्कृतेऽभिधानद्वयवतोऽस्य वृक्षस्य केवलं द्राविडमूलक संज्ञावत्त्वं प्रतिपादयन्तः परास्ताः। किमुत "संस्कृतभाषिणां जनानां पूर्वं नारिकेल-वृक्षस्य परिचय एव नाऽऽसीत्, द्राविडानां संपर्कानन्तरमेव तेषां संजातं नारिकेलवृक्षदर्शनभाग्यम्" इति वादिनः ?]
वाचकलुप्ता कर्मक्यचि
१७. मारालपर्णमृदुला निशि भूप ! शय्या
प्रातश्च मागधकूता स्तुतिगीतयस्ताः । सर्वं स्मर त्वमुपलं बत साम्प्रतं यो मञ्चीयसि श्रुतिकट्रन विरवांश्च शृण्वन ॥ (युधिष्ठिरं प्रति द्रौपद्या वाक्यमिदम् ।)
१८. कल्पद्रुमीयति जनः स जनेश ! वीक्षा
दुग्धाब्धिबिन्दुसहजा यदुपर्यहो ते । शाखोटकीयति निपातयसि स्वदृष्टिं हालाहलाणुभगिनीमथ चेत् स एव ॥
१९. विस्मितो विश्वरूपस्य दर्शनाद् विजयोऽवदत् ।
विष्फुलिङ्गायते सूर्यः पुरस्ते पुरुषोत्तम! ॥ (वाचकलुप्ता कर्मक्यचि) २०. अरसिक ! सरसां नूतनकवितां गरसंहतीयसि जडात्मन ! ।
प्राचीनकृतिरटनममृतीयसि नीचीयसि ज़मपि नव्यम् ॥
२७
Page #38
--------------------------------------------------------------------------
________________
(श्रीब्रहातवपरकालस्वामिभिर्वाचकलुप्ताऽधिकरणक्यच्यप्युदाहारि । तत्पक्षे२१. पथीयति द्रुशाखासु पादपेषु गृहीयति ।
कपिर्विटपविस्तारे किञ्च क्रीडास्थलीयति ॥
-एवमुदाहरणे कूते सौन्दर्याभावादलारत्वं न सिद्ध्यति । तस्मादेवं लक्ष्यं स्रष्टव्यम् :२२. कोणे वाणी साधु ! कण्टीयतीयं
वीणादण्डे मातूकीयत्यमोघे । उत्फुल्लास्या कच्छपीवादने च प्रीत्या बाढं लेखनीयत्यमन्दम् ॥ [कोणे = वादनाहे कृतकनख्खे । 'कोणो वीणादिवादनम्' इति कोशः स्मर्यताम् । कण्टीयति =
कण्ट इव, तालपत्रेषु लेखनार्थमुपयुज्यमाना सामग्रीव आचरति] (उपमानलुप्ता वाक्ये) २३. विचितं निखिलं वनं मनोनिशितैः केतकि ! निश्चितं च तैः ।
अपरैस्तव हि क्षुपैस्तुलालवमासादयितुं न शक्यते ॥
(उपमानलुप्ता समासे)
२४. मद्रुसदृशं कमपि न वीक्षे वरवचनदेशनादक्षम् ।
पुरि वा गिरिशिखरे वा मधुरस्मितसुन्दराननं भव्यम् ॥ (उपमानलुप्ता) २५. अनेकशास्त्रोदिततत्त्वमण्डिताः परीक्षिताः सर्वसभासु पण्डिताः । । परन्तु कुत्राऽपि गुरो ! भवत्समो गतो मदीक्षाध्वनि नाऽध्वनीनताम् ॥
[अत्र केवलम् ‘एतावन्तं कालं न मदीक्षाध्वनि न गत' इत्युक्तम् । न तु पुनः ‘कदापि न
द्रक्ष्यत' इति । तस्मादसमालारत्वं नाऽस्य सम्भवति । धर्मोपमानलुप्ता समासे२६. अदभ्रवाद्यश्रवणादनन्तरं मया कृतोऽयं सुषिरेषु निर्णयः ।
न वेणुवाद्यप्रतिपक्षरक्षकं श्रुतं परातोद्यमहोऽधुनावधि ॥ (सर्वथा वेणुवाद्यसदृशवाद्यनिषेधो नाऽस्त्यत्र । तस्मात् “अधुनावधि न श्रुतम्" इति प्रायोजि । सर्वथा तादृशे निषेधे त्वसमालारो भवति ।)
२८
Page #39
--------------------------------------------------------------------------
________________
(उपमेयवाचकलुप्ता) २७. रम्यधीषु नृषु कण्टकीयसि ग्राम्यबुद्धिषु पुनः सुमीयसि ।
याचकेषु च महाभिनीतियुक् सूचक ! द्विरसनीयसि ध्रुवम् ॥ वाक्यार्थोपमा२८. व्योमोड्डयनगम्भीरां पश्य कादम्बिनीं सख्खे ।
सरोमञ्जनसोल्लासां रमणीयां घटामिव ॥ २९. मत्स्यनाशनि ! मत्स्यस्य ग्रहार्थं क्षुधिता सती ।
सौदामनीव पतिता त्वमहोऽतिद्रुताऽर्णवे ॥
(मत्स्यनाशनि! = Kingfisher) ३०. जन्तून् हतविधे! मीनान् धीवरो बडिशैरिव ।
घोरव्यसनसङ्घातैस्तुदितुस्तव का व्यथा ? ॥ (धर्मवाचकलुप्ता) ३१. धीमन् ! ग्रन्थव्रातपूतस्य विद्याकोशन्ती ते माऽस्तु बुद्धिः कदाचित् ।
दुःखोद्वेगे प्रस्तरन्ती परेषां तूलन्ती वा स्वीयदुःखप्रसङ्गे ॥ (धर्मवाचकलुप्ता) ३२. कूर्मति य एव मत्पुत्रः शालेति श्रुतिं समाकर्ण्य ।
काननहरिणति खेलेति शब्दपतनात् स एव सोल्लासम् ॥ (धर्मवाचकोपमानलुप्ता) ३३. गिरिराजधैर्य ! सुरराजवीर्य ! किं
जलदातृदाढऱ्या-जन-दुष्टपद्धतिम् । भवता निषेव्य बहुशुग् विरच्यते नयनाम्बु भूषणगणे च मुच्यते ॥
[कपिभिर्दर्शितेषु सीताया भूषणेषु शोचन्तं श्रीरामं प्रति लक्ष्मणस्योक्तिरियम् ॥ (पूर्णा) ३४. उपविष्टबम्भरेयं सुमनोमण्डलदलावली भाति ।
निष्टप्तनीलमणिरिव भूषा वर्तुलविभागपक्तिमती ॥ [बम्भर:-षट्पदः ।
Page #40
--------------------------------------------------------------------------
________________
(आर्थी पूर्णा समासे) ३५. शलाकासमशाखावाँश्छत्राभोगनिभस्तरुः ।
छायादानात् प्रमोदाय धर्मस्विनस्य देहिनः ॥ (आर्थी तद्धिते पूर्णा) ३६. पाणौ क्रीडालोरर्भकस्य कन्दुक ! विभासि विशदतया ।
शीतांशुमण्डलवदपि च धवलपद्मवदतीवरम्यतमः ॥
(श्रौती वाक्ये पूर्णा) ३७. अन्तर्विकासमाप्नोमि प्रमोदात् सुहृदो हृदः ।
जले फुल्लति शीतांशोरुदयादुत्पलं यथा ॥ ३८. अटव्यां क्षुधितो हन्ति केसरी हरिणं यथा ।
___ आजौ क्षुब्धो निहन्म्येष भीमो दुःशासनं तथा ॥ (ध्वनिः) ३९. ददृशे डयमानोचं बलाकापक्तिरम्बरे ।
मयैक्षि चाऽयमानाऽधो लहर्यावलिरम्बुधौ ॥
[च+अयमाना = गच्छन्ती । अय गतौ] (उपचरिते) ४०. आचार्य ! नीतिभारत्या भव्यया भवदीयया ।
दीप्यतां मन्मनोवृत्तिर्दीपकान्त्येव निर्मला ॥
[दीपनं दीपस्य धर्मः । स भारत्यामुपचरितः ।। (श्लिष्टे) ४१. समसितदलालिजरवं पुष्करगं सौरभान्तरायकरम् ।
जलजमिव जलदबिम्बं जनयतु जनतां महाप्रमोदभराम् ॥ [जलजपक्षेः सम+सित+दल+अलिज+रवम् = समानि सितानि च दलानि तेषु वर्तमानेभ्यः षट्पदेभ्यो जातो वो यस्मिन् तत् । सौरभ+अन्तर+आय+करम् = परिमलस्य अन्तरागमनकरम् । परिमलपूर्णमिति यावत् । पुष्करगम्-जलस्थितम् । जलदबिम्बपक्षेः सम्+असित+दल+आलिज+रवम् = अतीव कृष्णा या दलानां भागानाम् आलयः श्रेणयस्ताभ्यो जातो रवः स्फूर्जथुरिति यावत् यस्मिन् तत् । सौर+भा+ अन्तराय+करम् = सौरीणां
३०
Page #41
--------------------------------------------------------------------------
________________
भानां सूर्यकिरणानाम् अन्तरायो विघ्नस्तत्सम्पादकम् । पुष्कर-गम् = आकाशे स्थितम् । 'व्योम पुष्करमम्बरम्' इति कोशात् ।।
प्रत्युदाहरणम्४२. अनीरस्य तटाकस्य लूनपक्षस्य पक्षिणः ।
हीनार्थस्य च मर्त्यस्य वैसादृश्यं न विद्यते ॥ (सादृश्याभावाभावो न सादृश्यम् । घटाभावाभावो घट इतिवदादेस्तर्कस्याऽव नाऽवसरः । 'एतादृशानि वाक्यानि लोके प्रयुज्यन्त' इति चेत् कामं प्रयुज्यन्ताम् । अलङ्कारत्वं त्वेतेषां
नास्तीत्येतावदस्माकमाकूतम् ।। कल्पितोपमायामपि अलङ्कारत्वं नास्ति । यथा४३. आम्राण्डोऽवटतीरे मुखतो नत ईषदुत्थितः पृष्ठे ।
तृषितश्चातक इव भाति पिबलातृप्ति वारि नादेयम् ॥
(नादेयम् - नदीसंभवम् । चातकः केवलं मेघाम्बु पिबतीति प्रसिद्धम् ।) ४४. साधूनामनिवार्यैव सूचकैः सह संगतिः ।
महाविटपिनां मैत्री किरणैस्तारणैरिव ॥ [तारणैः-तरणिः सूर्यस्तत्संबन्धिभिः सौरैः किरणैः । कविरत्र भावावेशवशमापन्नोऽबद्धं कवयति,
यत् सौरकिरणैः सह सम्पर्कस्य पवित्रत्वेऽपि तं दुष्टैः सह सङ्गमेनोपमिनोति ] ४५. वधे श्रुते शक्रजितो मूधेऽञ्जसा दशानने पीतगरोपमे सति ।
तदक्षिपङ्क्तिः सहसा स्फुलिङ्गमुग व्यजायताऽङ्गारपरम्परोपमा ॥
[मृधे = युद्धे । पीतगरो जनो म्रियते । मृतस्य तस्य चक्षुर्त्यां स्फुलिङ्गनिःसारणं कथम् ?] ४६. कण्डारगर्वखण्डनकूतिपरिपाटीप्रचण्डपाण्डित्यम् ।
मुखपिण्डं ते मम हृदि माणवकोद्दण्ड ! मण्डितं गाढम् ॥ [कण्डारं = कमलम् । माणवकः = शिशुः । अत्र प्रवर्तमाना वर्णा वीररसस्याउनुकूला न पुनर्वात्सल्यस्य । मुखपिण्डमित्यत्र पिण्डशब्दोऽप्यस्थाने । वस्तुतस्त्वयं शब्दश्छन्दोनिर्वाहाय योजितः ।
२. उपमेयोपमालङ्कारलक्ष्याणि (द्वयोरपि प्रकूतत्वे) १. द्यौरिव नीला सरसी सरसीव द्यौर्विलसति नीलेयम् ।
ग्लौरिव विशदो हंसो हंस इव ग्लौश्चकास्ति विशदोऽयम् ॥
३१
Page #42
--------------------------------------------------------------------------
________________
(प्रकृताप्रकृतयोः ।। २. घन इवैष गजो घनमेचको
गज इवाऽपि घनो निबिडासितः । तडिदिवेयमहो दशनाती रदनकान्तिसमा चपलाऽसति ॥ (असति = शोभते । अस शोभायाम् ।)
(एष इयमितिशब्दाभ्यां प्रकृतत्वं, वस्तुप्रतिवस्तुभावश्च ।) (बिम्बप्रतिबिम्बभावे) ३. तटाकान्तरगाम्भोजं शरावपुटरत्नवत् ।
शरावपुटरत्नं च तटाकान्तरगाब्जवत् ॥ (उपचरिते) ४. दुग्धाम्बुधौ विलीनेव सुधा रामायणे मम । ___मनोवृत्तिर्मनोवृत्तिरिव रामायणे सुधा ॥ (श्लेषे) ५. व्योमेव मध्यभुवनं मध्यभवनमिव मनोरमं व्योम ।
सोज्ज्वलपेरु विराजद्वसुधाभोगमहिमाढ्यमतिभव्यम् ॥ [पेरुः - समुद्रश्च सूर्यश्च । वसुधा भूमिः तस्या आभोगो विस्तार इति मध्यभुवनपक्षे । वसु जलं
तद् धत्त इति वसुधः, मेघः, तस्याऽऽभोगो विस्तार इति व्योमपक्षे ] (व्यङ्ग्यधर्मयुक्तत्वे) ६. सुमनःपटलीव काञ्चनाभरणाली द्रुमसम्मिते करे ।
कनकाभरणावलीसमा कुसुमाल्यां करसोदरे द्रुमे ॥ (आर्थवाक्यभेदः) ७. अङ्गुलीषु परिष्कार: शाखासु स्तबकोऽनयोः ।
परस्परोपमासम्पद् भाति भावुकमोदकः ॥ (परस्परोपमा) ८. तव मुग्धशिशो ! शयद्वयं भूशमस्मिन् भुवने बृहत्यपि ।
अविलब्धतृतीयसोदरं लभते सोदरतां परस्परम् ॥ ९. गवि गोष्ठगते ग्लावि ग्रुगते हंसे सरोवरगते च ।
उपमेयता किमुपमानताऽपि न परस्परेण वर्तेते ? ॥
३२
Page #43
--------------------------------------------------------------------------
________________
३. अनन्वयालङ्कारलक्ष्याणि भवन्तु भुवि कोटिशः कृतय उत्तमाः सत्तमैः कृताः पमतिस्फुटे महति देशने दार्शने । समस्तजनतागतामितगुणातिदोषेषु च क्षितौ जयति भारतोपमममोघवाग भारतम् ॥ सौरभेण मृदुतागुणेन सत्कान्तियुक्तदलमण्डलेन च । पुण्डरीकमिव पुण्डरीकमुत्
कृष्टमस्त्यलिसमूहतर्पणम् ॥ ३. केनापि नैवाऽस्त्युपमा तवेति
ब्रुवन्तु लोका अनिषेध्यवाचः । परन्तु जानामि सुपात्रदाने हिते स्मिते च त्वमिव त्वमेवम् ॥ पातमेतु भवतः कृपा वरा दानशौण्ड ! भवतः कृपा यथा । मय्युदार ! विपुला मयीव सत्पूजनीय ! महनीय ! दुर्गते ॥ (पूर्वार्ध श्रौतः पूर्णो वाक्यगोऽनन्वयः । उत्तरार्ध समासः श्रौत इवेन सह समासस्य वार्तिकेन
सिद्धत्वात् । वरत्वविपुलत्चे साधारणौ धर्मावत्र ।) समासगः आर्थः पूर्ण:५. डीने पक्षी पक्षितुल्योऽन्तरिक्षे
गत्यां तिर्यक् तिर्यगाभः स्थलेऽपि । किन्तु प्राज्ञा ! ब्रूत सत्यं हृदिस्थं धर्मे किं ना नृप्रकारो जगत्याम् ? ॥ (यया रीत्या पक्षितिर्यग्भ्यां भाव्यं तयैव रीत्या तयोः सत्ता । परन्तु मनुष्येण यया रीत्या भाव्यं तया रीत्या तस्याऽस्तित्वं नास्तीति भावः ।) न सुष्ठु दृश्योऽम्बुवत् किमम्बुदो दृशः प्रसारेऽम्बरवत् कृतेऽम्बरे । बकायते यत्र बकः कदापि यो महाशुचिर्न स्फुटमक्षिगोचरः ।। (प्रथमे पादे तेन तुल्यं क्रिया चेद् वतिरित्यनेन वतिः । तस्मादार्थस्तद्धितगः पूर्णः । द्वितीये
६.
Page #44
--------------------------------------------------------------------------
________________
(कर्मकर्तृणमुलोर्वाचकलुप्तः)
७.
दृष्ट्वा व्याघ्रं व्याघ्रदर्शं विराजद्
वर्णाढ्यां तद्देहभूतिं निशाम्य ।
कश्चित् साधुः साधुवादं ह्यवादीद् “धन्या दृड्मे दर्शनादस्य जाता" । धर्मवाचकयोर्लोपः
पादे तत्र तस्येव इति वतेः सत्त्वाच्छ्रौतस्तद्धितगः पूर्णः । तृतीयपादे तु वाचकलुप्तो यः
क्यसमासनिबन्धनः ।)
८.
अम्बुजान्यम्बुजन्त्यस्मिन् भ्रमरा भ्रमरन्ति च । मरालाश्च मरालन्ति तटाके विमलाम्बुनि । वाचकधर्मोपमानलोपे
राजन्यशौर्ये राजन्यैः संपूर्णं हृदयानि वः । महाभारतगाम्भीर्यं महाभारतमुम्भतु ।
९.
मिश्रणे
१०. पाणिनिसूत्रायन्ते पाणिनिसूत्राणि भाष्यवद् भाष्यम् । उभयं बोधयता गुरुणा मे सदृशः स एव गुरुरस्ति ॥ श्लेषानुप्राणितः
११. धन्यो धन्योपमः कोऽपि परोद्धारो विराजते ।
किमपूर्वगुणानां न नृणां मध्ये नृणामिव ॥
[परोद्धारः - परेषाम् उत्कृष्टानाम् उत्+धारं कुर्वन् । इदम् अपूर्व-गुणानाम् - अदृष्टपूर्व-गुणवतां नृणां कृते । अन्यत्र परेषां शत्रूणाम् उत्+हारं उत्पाटनं कुर्वन् । पक्षेऽस्मिन् अकारः पूर्वं यस्य स अपूर्वगुणः-अगुणः-गुणरहितः । तेषाम् अगुणानां नृणां कृते ॥]
(प्रत्युदाहरणम्)
१२. गाने स इव स श्रोतृश्रुतिद्वन्द्वविदारणे ।
सेव सा नर्तने रङ्गभूमिमण्डलभञ्जने ॥
(अत्र सौन्दर्याभावान्नाऽलङ्कारः 1)
१३. पुष्पगुच्छैरतिस्वच्छैः समुपेतः समीक्षितः ।
कोविदार: कनत्येष वज्राभरणवानिव ॥
(अत्र द्वितीयसदृशव्यवच्छेदो नास्ति । वज्राभरणवत्त्वरूपस्य धर्मस्य कोविदारेऽभ्यूहितत्त्वादुत्प्रेक्षेयम् । “भूषावानिव मानुषः - " इति पाठकल्पने तु शुद्धोपमा ।)
३४
- jgrantha@gmail.com
Page #45
--------------------------------------------------------------------------
________________
Shamimilar
विद्याप्रबन्धः
सम्पादकः
स्व. मुनिहिमांशुविजयः मुनिसुजसचन्द्रविजयः
पूज्यशासनसम्राडाचार्यवर्यविजयनेमिसूरीश्वराणां ज्येष्ठगुरुभ्रातृणां शास्त्रविशारदानां श्रीमद्विजयधर्मसूरीश्वराणां विद्वच्छिष्येष्वन्यतमो मुनिश्रीविद्याविजयः । स शास्त्रपारगामी व्याख्यानकलाकुशलश्चाऽऽसीत् । स्वगुरूणामन्तेवासितया तेनाऽऽजीवनं गुरुसेवा कृता । अपि च, प्रथमं गुरुभिः सह ततश्च स्वयमेव तेन समग्रेऽप्युत्तरभारते मध्ये पूर्वभारते च भ्रमणं कृतम् । तथा पश्चिमेऽपि स कच्छप्रदेश सिन्धप्रदेशं (साम्प्रतं पाकिस्ताने) च विहृतवानासीत् । तस्य प्रवचनस्य बहूनि पुस्तकानि प्रसिद्धानि जातानि । तथा प्रवचनकलाशिक्षणार्थं तेन 'वक्ता बनो' नामकं लघुपुस्तकमपि लिखितमस्ति । एवमेव तस्य भ्रमणपुस्तकान्यपि प्रसिद्धानि । तेषु 'मारी कच्छयात्रा', 'मारी सिन्धयात्रा' इत्यादीनि मुख्यानि । किञ्च, तदुपदेशात् शिवपुर्यां (ग्वालियरसमीपे) पाठशालाऽपि प्रारब्धाऽऽसीत्, यस्यां देशविदेशेभ्यो बहवो विद्यार्थिनः समागत्य पठन्ति स्म । तथैव जर्मनदेशात् समागत्य शार्लोट क्रौझे (Charlote Crouze) नामिका विदुषी तत्पावें संस्कृत-प्राकृत-अपभ्रंश-गूर्जरादिभाषाः शिक्षितवती तच्छिष्या च जाता । तस्याः सुभद्रादेवीति नामान्तरमपि जातमासीत्।।
___ अथाऽयं तस्य सङ्क्षिप्तजीवनवृत्तमयः प्रबन्धस्तच्छिष्येण विदुषा श्रीहिमांशुविजयेन लिखितुमारब्ध आसीत् । किन्तु मध्य एव तस्य स्वर्गतत्वात् अपूर्ण एव रचितः प्राप्यते । स च यथातथमत्र प्रकाश्यते।
३५
Page #46
--------------------------------------------------------------------------
________________
विद्याप्रबन्धः वीतरागात् समग्रज्ञात् प्राज्ञज्ञेयात् सुवादिनः । धर्मनाथाच्च नाथामि कृपां कल्याणकारिणीम् ॥१॥ भारती मे सदा देयाद् ज्ञानसारसरस्वती । बुद्धिं शुद्धिं कवित्वस्य सदृष्टिवृष्टितोऽम्बिका ॥२॥ लेखक-वक्तलोकेषु स्फीतकीर्तिवतामहम् । श्रीविद्याविजयाख्यानां पूज्यानामैतिहासिकम् ॥३॥ सुचरित्रं प्रबध्नामि चित्रकायैर्विचित्रितम् । समासतः समस्तं च सरलं सरलाशयः ॥४॥युग्मम्॥ जम्बूद्वीपेऽथ देशोऽस्ति गूर्जरत्राख्यया श्रुतः । रसाल-ताल-हिन्ताल-प्रियालफलभूषितः ॥५॥ मही-कुमारिका-तापी-नर्मदादिनदीवृतः । धर्मनिष्ठ: कुमाराङ्गः समृद्धः सर्वसम्पदा ॥ युग्मम् ॥६॥ श्रीमान् अमथालालाख्यः श्राद्धः प्रभावमण्डितः । जात्या वसति तत्र स्म दशाश्रीमालिवंशगः ॥८॥ वैश्यो वैश्यवरेण्यः सन पुण्यकारुण्यसनिधिः । तस्य परशनाह्वाऽस्ति प्रसन्नवदना प्रिया ॥७॥ युग्मम् ॥ दम्पती तौ गतौ पार्श्वे साठंबाख्ये पुरे वरे व्यवसायार्थमङ्गिनां व्यवसायो हि जीवकः ॥१०॥ त्रिवेदालेन्दुवर्षेऽथ(१९४३) गच्छति सति वैक्रमे । कार्तिकीकृष्णपक्षस्य चतुर्थे शुद्धवासरे ॥११॥ तयोर्निवसतोस्तत्र प्रीतयोः पुण्यतः सुखम् । अजायत वरः पुत्रः पवित्रः पुण्यलक्षणः ॥१२॥ युग्मम् ॥ वर्द्धमानेन सिद्धार्थ इन्द्रो जयन्ततस्तथा । दशरथो यथा रामाद् हृष्टः पुत्रेण तत्पिता ॥१३॥ कुटुम्बमत्रणात् तस्य जम्पती चक्रतुर्वराम् । आख्यां बेचरदासेति देवीविशेषभक्तितः ॥१४॥ दिने दिने शरीरेण सार्धं बालो गुणैरपि । ववर्ध, चन्द्रवत् सोऽब्धेः पितुर्हर्षकरोऽजनि ॥१५॥
३६
Page #47
--------------------------------------------------------------------------
________________
आसीद् बेचरदासस्य स्वसा प्रियतरा गुणैः । चञ्चलाख्या तया साकं चिक्रीड क्रीडनैरयम् ॥१६॥ पञ्चवर्षीयबालेस्मिन् वर्तमाने दिवं गता। माता, शुचाऽऽहतस्तेन 'शिशूनां सा हि जीवनम् ॥१७॥ तातेन पाल्यमानोऽयं जीवीबाईतिसंज्ञया । पितृस्वस्रा सुखं प्राप ‘पोषणं दुःखशोषणम् ॥१८॥ साठम्बाख्ये पुरे तिष्ठन् पित्राऽयं प्रेषितः शिशुः । श्रीविद्यालयमध्येतुं विद्या सर्वार्थसाधिनी ॥१९॥ कक्षा अभ्यस्य षट् तत्रोत्तीर्णवान् स धिया स्वया । 'सुधियां दुर्लभं लोके किमस्ति व्यवसायिनाम् ?' ॥२०॥ चञ्चलाख्या स्वसा मृत्युं गता सुप्रीतिभाजनम् । मासान्तरं च वप्ताऽपि प्राप्तवान् स्वर्गभूमिकाम् ॥२१॥ अनयोर्मृत्युदुःखेन वज्रेणेव हतः शुचा । कामं बेचरदासो ही 'संयोगो दुःखकारणम् ॥२२॥ तदा कौटुम्बिका लोकाः स्वार्थपूरणतत्पराः । तस्य धनं च पात्राणि जर्छस् ! भूषणान्यपि ॥२३॥ सुधी.चरदासस्तद् दौष्ट्यं कपटनाटकम् । तेषां ज्ञात्वा प्रबुद्धोऽभूत् स्वार्थिसंसारनीरधेः ॥२४॥ अवशिष्टं गृहीत्वा तद् द्रव्यं जगाम दुःखितः । देहग्रामे निजे ग्रामे मातलस्य गृहेऽवसत् ॥२५॥ तत्र श्रीचूनिलालाख्यः कानुनीत्युपनामवान् । साधुवत् श्राद्धरत्नः स भव्यान् भव्यमुपादिशत् ॥२६॥ तस्मान्महात्मनो ज्ञानमेष चरित्रनायकः । शुद्धां श्रद्धां च लेभिवान् ‘सज्जना ह्युपकारिणः' ॥२७॥ आजीविकार्थमातेने तेन सेवा परापणे । धातूचन्द्रादिसाधूंश्च ददर्श प्रथमं सुधीः ॥२८॥ पुनानाश्चैकदा प्रीत्या धर्मसूरीश्वरा भुवम् । निधिबाणाङ्कचन्द्रेऽब्दे(१९५९) काशी प्रयातुमाययुः ॥२९॥ तानुदारानदारांश्च निभाल्य चरिताधिपः । मुमुदेऽयं सुधाशुं वा चकोर: कुमुदं यथा ॥३०॥
३७
Page #48
--------------------------------------------------------------------------
________________
एकदा बेचरदासः स्वग्रामं च कुटुम्बिनः । विहाय जग्मिवान् नाम्नी मुम्बां व्यवसितुं पुरीम् ॥३१॥ "धनाढ्यो वा महान् साधुर्भूत्वाऽऽयास्याम्यहं पुरे” । प्रतिज्ञैवं दृढां चक्रे प्रबन्धस्वामिना तदा ॥३२॥ तत्र साफल्यमप्राप्य विद्याभ्यासमचीकमत् । एकषड्नवचन्द्रेऽब्दे (१९६१) ययौ काशी ततश्च सः ॥३३॥ अनेक श्राद्धबालेभ्यो विद्यादानं प्रकुर्वतः । धीरान् श्रीधर्मसूरीन्द्रान् धर्ममूर्तीरिवाऽपरान् ॥३४॥ चातकोऽब्दमिव प्राप मुदा पुण्यप्रयोगतः । 'न हि पुण्यादृते पुण्यासङ्गतिर्हि सतां भवेत् ॥३५॥ युग्मम् ॥ “वर्षेऽष्टादशदेशीये वर्तमानो वयस्यहम् । लघुवयस्कसाध्यायां गीर्वाणगिरि योग्यताम् ॥३६॥ लप्स्ये न वे"ति संदेहः श्रीमद्धेचरचेतसि । आसीत, ‘स महतां चित्ते सिद्धेः पूर्वं भवेदपि ॥३७॥ युग्मम् ॥ तथाऽप्ययं महाचेता भक्तौ पाठे च यत्नतः । हैमव्याकरणे काव्ये सत्वरं प्राप योग्यताम् ॥३८॥ धीमद्धेचरदासेऽस्मिन् लेख-वक्तृकलाकुर: । अस्तीति धर्मसूरीन्द्रर्विज्ञायाऽतः स वर्धितः ॥३९॥ कलाविन्नचिराल्लेभेऽयं स्थानं गुरुचेतसि ।। 'उद्यतो मतिमाँल्लोके लभतेऽप्यतिदुर्लभम् ॥४०॥ कतिभिः क्लेशकारिभिः कृतात क्लेशात पराडमुखाः । त्रिषड्नवेन्दुसंख्येऽब्दे (१९६३) शिष्टाग्राः शिष्यसङ्गताः ॥४१॥ धर्मसूरीश्वराः काश्याः कालिकातां प्रतस्थिरे । बेचरदासमुख्यास्तैः सार्धं गताश्च पाठिनः ॥४२॥ कालिकातामहापुर्यामेकदा धर्मसूरिभिः । उपदिष्टा मुनेधर्मं योग्यान् ज्ञात्वा सुभाविकान् ॥४३॥ युवानः पञ्च विद्वांसो बेचरनृसिंहादयः । करिष्यति धर्मस्य सूलतिमुलताशयाः ॥४४॥ युग्मम् ॥ उपदेशं गुरोः श्रुत्वा भव्यनव्यविचारकाः । एतेऽकार्षुर्हि पञ्चाऽपि दीक्षां लातुं विचारणाः ॥४५॥
३८
Page #49
--------------------------------------------------------------------------
________________
" न दीक्षयाम्यहं छात्रान् पाठशालाधिवासिनः” । प्रतिज्ञा पितृतोषार्थमासीत् काश्यां गुरोरियम् ॥ ४६ ॥ छात्रैः पवित्रचारित्र-प्रेप्सुभिरिति प्रार्थिताः ।
“चयं सम्प्रति मुक्ताः स्मः पाठशालाधिकारतः ॥४७॥ गुवो ! धर्मसूरीन्द्राः ! सद्धर्ममर्मवेदिनः ! ।
तस्माद् दीक्षयताऽस्मान् भोः पञ्च कल्याणकाङ्क्षिणः” ॥४८॥ युग्मम् ॥ श्रुत्वेति प्रार्थनां तेषां धीमद्भिः सङ्घसाक्षितः । औदार्यधैर्यगाम्भीर्यशालिभिर्धर्मसूरिभिः ॥४९॥ त्रिषड्नवसुधाधामसङ्ख्ये (१९६३) वैक्रमवत्सरे । द्वितीये मासि वैशाखे सुतिथौ पञ्चमी सति ॥ ५०॥
सवयस्का वयस्यास्ते प्राज्ञा विरक्तचेतसः ।
परः सहस्रलोकानां दीक्षिता विधिवत् पुरः ॥ ५१ ॥ त्रिभिर्विशेषकम् ॥ कलिकातास्थसङ्गेनोत्साहात् कृत्वा महोत्सवम् । अभूतदृष्टपूर्वं च दर्शितो भक्ति सम्भरः ॥५२॥ कृतं बेचरदासस्य नाम दीक्षाक्षणे शुभम् । विद्यादिविजयान्तं हि गुरुभिस्तत्त्वदर्शिभिः ॥ ५३ ॥ श्रीन्यायविजयः सिंह- महेन्द्र - गुणशब्दतः । विजयान्ताश्च चत्वारः शिष्या नाम्ना कृताः परे ॥ ५४ ॥ शाणोल्लीढं यथा रत्नं युद्धोत्तीर्णो यथा भटः । तथा विद्याविजेताऽयं दीक्षितो दिद्युतेतराम् ॥५५॥ चातुर्मासीं च तत्रैकां कृत्वा धृत्वा गुणानयम् । अजीमगञ्ज-मुर्शीदाबाद - चम्पापुरीः शुभाः ॥५६॥
पावापुरीं व्यचारीच्च गुरुभिर्नूतनो मुनिः ।
अनुभवं वरं कुर्वन् तन्वन् व्याख्यानपद्धतिम् ॥ ५७ ॥ युग्मम् ॥ श्रीविद्याविजयस्साधुक्रियाधर्मं जिनोदितम् ।
तत्त्वं च गुरुतोऽज्ञासीत् भजन् तच्चरणं सुधीः ॥५८॥ पाठशालाधिनाथश्रीवीरचन्द्रादिप्रार्थनात् ।
यदा हि धर्मसूरीशाः श्रीकाशीमाययुः पुनः ॥५९॥
तदा शिष्याः स्वकाः पूर्वं प्रेषिताः पञ्च सूरिभिः । तत्रैकोऽयं प्रियो दक्षः श्रीविद्याविजयोऽभवत् ॥६०॥ युग्मम् ॥
३९
Page #50
--------------------------------------------------------------------------
________________
काशीराजं गुरोर्भक्तमुपदिश्य जनैः सह । कारितो गुरुदेवानां प्रवेशः समहोत्सवम् ॥६१ ॥ एकदा शिष्यपद्मानां सूरिसूरैः सुखाकरैः । विद्याविजयनामोपदिष्टः साधुशिरोमणिः ॥६२॥ "येनोत्साहेन मार्गेण कार्यं क्रियेत भोस्त्वया । तेनैव चेद् महाभाग ! कारिता, भविता महान् ॥ ६३॥ सुवशीकृत्य काशीस्थान् बुधान् भूपं स्वशक्तितः । गुरवः कृतविद्वांसस्ततः प्रस्थातुमैषिषुः ॥ ६४ ॥ अष्टषनिधिकौमुदीनाथसङ्ख्ये(१९६८) सुवत्सरे । विजहुः काशीलोकेभ्यो वियुज्य धर्मसूरयः ॥ ६५ ॥ विहरन् गुरुभिः साकं श्रीविद्याविजयो मुनिः । जगाम लखनौग्रामे भोगिवीरैरलङ्कृते ॥ ६६ ॥ गुर्वाज्ञामाप्य तत्रैव वल्लभविजयाग्रहात् । चातुर्मासीमकार्षीत् स श्रीविद्याविजयो गुणी ॥६७॥ विहृत्य तत एकाक्याजग्मिवान् गुरुसन्निधौ । व्याख्यात् व्याख्यातृधैरेयः श्रीविद्याविजयो जयी ॥ ६८ ॥ मेवाड - मारवाडौ च विचर्य गुरुभिः सह । मुनिरत्नं जगामेदं देशे श्रीगुर्जर निजे ॥ ६९ ॥ लेखैर्व्याख्यानतत्या च पुस्तकैश्चर्चया तथा । गूर्जरे काठीयावाडे ख्यातिमापदटन् सुधीः ॥७०॥ पालीताणामरेल्यां च श्रीजामनगरे पुरे । दीर्घस्थितिः चकाराऽसौ गुरुभिः बहुसाधुभिः ॥ ७१ ॥ बाणर्षिनिधिशीतांशुसङ्ख्ये(१९७५) वैक्रमहायने । भारतीयपुरश्रेष्ठे विंशतिलक्षमानुषे ॥ ७२ ॥ नैकान्मन्दिरे दीर्घे सुन्दरे इन्दिरागृहे ।
सर्वार्थक्रयविक्रीतौ मुम्बानाम्नि पुरेऽगमत् ॥ ७३ ॥ युग्मम् ॥ महतां देशनेतॄणां प्रसिद्धेषु स्थलेषु च । पुरस्सरमनेकानि व्याख्यानान्यकरोदयम् ॥७४॥ युवानः शिक्षिताः सभ्याः लेखका वाग्मिनोऽमुना । आगत्याऽऽगत्य सच्चर्चां चर्करन्ति स्म नैकशः ॥७५॥
४०
Page #51
--------------------------------------------------------------------------
________________
सूरिभिस्स्थापिता तत्र वीरतत्त्वप्रकाशिका । पाठशाला वरा तस्या नियमास्तेन योजिताः ॥७६॥ अन्यदा धर्मसूरीशा व्याधिग्रस्तकलेवराः । एनं विद्याविजेतारं जयन्तविजयं तथा ॥७७॥ आहूयोपादिशन् शिष्यौ ! "तथाहि- सह सर्वथा । स्थातव्यं प्रीतियोगेन युवाभ्यां क्षीरनीरवत्" ॥७८॥ युग्मम् ॥ क्रमशश्चर्करीति स्म चतुर्मासीद्वयीं मुदा । पूज्यो विद्याविजेता श्रीविद्यावदिनमस्कृतः ॥७९॥ खानदेशे महाराष्ट्रे ततोऽटित्वा च जग्मिवान् । थूलीयानगरे तस्थौ चतुर्मासी सतां प्रियः ॥८०॥ तत इन्दोरपुर्यां च गुरुभिः श्वासरोगगैः । शिवपुर्यामगादेष भजमानो गुरुंस्ततः ॥८॥ यथा सिंहशिशुः सिंहगुणान् करिगुणान् करी । गुरुसार्धं वसन् लेभे गुरोरेष गुणांस्तथा ॥८२॥ सिषेचे गुरुदेवाँस्तान् श्रीविद्याविजयः कृती। दिवा निशं त्रिधा भक्त्या साफल्यं जन्मनो नयन् ॥८३॥ श्वास-शोफं- गुरोश्चाऽथ नदीपूरमिवैधत । रोगोऽसाध्योऽसहा पीडा सेहे तैः सूरिभिर्मुदा ॥८४॥ रोगातैरपि चित्तेन प्रसन्नैर्धर्ममर्मतः। सर्वमोहं त्यजद्विः सन्ध्यायद्विश्चेतसार्हतः ॥८५॥ सिद्धिमुन्यङ्कशीतांशुवर्षे (१९७८) शिवपुरीपुरि । भाद्रशुक्लचतुर्दश्यां स्वर्लभे धर्मसूरिभिः ॥८६॥ युग्मम् ॥ पुत्रस्य मातृमृत्योर्वा कज-कैरवयोपुनः ।। पुष्पदन्ततिरोधानादवस्थेवाऽभवद् मुनेः ॥८७॥ गुरुमोहोऽपि सन्त्याज्यो भिक्षुभिर्मोक्षकाक्षिभिः । तथाऽपि सहजो मोहो निरोद्धं नैव पार्यते ॥८॥ मन्युमुक्तः शनैर्बुद्धो विज्ञाय भवितव्यताम् । खादीवस्त्रपरिधाने मनसा निश्चयः कृतः ॥८९॥ गुरुशिष्यैर्विनिश्चित्य गुरुकीर्तिविवृद्धये । स्मृत्यै च विहितैतै ः स्मारकनिधियोजना ॥९॥
Page #52
--------------------------------------------------------------------------
________________
लक्ष्मीचन्द्रादिसद्भक्तै नै नेतरैरपि । एषामप्युपदेशाच्चाउर्पितं बहुधनं जनैः ॥११॥ नवर्षिनिधिचन्द्रेऽब्दे(१९७९) माघसुपूर्णिमादिने । वैक्रमे गुरुमूर्तिस्तच्छिष्यैः पुण्या प्रतिष्ठिता ॥१२॥ अथ विद्याविजेतारो जेतारो दोषविद्विषाम् । स्मृत्वा गुरुगुणान् लोके सदा प्राचारयन् मुदा ॥३॥ शिवपुर्य्या विहृत्यैते भूत्वा गोपगिरी पुरे । उग्रसेनपुरं प्रापन् प्रबन्धस्वामिनः सुखम् ॥४॥ लक्ष्मीचन्द्राहदानीशो धनी श्रेष्ठी नतोडमलः । तत्राऽऽसीत् धर्मसूरीणां भक्तो मुख्यो महाशयः ॥१५॥ श्रेयोर्थं श्रेष्ठिना तेन सुपार्श्वजिनमन्दिरम् । सूरीशग्रन्थरक्षार्थं मन्दिरं च व्यधापयत् ॥१६॥ श्रेष्ठिना प्रार्थिता भक्त्या कल्याणपदसम्पदे । तत्प्रतिष्ठाविधानार्थं सूरिशिष्या विपश्चितः ॥१७॥ आमवणात् समायाताः बहुसङ्ख्या जनाः पुरे । व्ययेन लक्षरूप्याणां कृतं वरं महोऽद्भुतम् ॥८॥ निधिसाधुनवेन्द्वब्दे(१९७९) विक्रमाद् वीरतः पुनः । गोवेदोदधिनेत्राब्दे(२४४९) सुलग्ने च शुभे दिने ॥७९॥ त्रिभिर्विशेषकम् ॥ श्रीविद्याविजयैः पूज्यैः सह तैर्गुरुबन्धुभिः । प्रतिष्ठा श्रीजिनग्रन्थालययोः सह कारिता ॥१००॥ युग्मम् ॥ 'विजयधर्मलक्ष्म्याख्यज्ञानमन्दिरमध्यतः । गुरुमूर्तिरिटालीया स्थापिता धातुजा वरा ॥१०१॥ आचार्यपदं तत्रेन्द्रविजयेभ्यो महोत्सवात् । मङ्गलविजयेभ्योऽप्युपाध्यायपदमाददे ॥१०२॥ तत आर्यसमाजस्य वृन्दावनं निमवणात् । पाठशालोत्सवे जग्मुरिमे श्रीगुरुबन्धुभिः ॥१०५॥ स्थित्वा तत्रैव निर्ग्रन्थौश्चतुर्मासी समं समैः । ज्ञानमन्दिरगग्रन्थव्यवस्थेतैर्वताऽद्भुता ॥१०६॥ पञ्चदशसहस्राणां सभामध्ये नृणां तदा । प्रार्थिताः भूरिभिः पूज्या व्याख्यानत्रयमाददुः ॥१०७॥
४२
Page #53
--------------------------------------------------------------------------
________________
निवृत्यैते पुनः प्राप्ता मथुरां प्राक्तन पुरीम् । पुरातत्त्वस्य धर्मस्य स्थानान्यालोक्य च मुदा ॥ १०८ ॥ तेनैव वर्त्मनाऽऽगत्य चोग्रसेनपुरं पुनः । तस्मात् शिवपुरीमेते विहृत्य गुरुबन्धुभिः ॥१०९॥ चन्द्रदिग्निधिभूम्यब्दे(१९८१) श्रीगुरुमन्दिराश्रये । आगमन् पाठशालाया वृद्ध्यै सुकृतनिश्चियाः ॥११०॥ पाठशाला च मुम्बायां गुरुभिः स्थापिता पुरा । मुम्बापुरोऽव्यवस्थाया नीता वाराणसीं पुरीम् ॥ १११॥ तत्र गन्तुं गुरुस्वर्गादनिच्छद्भिः सुशिष्यकैः । तत आग्रापुरे तस्मादानीता शिवपत्तने ॥१११॥ कृपया गुरुदेवानां पाठशालाऽनिशं क्रमात् । छात्रैर्धनेन कीर्त्येषां तत्र यत्नादवर्धत ॥ १११ ॥ पाश्चात्याः पूर्वदेशीया आगत्य पण्डिता मुदा । अस्यां सुपाठशालायां नानाग्रन्थानपाठिषुः ॥ ११२॥ श्रीविद्याविजयाः पूज्याः कार्यदक्षतया स्वया । व्यवस्थालेखवक्तृत्वैः पाठशालामवर्धयन् ॥११३॥ ग्वालीयरमहाराजौ राज्ञ्यौ तथाऽधिकारिणः । उपदेष्टृमुखा एते उपादिशन् मनोहरम् ॥११४॥ परःसहस्ररूप्याण्युपदीकृतानि नैकशः । राज्येन पाठशालायां मुनीनामुपदेशतः ॥ ११५ ॥ चार्लोटे क्रौझे नाम्नाऽऽगाद् जर्मनीदेशपण्डिता । जैनसाहित्यमध्येतुमुत्सुकाऽत्र स्वदेशतः ॥११६॥ विद्याविजयमिश्राणां शिवादिपुरि पार्श्वतः । पुराणगूर्जरभाषां सा पेठुषी जिनागमान् ॥११७॥ तस्या नामान्तरं ख्यातं, भारतीयगुणानुगम् । सुभद्रा शब्दतो देवी भारते चाऽभिधीयते ॥ ११८ ॥ युग्मम् ॥
४३
Page #54
--------------------------------------------------------------------------
________________
जैनदर्शनसत्कतत्त्वविभावना:-२
मुक्तिः
मुनित्रैलोक्यमण्डनविजयः आवश्यकसूत्रेष्वन्यतमे पाक्षिकसूत्रे जैनधर्मस्य स्वरूपं परिचाययद्भिर्महर्षिभिः 'अहिंसैव जैनधर्मस्य प्राणभूते'ति सूचयितुं जैनधर्मस्य विशेषणत्वेन प्रथममेवोपन्यस्तं – 'अहिंसालक्खणस्स' (अहिंसालक्षणस्य) इति । अनेन जैनशास्त्रोक्तसकलविधिनिषेधानां हार्द हिंसाविरतिरेवेति तु फलितं भवत्येव, परं लक्षणमतिव्याप्त्याऽपि रहितं भवतीतिकृत्वाऽन्यधर्मस्थोऽप्यहिंसापरिपूतो व्यवहारो जैनैरनुमोदित एवेत्यप्यनेन ध्वनितं भवति ।
यद्यपि लोकः परप्राणवियोग-परपीडनादित्यागमेवाऽहिंसां मन्यते, विचारकाः पुनः परानिष्टचिन्तननिवृत्तिमप्यत्र समावेशयन्ति; तथापि 'अहिंसा परमो धर्मः, अहिंसैव जिनाज्ञासार' इत्यादि ब्रुवतां जैनाचार्याणामभिमताऽहिंसा वस्तुतस्ततोऽतिसूक्ष्मा । तथाहि- आत्मस्वरूपं सम्यग्ज्ञानदर्शनचरणमयम् । जीवानां या या अशुभा वृत्तिप्रवृत्तयस्ताः सर्वा अप्येतत्स्वरूपस्याऽऽच्छादिकास्तन्नाम घातिका भवन्ति । स्वरूपस्यैष घात एव हिंसा, यथा च स्वरूपमविकृतमेव तिष्ठेत्तथाऽवस्थानमेवाऽहिंसा । यतः सर्वा अपि जिनाज्ञाः स्वरूपस्योद्घाटनमेवोपदिशन्ति ततोऽहिंसैव जिनाज्ञासारः । धर्मस्य परमलक्ष्यीभूता मुक्तिः स्वरूपप्राकट्येनैव साध्येति तद्रूपाऽहिंसैव परमो धर्म इति ।
अस्या अहिंसाया यत किमपि रूपं भवेत, परं तदद्भवस्थानं स्वस्याऽन्यसत्त्वैः सह वास्तविकसमानतायाः संवेदनमेव । यतो यावद विचारस्तरे सर्वभूतेष्वात्मौपम्यं नाऽवतरेत् तावदाचारेऽहिंसायाः प्रतिष्ठा नैव भवेत् । किमधिकेन ? आगमेष्वप्यहिंसाया व्याख्यानरूपेण स्वस्य सकलव्यवहारेषु परैः सहाऽऽत्मसाम्यविचारस्याऽवतारणमेव दर्शितम् । सत्यमेवैतद्, यत आत्मनि यावान् स्नेहस्तावान् परेष्वपि भवति चेत् कथमस्मद्धस्ताभ्यां परदुरवस्थापादनं सम्भवेदिति ।
इदमात्मसाम्यभावनाप्राधान्यं न केवलं जैनानामाचारपरिधावेव सीमितमपि तु जैनदर्शनचिन्तनेऽप्यस्य प्रसारः । जैनानां दृढं मन्तव्यं यत् सर्वेऽप्यात्मानः सर्वगुणैः समाना एव । यत् पुनर्दृश्यमानं वैचित्र्यं तद् गुणावृत्यनावृतिरूपवैषम्येण जनितं, तत् पुनः कर्ममूलकं न तु सहजम् । सहजस्त्वात्मिकविकाससम्पादनाधिकारः सिद्धीभवनाधिकार ईश्वरत्वप्राप्त्यधिकारश्च । नीचातिनीचयोनिं गतोऽपि क्षुद्रातिक्षुद्रावस्थापतितोऽपि च जीवः प्रबलपुरुषार्थेन बन्धनग्रस्ततां विच्छिद्य मुक्ततामधिगन्तुं समर्थ एवेति सघोषमुक्षुष्यते जैनैः ।
यद्यपि केचन जीवाः शास्त्रे 'अभव्य(= मोक्षार्थमयोग्य)' रूपेण परिगणिताः । तथाऽपि तत् परिगणनं नाऽऽत्मौपम्यबाधकतिरस्कारजमपितु योग्यताभेदसूचकम् । अनादिसंसिद्धोऽयमभव्यभव्ययोर्जीवाकाशयोरिव स्वभावकृतो भेदः । आत्मनः कस्यचित् तादृश्येव 'भवितव्यता'विशेषरूपा नियतिर्भवति यया खलीकृतः स मोक्षार्थं नैवोत्सहते । सत्यनुत्साहे कथं मोक्षोपायवार्ताऽपि? एवं मोक्षार्थं कदाचिदप्युद्यमी
४४
Page #55
--------------------------------------------------------------------------
________________
न भविष्यतीति सोऽभव्य उच्यते ।
___ ‘एवं सति “अहं मुक्तिगमनार्हः स्यामुत ने"ति संशयितमानसस्य तदुपाये उत्साहो न स्या'दिति केचनाऽऽक्षिपन्ति । परं न तद् युक्तं - तच्छङ्काया एव तन्निश्चयहेतुत्वात्, आत्मनि भव्यत्वशङ्काया भव्यत्वसत्ताया व्याप्यत्वात् । आत्मन्यणीयस्याऽपि शमादिसम्पत्त्या तन्निश्चयसम्भवाच्च । मोक्षोद्यमात् पूर्वमपि स्वभावतो दर्शनान्तरप्रणीतपूर्वसेवाद्याचरणेन वा मनाक्शमादिसम्पत्तिः सुसम्भवैव ।।
क्रमशः सर्वभव्यानां मुक्तिगमने संसारो भव्यशून्यो भविष्यतीत्यापत्तिर्भव्यराशेरनन्तत्वस्वीकारेण न सम्भवति । प्रतिक्षणं कालस्य हानौ सत्यामपि संसारः कदाऽपि कालशून्यो न भविष्यतीत्याधुदाहरणान्यत्र द्रष्टव्यानि । यदाकदाचिदपि मुक्तिजीवराशिव्यजीवराशेरनन्तभागमात्र एव भवति । इदमेवाऽनेनाऽपि सिद्धं भवति यत् केचन जीवा भव्यत्वे सत्यप्यनन्तकालं यावत् सहकारिकारणान्यलभमानाः संसारे एव भ्रमणशीला भविष्यन्ति । एते 'जातिभव्या' उच्यन्ते । नैतेऽभव्याः - अयोग्यताऽभावात् । भव्यत्वमेतद् दार्वादौ प्रतिमादियोग्यताकल्पं विभावनीयम् ।
जैनदर्शनस्याऽनेकान्तदृष्ट्यनुसारं मोक्षोपायेष्विदन्ताऽऽग्रह इयत्ताऽऽग्रहो वा नाऽस्ति । किं बहुना? जैनधर्मोपासनेऽपि नैवाऽभिनिवेशो जैनाचार्याणाम् । 'रागद्वेषविलय एव मुक्तिहेतुः, यः कोऽपि येन केनाऽप्युपायेन तं साधयति स मोक्षाधिकारी'ति तेषां समुदारघोषणा ।५ बहुश उपलभ्यते जैनशास्त्रेष्वन्यसम्प्रदायानुसारिणां केनचिद्धेतुना रागद्वेषविलये सति मुक्तिगमनस्य वर्णनम् ।
नन्वेवं समुदारविचारधारायां सत्यामपि कथं जिनाज्ञाबहिर्भूतानां तत्र तत्र निन्दा कृता ? किं सा निन्दा न सम्प्रदायान्तरतिरस्कारसूचिकेति केचनाऽऽक्षिपन्ति । परमभिप्रायापरिज्ञानमूलकं तत् । तथाहिजिनाज्ञाया मुष्टिरेकैव - आत्मानं मलिनीकुर्वाणानि तत्त्वानि निवारय, आत्मोन्नतिं च साधयेति । य आत्मनः कल्याणं सम्पादयति, स कस्मिंश्चिदपि मते आस्थावान् सन्नपि परमार्थतो जिनाज्ञापालक एव । यस्तु विषयगृद्ध एव स जैननियमानां पालकः सन्नपि तत्त्वतो जिनाज्ञाबहिर्भूत एव । इत्थं च जिनाज्ञाननुपालकानां निन्दाया आत्मकल्याणप्रेरणायामेव पर्यवसानम् । एवमेव दर्शनान्तरमतखण्डनं सम्प्रदायान्तरविधिनिषेधदूषणं च जैनाचार्यैर्यद् विहितं तद् न तथा पारमार्थिकात्मशुद्धः सम्भव इति बोधयितुमेव। अत एव पारमार्थिकात्मशुद्धिसम्पादको धर्मो जैनेतरशास्त्रप्रतिबोधितोऽप्यनुमोदित एव जैनाचार्यैः ।।
अथ मोक्षवार्ताऽऽरभ्यते । तत्र मोक्षास्तित्वे एव केचन विप्रतिपत्तिमन्तः । तदुत्थापिता मोक्षसत्त्वबाधिका युक्तयश्चेमाः – १. कर्मक्षय एव मोक्षतया भवदभिमतः । तत्र क्षयमुपगच्छतां कर्मणामात्मना सह सम्बन्धः सादिर्वाऽनादिर्वा ? सादित्वे तत्सम्बन्धात् पूर्वमात्मनो मुक्तत्वापत्तिः । तथैवाऽस्त्विति मनने त्विदानीं कर्मक्षयं कृत्वा मुक्तस्याऽपि पुनर्बन्धापत्तिः । कर्मबन्धस्याऽनादित्वे तु 'क्रियते इति कर्मे'ति व्युत्पत्त्यर्थान्वयानुपपत्तिः, तत्सम्बन्धविच्छेदस्याऽसम्भवश्च – योऽनादिः सोऽनन्त इति व्याप्तेः । २. अमूर्तस्य गगनस्य बन्धमोक्षौ न भवत इति तादृशस्यैवाऽऽत्मनो बन्धमोक्षौ कथम् ? ३. कर्मपुद्गलानां च समग्रलोकव्यापित्वं भवदभ्युपगतम् । अथाऽऽत्मा संसारी स्यादुत मुक्तः स्यादवस्थानं तु तस्य लोके एवेति
Page #56
--------------------------------------------------------------------------
________________
लोकव्यापिकर्मपुद्गलेभ्योऽन्यतमैः साकं मुक्तस्य सम्बन्धः कथं न स्यात् ? आत्मना साकं कर्मणः सम्बन्ध एव मुक्ततावरोधक इति तत्सम्बन्धसत्त्वे कथं स मुक्तः ? ४. इहलोकसमुपार्जितपुण्यपापकर्मणामुपभोगार्थं नाकनरककल्पना भवतु नाम, परं मोक्षस्य कल्पना किमर्थं कर्तव्या ? इति ।।
_ नैता असदुत्तराः । तथाहि- १. 'क्रियते इति कर्मे'ति व्युत्पत्त्यर्थानुरोधेन कर्मबन्धस्य व्यक्तिशः सादित्वेऽपि प्रवाहतः (=सन्तत्यपेक्षया) अनादित्वमेव, पुरुषस्य सादित्वेऽपि पितापुत्रपरम्पराया अनादित्ववत् । अनादित्वेऽपि तत्परम्पराया उच्छेदस्तु बीजाङ्करसन्तानोच्छेद इव सुशक एव । यथा बीजादङ्करोद्भवः, अङ्करतः पुनः कालान्तरे बीजोत्पत्तिरित्यनादिपरम्परा; यदा चाऽन्यतरस्य तदितरजननात् पूर्वमेव वयादिना नाशस्तदा परम्परासमाप्तिः । तथैवाऽऽनादिकालात् कर्मोदयवशतः शुभाशुभप्रवृत्तयः, तज्जन्यश्च कर्मबन्धः । यदा च ध्यानाग्निना कर्मनाशस्तदाऽनादिपरम्परायाः समाप्तिरपि । नाऽत्राऽपि बीजाङ्करयोरिव कतरत् प्रथममिति वक्तुं शक्यते । कुर्कुट्यण्डपरम्पराऽप्यत्र निदर्शनीभवति । किञ्च, भूमिस्थसुवर्णस्याऽनादिकालादशुद्धस्य वढ्यादिना मालिन्यापगमे काञ्चनत्वाप्तिरिव जीवस्याऽप्यनादिकालादशुद्धस्य तपोध्यानादिना कर्मनाशे युज्यते एव शुद्धता । २. आकाशस्य सर्वा अपि क्रिया न प्रेरणापूर्विका, जीवस्य तु चेष्टामात्रमन्तःप्रेरणाप्रचोदितमिति दृष्टान्तदान्तिकयोर्महद् वैषम्यम् । अमूर्तस्य गगनस्य यथा मूर्त्तकृतावनुग्रहोपघातौ न सम्भवतस्तथा जीवस्याऽप्यमूर्तस्य मूर्त्तिमत्कर्मजन्यौ न सम्भवेतां तावित्यप्याशङ्का न युक्ता - अमूर्तस्या अपि बुद्धायाद्यौषधि-मद्यादिभिरनुग्रहोपघातदर्शनात् । ३. जीवकर्मणोः संयोगमात्रं न बन्धत्वेनाऽभिमतं, कर्मसंयुक्तस्य गगनस्याऽपि बद्धत्वापत्तेः । किन्तहि? कर्मरूपेण परिणमयितुं योग्याः पुद्गलसङ्घाता योगवशाच्चलायमानेष्वात्मप्रदेशेषु रागद्वेषाभ्यञ्जनलक्षण-स्नेहवशात् श्लिष्यन्ति, आत्मना साकं वढ्ययस्पिण्डवदन्योन्यानुगममापादयन्ति च । एष एव बन्धः । मुक्तात्मसु परिस्पन्द-स्नेहयोरभावात् कर्मसंयोगेऽपि न तद्बन्धः । ४. मोक्ष आगमप्रमाणसिद्ध एव, तथापि स न श्रद्धैकगम्यः, कथञ्चिद् अनुमानस्याऽपि विषयत्वात् । तथाहि- यथा प्रवृत्तेः फलं कर्म, तथा निवृत्तेरपि केनचित् फलेन भवितव्यम् । यच्च तत्फलं तत् कर्मनाश एव, स एव च मुक्तिः । किञ्च, संसारस्थानि सकलवस्तूनि सप्रतिपक्षाण्येव - शैत्यौष्ण्यवत् । तथा संसारेणाऽपि सप्रतिपक्षेण भवितव्यम् । यश्च तत्प्रतिपक्षः स मोक्ष एव ।१० अन्यच्च, अस्मासु शमादिसम्पत्तेन्यूनाधिक्यमनुभूयते । यच्च न्यूनाधिकवृत्तिमत् तस्य प्रकर्षः कुत्रचित् स्यादेव । यत्र शमादिसम्पत्तेः प्रकर्षः स मुक्तिरेवेति ।
केचन विविधविचारणाप्रधाविता मुक्तावात्मास्तित्वं न स्वीकुर्वन्ति । तत्र प्रमुखाः परिगण्यन्तेऽनादिचित्तसन्तानमेवाऽऽत्मस्थाने स्थापयन्तो बौद्धाः । सवासनस्थितावेव चित्तोत्पादः, तद्वशादेव संसारः, वासनाक्षये क्लेशाभावाच्चित्तानुत्पाद एव मुक्ति इति तेषां मतम् । एतैर्मुक्त्यर्थमुदाह्रियमाणं दीपनिर्वाणमतिप्रसिद्धमित्येते दीपनिर्वाणवादिन उच्यन्ते ।११ अत्र जैना एवं प्रतिविदधते - भावः कदाऽपि सर्वथा नाशं नैति । घटनाशे घटखण्डोत्पत्तिवदेकद्रव्यनाशेऽन्यद्रव्योत्पादेन भवितव्यमेव । भावत्वाभावत्वे अत्यन्तविरुद्ध अनादिसंसिद्धे च, अतो भावोऽभावत्वं नाऽऽप्नोति, अभावश्च भावत्वम्१२ । आम्, भावस्य परिणामात् परिणामान्तरं प्रत्युपसर्पणं सम्भवति । दीपपुद्गला अपि स्नेहनाशेऽन्धकारपरिणाम प्राप्नुवन्ति, न
४६
Page #57
--------------------------------------------------------------------------
________________
पुनर्नाशमेवेति । "शक्ते. कदाऽपि नाशो न भवति, तत्परिणामान्तरमेव सम्भवती"ति वैज्ञानिकसंशोधनं तत्त्वान्तरविषयकमप्यत्र ध्यानाहम् ।
संसारे नरनारकादिपर्यायवियुतं शुद्धजीवद्रव्यं तु नैव दृष्टम् । पर्यायाश्च सर्वे कर्माधीना एवेति कर्मनाशे तज्जन्यपर्यायनाशात् तदवियुक्तं शुद्धजीवद्रव्यमपि न तिष्ठेदिति केषाञ्चित् कल्पना बालिशताद्योतिकैव । यतः किं मुद्गरपाताद् घटनाशे तदवियुक्तस्य गगनस्याऽपि नाशो भवति? जीवत्वं तु न कर्मसापेक्षं खलु ?, यत् कर्मनाशे तस्याऽपि नाशो भवेत् । वस्तुतः पर्यायवियतं द्रव्यं नैव भवतीति जैनैरपि स्वीकृतं, परं मक्तिरपि पर्यायविशेष एवेति न दोषः ।
'जीवनं नाम प्राणधारणमेव । प्राणास्तु शरीरेन्द्रियादयः सर्वेऽपि कर्मजन्याः ।१३ मोक्षः कर्मनाशे सत्येव । ततस्तत्र प्राणाभावाज्जीवनाभाव इति जीवोऽजीवत्वं प्राप्नुयादिति मननमज्ञानविजृम्भितमेव । यतः प्राणा हि द्विविधाः- द्रव्यप्राणा भावप्राणाश्च । मोक्षे शरीरादि-द्रव्यप्राणानामेवाऽभावः, न पुननिदर्शनादिभावप्राणानाम् । तद्धारणाज्जीवस्य जीवत्वमपि सुस्थमिति ।
वस्तुतो ये केऽपि येन केनाऽपि प्रकारेण मोक्षे आत्मास्तित्वं निषेधयन्ति तैरेतद् विचारणीयं- मोक्षे ममाऽस्तित्वमेव समाप्तिमेष्यतीति जानतः पुंसः कथं मोक्षप्रवृत्तावुत्साहः स्यात् ? कथं वा स्वस्यैवोच्छेदोऽभीष्टः स्यात् ? दुःखवित्रस्तानामात्महानमपीष्टं भवतीति विभावने मुक्तिर्मूढाचीर्णात्मघातान्निविशेषैव कथं न स्यात् ? तथाच सा कथं विवेकिनां हेया न स्यात् ? तत्त्वतस्तु किं तादृशमुक्त्यपेक्षया संसार एव न वरः? यत्र तावदन्तराऽन्तराऽपि काचित् सुखमात्रा त्वनुभूयते; न पुनर्दुःखाद् वित्रस्य सुखसम्भावनाया अप्युच्छेद इति ।
अथ मुक्त्यर्थं प्रवृत्तिः कथं भवतीति चिन्त्यते । सर्वे जीवाः सुखाभिलाषिणः । कीटिकातः कुञ्जरं यावत् सर्वेऽपि सत्त्वा यत्किमपि कुर्वन्ति तत् सुखाभीप्सयैव । इष्टसाधनताज्ञानस्य प्रवर्तकत्वं यन्नैयायिकैनिष्टङ्कितं तेनाऽपीदमेव फलितं भवति यत सखेच्छैव जीवानां प्रचोदिका । इत्थं च सखार्थं प्रयत्नवत्त्वरूपेण धर्मेण यद्यपि सर्वे समानास्तथापि तात्त्विकदृष्ट्या सत्त्वाः समूहचतुष्के विभक्ता दृश्यन्ते । एकस्मिन् समूहे तेऽन्तर्भवन्ति ये शारीरिकसुखे तन्नाम विषयेष्वेव गृद्धा भवन्ति । हेयार्थार्थमुद्यमवन्तः स्थूलदृष्टय एतेऽधमा उच्यन्ते । द्वितीये ते समाविष्टा भवन्ति, ये 'अस्मिन् जन्मनि तु पूर्वजन्मविहितकर्मजन्यं सुखदुःखादिकं लब्धं, परममुत्र सुखार्थं मयेहलोके प्रवतितव्य'मिति विचिन्त्य दानादिषु व्यापृता भवन्ति । प्रेयार्थार्थमुद्यमिन एते विषयेष्वेव निबद्धदृष्टयोऽपि प्रायः परहानिं न कुर्वन्ति, प्रत्युत पुण्यलिप्सया किञ्चित्परोपकारमपि साधयन्तीति प्रथमसमूहगतसत्त्वापेक्षया मनागुच्चा इति विमध्यमा उच्यन्ते । तृतीये पुनः परार्थसम्पादने एव सुखं मन्यमानाः प्रविष्टाः । उपादेयार्थार्थमुद्यम कुर्वन्त एते यद्यपि महान्तः, तथाऽप्यमीषां दृष्टिभौतिकपरिधावेव सीमितेत्येते मध्यमाः परिगण्यन्ते ।
चतुर्थे पुनस्ते उत्तमजीवाः स्थानमाप्नुवन्ति, ये एवं विचिन्तयन्ति- विषयसुखं यावदुत्कृष्टं भवतु परं तदनित्यमेव भवति । तदुपभोगादिकालार्जितकर्मोदयवेलायां घोरदुःखानुभवेन विपाकविरसमेव वैषयिकसुखं भवति । किञ्च, तत् कर्मानुसारं लभ्यते इति परवशं, ततश्च परमार्थतो दुःखमेव । तदर्थं कतीनां चाटुकारिताद्यपि करणीयं भवति । किञ्च, कष्टेन विषयाः सम्प्राप्ताश्चेन्न पर्याप्तं, तत्संरक्षणेऽपि तावत्येव कष्टपरम्परा । अन्यच्च,
४७
Page #58
--------------------------------------------------------------------------
________________
प्रयोजनवशादस्माकं शुभाशुभादिकल्पना विपरिणमते इति विषयेष्वस्माकं रुचिरपि नैव स्थिरा । ततोऽद्य भृशमीप्स्यमानः कष्टेन सम्प्राप्तो विषयः श्वो दर्शनेनाऽपि दुःखदो भवेत्तत्र नैवाऽऽश्चर्यम् । वस्तुतो बहुशस्तु वयं दुःखप्रतीकारमेव सुखं मन्यामहे, कच्छूकण्डूयनवत् । महत्त्वपूर्णा वार्ता त्वेषा यत् तत्सुखेऽनेकेषां दुःखं घनीभूतं भवति । रागद्वेषविलयजन्यं प्रशमसुखं तु नैवम् । तन्निरुपाधिकं - परानपेक्षणात् । तत एव तन्नित्यम् । तदभयम् - अनाहार्यत्वात् । तत् स्वाभाविकम् - आत्मस्थत्वात् । तन्निरूपमं -तादृशस्यैकत्वात् । तत्प्राप्तौ च न कस्याऽपि हानिलेशोऽपि । पारमार्थिकः परोपकारोऽपि स्वयं तदवाप्य परेभ्यस्तद्वितरणे एव सम्भवी । परेषां शारीरिकादिदुःखानि दूरीकृतानि चेन्न पर्याप्तम् । तत्त्ववकरपूरिते गृहे दुरभिनिवारणार्थं धूपज्वलनसदृशमेव । तदुःखहेतोः कर्मणो निवारणायोपायस्य प्रदर्शनेनैव वास्तविक उपकारः । स चोपायो मयाऽन्वेषणीय इति । एवं विचिन्त्य ते मोक्षार्थं बद्धकक्षा भवन्ति ।
इदं तु ध्येयं - प्रशमसुखं नैवाऽऽगन्तुकं तत्त्वम् । तत् सहजं भवदपि कर्मावृतत्वान्नाऽनुभूयते, शरावावृतप्रदीपप्रकाशवत् । यथा यथा च तदावरणमपस्रियते तथा तथा तत्प्रादुर्भूतिः । आवरणापसृतिहेतू रागद्वेषहानिः । रागद्वेषयोः सर्वथाऽपचयश्च मुक्तावेवेति तत्रैव प्रशमसुखस्य सर्वतः प्रकटनम् ।
कीदृशं तत् सुखमिति प्रश्ने वक्तुमनहमित्येवोत्तरं भवेदनुभवैकगम्यत्वात् । तथाऽपि किञ्चिदवगमार्थमेवं प्रज्ञाप्यते- अन्नादिसम्भोगो बुभुक्षादिनिवृत्त्या सुखं ददाति । तत्र वस्तुतः किं साधितं भवति येन वयं सुखं वेदयामहे? स्वास्थ्यमेव तत् । एवं सति ये सर्वदा स्वस्था एव तेषां सुखमनुत्तरमेव भवेत् ?१४ तदांशिकप्रत्यक्षन्तु मनाविकारराहित्यजन्यस्वास्थ्येऽस्माकमपि सम्भवि । तावन्तं कालं 'वयं मुक्ता' इत्यपि वक्तुं शक्यम् ।१५
सिद्धिसुखस्योपमातीतत्वेऽपि निदर्शनमात्रमेवं दर्शितं- सर्वशत्रुक्षये सर्वव्याधिविगमे सर्वार्थसंयोगे सर्वेच्छासम्पूर्ती च यादृशं सुखं जायेत ततोऽनन्तगुणं सिद्धिसुखं भवति - रागादिभावशत्रुक्षयात् कर्मोदयव्याधिविगमात् परमलब्धिसंयोगादनिच्छैकेच्छाशेषाच्च । एतत् सुखमप्राप्तवल्लभसंयोगायाः कुमार्याः प्रियसंयोगसुखमिवाऽस्माभिर्यथावज्ज्ञातुमशक्यं भवति ।
अत्र यद्यप्यापाततो मुक्तौ सुखस्य सर्वथाऽसत्त्वमङ्गीकुर्वतां नैयायिकानां ६ जैनाः प्रतिवादिनो भवन्तीति भासेत । तथाऽपि तदयुक्तमुभयोः कथञ्चित्समानाभिप्रायत्वात् । तथाहि- सुखशब्दस्य प्रवृत्तिनिमित्तमानुकूल्येन वेदनीयत्वम् । ततस्तस्य चत्वारोऽर्थाः सम्भवन्ति - शुभविषयवेदनं, वेदनाभावः, पुण्यकर्मविपाकतः स्वेष्टप्राप्ती रागद्वेषविलयश्च । एषामनुक्रमं दृष्टान्ताः - सुखो वह्निः, भारापगमादहं सुखी, इदं लब्ध्वा सुख्यह, स मोक्षसुखं प्राप्तवान् । नैयायिकैर्धर्मजसुखस्य मुक्तौ निषेधः कृतः, स तु पुण्यकर्मविपाकरूपसुखस्य मुक्तावभावं प्रतिपादयतां जैनानामपि सम्मतः । मुक्तौ दुःखाभावे सुखमुपचर्यते इति नैयायिककथनमपि न जैनानामस्वारस्यविषयं, गौणतया तादृशसुखस्याऽपि मुक्तौ तैरभ्युपगमात् । उभयोरन्तरं त्वेतदेव - नैयायिकैरात्मगुणाः शरीरादिकारणेभ्यो जन्या एव मताः । जैनैस्तु परसान्निध्ये जन्याः परविरहे प्रादुर्भाव्याश्च । तथा चैतद् जैनानां चिकथयिषितं- मुक्तौ कारणविरहाज्जन्यगुणानामभावः कामं भवतु, परं परविरहे प्रादुर्भूयमानानामभावमापादयितुं कथं शक्येत? पुण्यविपाकजं सुखं तत्र न स्यादिति को वा सुधीर्नाऽनुमनुते? परं स्वाभाविकमपि सुखं तत्र न स्यादिति कथं प्रसह्याऽप्युररीकर्त्तव्यम् ? आवरणापगमे आवृतमनावृतं न
४८
Page #59
--------------------------------------------------------------------------
________________
भवतीति चेदावरणापगमस्यैव कोऽर्थः ? वस्तुतः पुण्येन प्राप्यमाणं सर्वमपि शरीरेन्द्रियाह्लादकमेव, न पुनरात्मनस्तेभ्यः कोऽपि लाभः । आत्मसुखं तु न तृष्णापूर्ती, प्रत्युत तृष्णाशान्तौ । सुखमात्रं पुण्यजन्यमिति कदाग्रह एव - द्वन्द्वशान्तौ विलक्षणसुखस्य सर्वैरप्यनुभूयमानत्वात् ।
साङ्ख्याः सुखं प्रकृतिविकारं मत्वाऽऽनन्दादिराहित्यस्वभावस्य पुरुषस्य मुक्तौ सुखाभावमङ्गीकुर्वन्ति । वैदिकानां तेषाम् 'आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते' इति श्रुतेविरोधरूपो महान् दोषः । किञ्च, मुक्तौ पुरुषस्य सर्वबाधाविरहितत्वं शद्धचिच्छक्तिमत्त्वं च तैरपि स्वीकतम । एवं सति किं नामाऽवशिष्टं येन मोक्षे सुखं न सम्भवेत् ? न हि नाम स्वच्छज्ञातुः स्वनिष्ठबाधाराहित्यज्ञानाद् व्यतिरिक्तं परमं सुखम् । कर्मप्रकृतिजन्यं सुखं तत्र नाऽस्तीति जैनकथनं साङ्ख्यमन्तव्यं संवदत्यपि।।
अथ ये केऽपि वादिनो मोक्षे सुखसत्त्वं नाऽङ्गीकुर्वन्ति तेषां सर्वेषां समक्षं 'सुखहानेरनिष्टत्वाद् बलवदनिष्टत्वप्रतिसन्धानतो मोक्षार्थं प्रवृत्तिरेव न स्या'दिति महत्यापत्तिः । 'वैराग्यवतामेवमोक्षेऽधिकारः, सुखेप्सायां च वैराग्यव्याहतिः, ततो न मोक्षस्य सम्भव' इत्यापत्तिं ते यद्यपि परेभ्यो ददति, 'दुःखं मा भू'दितीच्छयैव मोक्षार्थमुद्यम' इति कथयन्तः स्वात्मानमुद्धरन्ति च; तथाऽपि दुःखविषयककषायकालुष्ये सति जायमाना वैराग्यव्याहतिर्नैव तेषां दृष्टिपथमुपयातीति महदाश्चर्यम् । शान्तिसुखस्येच्छाऽपि वैराग्यघातिकेति गुरुपरम्परालब्धं तत्त्वरहस्यमपि तैः स्वशिष्यान् प्रत्येव बोधयितुं शक्येत !
मुक्तौ सुखाभाववादिनो यद्यपि 'अशरीरं वावसन्तं प्रियाप्रिये न स्पृशत' (छान्दो० ८.१२.१) इति श्रुतिं प्रमाणतयोपस्थापयन्ति, सुखदुःखयोरुभयोरभावस्य प्रतिपादयित्रीयं श्रुतिरिति मन्यन्ते च; तथाऽपि 'सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयात्' इति स्मृतिवचनं सा श्रुतिर्न बाधेत, तथैव तदर्थो विचारणीयः । स चाऽयं- घटासत्त्वे पटे सत्यपि यथा 'घटपटौ न स्त' इति व्यवहारः प्रामाणिकः, तथैव दःखासत्त्वमात्रेण सखे सत्यपि 'सुखदःखे न स्त' इति प्रतिपाद्यते श्रुत्या । संसारे सदैव सुखदुःखयोर्द्वन्द्वमेव, तच्च न मोक्षे इतीह तात्पर्यम् । एवं च स्मृतिस्थ-सुखशब्दस्य दुःखाभावे लक्षणाऽपि कर्तव्या न भवति । मुक्तानामिदं प्रियमिदमप्रियमित्यादिबन्धनानि न भवन्तीत्यप्यर्थोऽत्र सुशक एव ।
सिद्धा तावत् परमानन्दार्थितया मोक्षार्थं प्रवृत्तिरिति ।
अथ कृत्स्नकर्मक्षयात्मकमोक्षप्राप्तिप्रक्रियाऽतिसंक्षिप्ततया प्रदर्श्यते । आत्मनः सहजं स्वरूपं सर्वथा विशुद्धं सदपि तत्तद्गुणाच्छादककर्मसंयोगेन मलिनीभूतं भवति । ततश्चाऽऽत्मनोऽनन्तगुणानां स्वामित्वेऽपि न ते गुणाः प्रादुर्भवन्ति । आत्मनः सर्वज्ञत्वं सर्वदर्शित्वं सम्यक्त्वमनन्तचारित्रमनन्तवीर्यमनन्तसुखमित्याद्या गुणाः स्वरूपप्रतिष्ठापकत्वाद् मूलगुणा उच्यन्ते । यान्यशुभकर्माण्येतानावृण्वन्ति तान्यात्मविकासबाधकानीति 'घाती'न्युच्यन्ते । अक्षयस्थितिरमूर्तत्वमगुरुलघुत्वमित्याद्यन्यगुणान् यान्याच्छादयन्ति तानि च भवस्थितिमात्रनिबन्धनानीति 'अघातीनि' कथ्यन्ते ।
आत्मा तत्तच्छुभवृत्तिप्रवृत्तिद्वारा परिणतिं विशोध्य कर्माणि यथा यथाऽपनयति तथा तथाऽऽच्छादिता गुणाः प्रकटीभवन्ति । कर्मणामपनयनं च तदागमनहेतुप्रमादादिनिरोधेन पूर्वोपार्जितानां च परिशाटनेन । यदा जीवो घातिकर्माणि निर्मूलमपनयति तदा केवलज्ञानं प्रादुर्भवति । महात्माऽयं सर्वज्ञः सर्वदर्शी विशुद्धसम्यक्त्वी
४०
Page #60
--------------------------------------------------------------------------
________________
सर्वोत्तमचारित्र्यनन्तवीर्यसम्पन्नश्च भवति । मोक्षे भवे च निविशेषमतिरसौ भवस्थितिनिबन्धनानि कर्माणि सहजं वेदयति । रागद्वेषद्वन्द्वातीतोऽयं जीवन्मुक्त उच्यते । उपदेशादिना लोकोपकार एव महापुरुषस्याऽस्य प्रधानं कृत्यं भवति।
आयुःकर्मणि क्षीणप्राये जाते निर्वाणकाले सन्निहिते सति महात्माऽसौ योगप्रक्रियया मनोवाक्काययोगान्निरोध्याऽन्येषामपि कर्मणां क्षयमापाद्याऽन्ते शरीरबन्धनं त्यक्त्वा सिद्धिक्षेत्रं गच्छति । लोकस्योपरितनभागे परमशभाऽधोमखीकतच्छत्राकारेषत्प्रारभारानामिका वसधा समस्ति । सिद्धानां भमिरेषा सिद्धशिलेत्युच्यते । इयं नृलोकतुल्यविष्कम्भाऽस्ति, यत आत्मा येष्वाकाशप्रदेशेषु मुक्तो जातः, ऊर्ध्वायतास्तत्प्रदेशश्रेणीरत्यजन् प्रदेशान्तरमस्पृशन्नेवोर्ध्वं गच्छति, मुक्तिप्रापणयोग्यं क्षेत्रं तु सकलनृलोकमिति । वसुधाया अस्या योजनमात्रमुपरि गते सति लोकान्तः । सिद्धा लोकान्तं शिरसा स्पृशन्त इव तिष्ठन्ति । तन्नाम न ते सिद्धशिलाधिष्ठिताः, तथाऽपि सा भूमिः समीपतमेतिकृत्वाऽऽधारक्षेत्रतया विवक्ष्यते।।
सिद्धाः कथमत्रैव न तिष्ठन्तीति चेत् ? प्रयोजनाभावाद् बन्धनाभावाच्च । गतिश्च प्रयत्नपूविका, प्रयत्नश्च शरीराधीन इति मुक्तानां शरीराभावे कथमूर्ध्वगतिरिति शङ्का भवितुमर्हति । तथाऽपि सा न युक्ता - शरीराभावेऽपि गतेः सम्भवस्य दर्शितत्वात् । तथाहि- पूर्वप्रयोगाद् - भ्रामितत्यक्तकुलालचक्रवत् । असङ्गत्वात् - जले निमग्नस्य मृल्लिप्तालाबुनो मृल्लेपापगमे ऊर्ध्वस्तरसम्प्राप्तिवत् । बन्धच्छेदात् - एरण्डस्य प्रयत्नेन त्वक्छेदने तत्स्थबीजस्य स्वयमुल्लङ्घनवत् । जीवस्योर्ध्वगमनस्वभावत्वाच्च - अग्निज्वालावत् । ननु जीवस्योर्ध्वगमनस्वभावत्वे कथं संसारिणामधस्तिर्यग्गमने दृश्येते? कर्मसम्बन्धेन तत्स्वभावस्योपहतत्वादेव । ननु जीवस्योर्ध्वगमनस्वभावत्वे कथं लोकान्तादपि परं न गच्छति ? शृणु, प्लवकस्य स्वयं गमनसामर्थेऽपि यथा जलं तत्रोपगृह्णाति, एवं जीवस्य स्वयं गमनसामर्थ्येऽपि गमनमात्रे धर्मास्तिकायोपग्रहावश्यकता । धर्मास्तिकायश्च लोके एवेति गत्युपग्राहकाभावान्न जीवस्य लोकाद् बहिर्गतिः ।
जीवस्य शरीरव्यापित्वं जैनमते स्वीकृतम् । यावान् देहो भवति, स पुनः कीटकस्य वा स्यात् कुञ्जरस्य वा स्यात्, आत्मप्रदेशसङ्ख्यायाः समानत्वमेव । प्रदीपस्य लघुबृहच्छरावस्थत्वेऽपि प्रकाशमात्रायाः समानत्वमत्र निदर्शनीभूतम् । चरमे मनुष्यभवे यावत्यवगाहना स्यात् ततस्त्रिभागोनावगाहना मुक्तावात्मनो भवति - मुक्तिसन्निधिकाले आत्मप्रदेशानां घनीभवनात् । संस्थानं त्वन्तिमशरीरावस्थातुल्यमेव भवति मूषानिर्गतसिक्थकवत् । सिद्धिक्षेत्रे तावदवगाहनावतामात्मनां परस्परमभिव्याप्य स्थितिः । येष्वाकाशप्रदेशेष्वेक आत्माऽवगाढः, तेष्वेव प्रदेशेष्वपरेऽनन्ता आत्मानोऽवगाढाः । न्यूनाधिकप्रदेशेष्वनन्तानन्ताः । तथाऽपि न तेषां बाधा - अमूर्तत्वात् । एकस्मिन्नेव स्थानेऽनेकप्रदीपप्रकाशस्य स्थितिरत्र दृष्टान्तीभवति ।।
अत्र केचन विविधमतावेशतोऽनन्तकालं यावत् सिद्धावात्मनोऽवस्थानं नाऽङ्गीकुर्वन्ति । तत्प्रदर्शिता मुख्या युक्तय इमाः - १. मोक्षस्योत्पत्तिमत्त्वे सति विनाशित्वमपि भवेद्, यत् कृतकं तदनित्यमिति व्याप्तेः । २. सिद्धावस्थाऽऽत्मनः पर्यायविशेष एवाऽभिमतः । पर्यायस्य च क्षणस्थायित्वमेव वर्णितं शास्त्रे इति सिद्धत्वं कथमनन्तकालस्थायि भवेत् ? ३. उत्पादव्ययध्रौव्ययुक्तत्वमेव सत्त्वमभिमन्यते जैनैः । तच्च द्रव्यस्याऽवस्थातोऽवस्थान्तरसर्पणे एव सम्भवि। सिद्धस्य सिद्धावस्थाध्रौव्ये कथमुत्पादव्ययसम्भवः? ४.
५०
Page #61
--------------------------------------------------------------------------
________________
सिद्धानां संसारे सर्वं सम्यगेव भवेदिति प्रबलेच्छा । अनन्तशक्तिसम्पन्नत्वाच्च तत् कर्तुं ते शक्ताः । ततः स्वस्थापिततीर्थनिकारादिकारणतो दुष्टादुष्ट-निग्रहानुग्रहसम्पादनार्थं ते कथं पुनः संसारे नाऽवतरेयुः?
अवबोधसमाधेया इमा विप्रतिपत्तय इति जैनाः । १. यत् कृतकं तदनित्यमिति व्याप्तिरसिद्धा । ध्वंसस्य कृतकत्वे सत्यप्यविनाशित्वमेवाऽभिमतम् । एवं सति कर्मध्वंसरूपमोक्षस्य सैव स्थितिरित्यत्र का बाधा ? अन्यच्च, मोक्षस्य सर्वथा कृतकत्वमपि न । तथाहि- गगनस्य घटसंयोगदशायां घटसंयुक्तत्वविशिष्टाकाश इत्युच्यते । मुद्गरादिना घटनाशाद्धटसंयोगनाशे च शुद्धाकाश इति कथ्यते । एवं सति गगनस्य या शुद्धता घटनाशे प्रादुर्भूता, तस्याः कृतकत्वमननं कथं समीचीनं स्यात् ? सा तु मुद्गरप्रहारेण न जन्या किल ? तन्नाम शुद्धया व्यक्तेविशेषणसत्त्वे वैशिष्टयभाक्त्वेऽपि न शुद्धता व्याहन्यते । अन्यथा विशेषणाननुसन्धानदशायां वैशिष्ट्यस्याऽबोधात् शुद्धव्यक्तेश्चाऽसत्त्वादनवबोध एव विलसेत् । न च तथाऽनुभूयते इति वैशिष्ट्यं सादि स्यादनादि वा, शुद्धता त्वनादिरेव भवेदिति । अथ चाऽऽत्मनः शुद्धावस्थैव मुक्तिः । शुद्धतेयं कर्मसंयोगवैशिष्ट्यकालेऽप्यासीदेव । यदा च तपोध्यानादिना तद् वैशिष्ट्यं नष्टं तदा पूर्वतो विद्यमाना शुद्धतैवाऽवशिष्टा । तथाचेदानीं स मुक्त इति व्यवहारः, वैशिष्ट्यराहित्यकालीनशुद्धावस्थावदात्मन एव लोके मुक्तत्वाङ्गीकारात् । न च तावता शुद्धतेयं कृतकेति वक्तुं पार्यते इति कृतकत्वाभावाद् यत् कृतकं तदनित्यमिति व्याप्तेः सिद्धत्वेऽपि न दोषः । २. पर्यायाणां यत् क्षणस्थायित्वमुक्तं तद् येषां पर्याय विशेषाणामवान्तरपर्याया न सम्भवन्ति, तानपेक्ष्यैव, न पुनरवान्तरपर्यायसन्तानाधारपर्यायाणामपि क्षणस्थायित्वमभिमतम् । तथाहि- घटो नाम मृदः पर्यायविशेष एव । तथाऽपि घटः क्षणस्थायीति न कथ्यते- अनुभवापलापापत्तेः । एवं सत्यपि यत् प्रतिसमयमुत्पादविनाशयुक्तत्वं घटस्य प्रतिपादितं, तत् प्रथमसमयघट-द्वितीयसमयघटादि-घटपर्यायावान्तरपर्यायविशेषापेक्षयैवेति पर्यायाणामक्षणभङ्गरत्वेऽपि दोषानावहत्वात् सिद्धत्वपर्यायोऽप्यनन्तकालस्थायी सम्भवेदेव । ३. प्रथमसमयसिद्ध-द्वितीयसमयसिद्धाद्यवान्तरपर्यायापेक्षया यद्यपि सिद्धावस्थायाः क्षणभङ्गरत्वमस्त्येव, तथापि सिद्धावस्थाया आनन्त्यस्वीकारेऽप्यात्मनः सिद्धावस्थारूप एक एव पर्यायस्तु नाऽस्ति, येन तत्पर्यायानाशे आत्मनः सर्वथा ध्रौव्यमेवाऽऽपतेत् । अर्थाद् ज्ञान-दर्शन-चारित्राद्यनन्तानन्त-पर्यायाणामाधारीभूतमात्मद्रव्यम् । तत्र ज्ञानपर्यायो गृह्यते चेत्तत् प्रतिसमयं विषयाणां परावृत्तेः परिवर्तते । द्रव्यपर्याययोश्च कथञ्चिदभिन्नत्वमेव स्वीकृतं स्याद्वादे इति ज्ञानपर्यायगतोत्पाद-विनाशयोर्द्रव्यस्थत्वविवक्षायामात्मन उत्पादव्ययध्रौव्ययुक्तत्वात्मकं सत्त्वं युक्तियुक्तमेव । ४. सर्वथा मोहापगमे एव सिद्धत्वमन्यथा मोहसत्त्वेऽपि सिद्धत्वाङ्गीकारे संसारिसिद्धयोरविशेष एव स्यात् । ततश्च मोहविकारात्मिकाया इच्छायाः कथं मुक्तौ सम्भवः ?१७ सर्वे जीवाः स्वकृतं कर्मैव वेदयन्तीति, भवितव्यतानुरूपं च सर्वं प्रचलतीति यो ज्ञानचक्षुषा पश्यति तस्य कथं सामीचीन्यसम्पादनार्थं संसारावतरणेच्छा ? कथं वा सर्वातिशायिकरुणालोनिग्रहाकाक्षा ? किञ्च, सिद्धस्य भवोपग्राहि कर्म क्षीणमक्षीणं वा? अक्षीणं चेत् कथं स मुक्तः? क्षीणं चेत् कथं भवोपग्रहः? कारणस्य विनष्टत्वादिति ।
ननु सिद्धावस्थायाः सादित्वे तादृशेन पुरुषेण भवितव्यं यः प्रथमतया सिद्धः । तत् कः स इति चेत् ? शृणु, सिद्धत्वस्य पुरुषापेक्षया सादित्वेऽपि प्रवाहतोऽनादित्वमेव । नित्यं सूर्योदयेन साकं
Page #62
--------------------------------------------------------------------------
________________
चतुर्विंशतिहोरात्मको दिवसरूपः कालविशेष आरभ्यते । एवं दिवसः सादिः । तथाऽपि यथा न वक्तुं शक्यते यत् प्रथमो दिवसः कस्तथाऽत्राऽपि बोद्धव्यम् ।
मुक्तावात्मस्वरूपमनन्तज्ञानसुखादिमयम् । क्षायिकाः (=कर्मक्षयजन्या) एव भावा अत्राऽवशिष्टा भवन्ति । न पुनः क्षायोपशमिकाः (कर्मणामेकस्यांऽशस्य क्षयेन तदितरांशस्य चोपहतशक्तीकरणेन जन्याः)
औपशमिकाः (कर्मणां सर्वांशेनोपहतशक्तीकरणेन जन्याः) औदयिकाः (कर्मोदयजन्याः) वा । पारिणामिकास्तु (सहजाः) भव्यत्वं विहाय जीवत्वा-ऽनाद्यनन्तत्वा-ऽरूपित्व-गुणाधारत्वा-ऽसङ्ख्यप्रदेशवत्त्वादयस्तथावस्था एव । भव्यत्वमर्थात् सिद्धिगमनयोग्यत्वं पुनः स्वफलं दत्त्वा विनिवर्तते । तथाऽपि सिद्धिगमनायोग्यताऽपि न, येनाऽभव्या इत्युच्येरनतः सिद्धा 'नो भव्या नो अभव्या' इति शास्त्रे उच्यते । एवंरीत्यैव चारित्रस्याऽर्थः 'चारात् = कारागृहसदृशसंसारात् त्रायते' इति तत्सदृशो वा कश्चित् क्रियते तर्हि तदपेक्षया 'नो चारित्री नो अचारित्री' इत्युच्यते । अत्र मुक्तौ ज्ञानं नाऽस्तीति ज्ञानस्येन्द्रियादिसापेक्षत्व-प्रकृतिजन्यत्वाद्यङ्गीकुर्वतां नैयायिकादीनां कथनं सुखवदेव सङ्गमनीयम् । आत्मनो ज्ञानराहित्ये आत्मा पाषाणकल्प एव भवेद् - ज्ञानस्यैव जडचेतनभेदकत्वादिति न विस्मर्त्तव्यमत्र ।
यद्यपि मोक्षमिमं विशुद्धतमात्मिकपरिणत्या प्रबलपुरुषार्थेन च सर्वे जीवा अधिगन्तुं शक्तास्तथापि तदर्थं कानिचित् सहकारिकारणान्यावश्यकानि । तानि मुख्यत इमानि - मनुष्यगतिः, मोक्षगतियोग्यः कालः, श्रेष्ठतमं शारीरमानसबलं, तीव्रनिकाचितकर्माभावश्च । वस्त्रधारणे स्त्रीदेहे वा सति मोक्षोऽसम्भव्येवेति कदाग्रहग्रहिला दिगम्बरजैना अत्र नग्नत्वं पुल्लिङ्गत्वं चाऽपि निवेशयन्ति । कस्मिंश्चिदपि वेषभूषादौ रागद्वेषविलयतो मोक्षसम्भावनां स्वीकुर्वद्भिः, स्त्रीणां मोक्षविषये पुरुषतुल्यसामर्थ्य चोररीकुर्वद्भिः श्वेताम्बरजैनैस्तन्मतं विस्तरतः खण्डितमेवेति नेह प्रतन्यते ।१८
मोक्षस्याऽस्य प्ररूपणा पूर्वावस्थापेक्षया तीर्थसिद्धादिपञ्चदशभेदत इदानीन्तनावस्थापेक्षया क्षेत्राद्यनुयोगत उभयावस्थापेक्षया च चतुर्दशमार्गणातः क्रियते ।१९ परं तदवगमार्थं जैनपारिभाषिकशब्दानां जैनशास्त्रीयपदार्थानां च विशदज्ञानस्याऽपेक्षा भवतीति नेह प्रदर्श्यते ।
वस्तुतो मुक्तिरियमतीन्द्रिया वचनातीता तर्काग्राह्या मनोऽग्राह्या चेत्यत्र सर्वेषां दार्शनिकानां सम्मतिः । यतः संसारस्थानामस्माकं बुद्धिवचनव्यवहारविकल्पादि सर्वमपि संसारपरिधावेव सीमितं, ततः तद्बहिर्भूता मुक्तिस्तदगोचरैव स्याद् । अत एवोपनिषत्सु मोक्षस्य विशुद्धसत्त्वग्राह्यत्वमेव प्रतिपादितम् ।२० बौद्धदर्शनेऽपि लौकिकदृष्टिपुरुषस्य मोक्षज्ञानेऽसामर्थ्य प्रतिपादयित्वा तस्य विशुद्धमनोविज्ञानविषयत्वमेव कथितम् ।२१ जैनमतेऽपि तस्याऽनिर्वचनीयत्वं स्पष्टतः स्थिरीकृतमस्ति । तदुक्तमाचाराने मोक्षनिरूपणप्रसङ्गे - "सव्वे सरा नियटुंति" (सूत्र १७०) । एतट्टीका- 'न तत्र शब्दानां प्रवृत्तिः, न च सा काचिदवस्थाऽस्ति या शब्दैरभिधीयेत । तथाहि- शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवर्तेरन्, न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति" इति । तत्रैव मोक्षस्य तर्कातीतत्वं विकल्पातीतत्वं चाऽपि प्रतिपादितम् । अत एव सिद्धस्यैकत्रिंशदगुणाधारकत्ववर्णने
५२
Page #63
--------------------------------------------------------------------------
________________
सर्वेऽपि गुणा निषेधात्मका एव प्रदर्शिताः । संस्थानपञ्चक-वर्णपञ्चक-रसपञ्चक-स्पर्शाष्टक-गन्धद्वय-वेदत्रिकदेह-भव-परसङ्गात्मकैकत्रिंशद्वस्तूनामभाव एव सिद्धस्य गुणाः । इदृश्येव 'नेति नेत्या'त्मिका निरूपणरीतिरुपनिषत्स्वपि।
___ संसारातीततत्त्वस्याऽस्याऽवर्णनीयत्वेऽपि ध्येयरूपेण सर्वस्वीकृतत्वात् तद् वर्णयितुं सर्वैरपि दार्शनिकैः प्रयत्नो विहित एव । तत्र यद्यपि तत्त्वव्यवस्था-परिभाषा-ज्ञानमात्रादिभेदतो वर्णनभेदा प्रजाता एव; तथापि तत्त्वत एकमेव निर्वाणमिति२२ सर्वेऽपि मतभेदा जैनमतेन प्रायः सङ्गमनार्हा एव ।
___ तथाहि- नवानामात्मगुणानामात्यन्तिकोच्छेद एव मोक्ष इति नैयायिका यदूचुस्तद् वैभाविक(=शरीरेन्द्रियादि-विभावदशाजन्य)गुणानपेक्ष्यैव । मुक्तौ स्वाभाविकान् (=आत्ममात्रापेक्षान्) एव ज्ञानसुखादिगुणान् यदा जैनाः प्रतिपादयन्ति, तदा मोक्षे वैभाविकगुणोच्छेदः स्यादेवेत्यत्र तेषामपि सम्मतिरिति कथं नैयायिकजैनमतयोविभिन्नता ? किञ्च, ईश्वरात्मनि नित्यज्ञानसुखादिसत्त्वं नैयायिकैरप्यङ्गीकृतं खलु ?२३ एवं परमार्थतश्चिन्तयामश्चेद् मुक्तात्मनि नित्यज्ञानसुखादिसत्त्वं वदतां जनानां पङ्क्तावेव तेषामुपवेशनम् ।
चित्तसन्ततिनिरोधो मोक्ष इति बौद्धमतमपि परमार्थतः सवासनचित्तवृत्तिनाशे तन्नाम तृष्णाक्षये एव पर्यवस्यति । बौद्धशास्त्रेषु बहुत्र निर्वाणस्य ध्रुवत्वेन शुभत्वेन सुखमयत्वेन च वर्णितत्वात्२४, सर्वथाऽऽत्माभावत्वे तस्याऽसम्भवात् । अथ च सवासनचित्तसन्ततिनिरोध इति बौद्धमतस्य वासनापरनामकरागद्वेषपरिणतिक्षय एव मोक्ष इति जैनमतस्य च को भेदः परिभाषाभेदादृते?
प्रकृतिवियोगे शुद्धचैतन्यावस्थानमेव मुक्तिरिति साङ्ख्यमतं कर्मप्रकृतिवियोगे आत्मनः शुद्धस्वरूपाविर्भाव एव मुक्तिरिति जैनमतस्य समानाभिप्रायकमेव । प्रकृतिगुणात्मकानन्दसत्त्वं तत्र साङ्ख्यैर्न स्वीकृतमित्यपि न जैनमतं व्यभिचरति - पुण्यप्रकृतिविपाकरूपसुखस्य मुक्तौ जैनैरप्यनङ्गीकारात् । शुद्धचैतन्यस्य केवलं निर्मलचिच्छक्तिमत्त्वं न पुनरानन्दवत्त्वमिति साङ्ख्यमतमपि जैनैः कथञ्चिदभ्युपगमार्हमेव - व्याबाधारहितस्य निर्मलचिच्छक्तिमत्त्वे एवाऽपेक्षाविशेषेणाऽऽनन्दस्य समावेशनीयत्वमिति जैनशास्त्रेषु प्रतिपादितत्वात् ।२५
एवं वेदान्तादिदर्शनस्थमुक्तिनिरूपणमपि जैननिरूपणेन सङ्गमयितुं शक्यमेव । जैनविचारणायाः सर्वाङ्गीणत्वमेवाऽत्र कारणीभूतमिति निश्चप्रचम् ।
वस्तुतो जैनदर्शनस्थमुक्तिविचारोऽतिविस्तृतो मादृशेनाऽनिपुणमतिनाऽगम्यश्च । तथापि तत्त्वार्थाधिगमसूत्रस्य दशमोऽध्यायः-सभाष्यः(-श्रीउमास्वातिवाचकः), पञ्चसूत्रस्थ-पव्वज्जाफलसुत्तं (-श्रीहरिभद्रसूरिः), न्यायालोकस्थ-मुक्तिवाद:(-उपा.श्रीयशोविजयः), विशेषावश्यकस्थ-षष्ठैकादशगणधरवक्तव्यते (-श्रीजिनभद्रगणिः) -इत्येतान् ग्रन्थानाधारीकृत्य लिखितुं प्रयत्नो विहितः । टिप्पण्यां यस्य स्थाननिर्देशो न विहितः, स सर्वोऽपि विषय प्राय एतेभ्य एव मूलेभ्यः सङ्गृहीतः । इतोऽप्यत्र बहु बहु वक्तव्यमवशिष्यते, तत्पुनरेतेभ्यो ग्रन्थेभ्यस्तत्सदृशान्येभ्यश्चाऽवसेयमिति शम् ।
Page #64
--------------------------------------------------------------------------
________________
१.
२.
३.
४.
५.
टिप्पण्यः दृश्यतामेतदर्थावगमार्थं तत्त्वार्थ० १.१ भाष्य, योगशतक ३ - आतमभावहिंसनथी हिंसा, सघलां ए पापस्थान । तेह थकी विपरीत अहिंसा, तास विरहनुं ध्यान ॥
नवतत्त्व० ६०
योगशतकम् ४९ टीका
सेयंबरो य आसंबरो य, बुद्धो य अहव अन्नो वा ।
समभावभाविअप्पा, लहइ मुक्खं न संदेहो || सम्बोधप्रकरण - ३
जिन ! त्वदाज्ञामवमन्यते यः, स वातकी नाथ ! पिशाचकी वा । अन्ययोगव्यवच्छेद० २१
६.
७.
८.
९.
८.२., ८.३, ८.२६
१०. यथा हि लोके दुक्खस्स परिपक्खभूतं सुखं नाम अत्थि, एवं भवे सति तप्पटिपक्खेन विभवेनापि भवितब्बं । यथा च
सति तस्स वूपसमभूतं सीतं पि अस्थि, एवं रागादीनं अग्गीनं वूपसमेन निब्बानेनापि भवितब्बं । बुद्धस्य सुमेधब्राह्मणभवस्य
कथा ।
वीतरागस्तव :- १९.५,६
यथा - योगदृष्टि० - १००, योगबिन्दु: - १००
तत्त्वार्थ ०
३५० गाथानुं स्तवन ८.२४
११. बोधिचर्यावतार:- ९.३५, बोधिचर्या० पञ्जिका पृ. ३५०, ४१८
१२. नासतो विद्यते भावो, नाऽभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ व्यासमहर्षिः (शास्त्रवार्ता० स्तवक- १ इत्यत्रोद्धृतः
१३. नवतत्त्व०
१४. किलोऽनादिसम्भोग ? बुभुक्षादिनिवृत्तये ।
तन्निवृत्तेः फलं किं स्यात् ? स्वास्थ्यं तेषां तु तत् सदा || - प्राचीनः श्लोकः |
१५. प्रशमरतिः २३८
-
७
* १६. नाऽऽत्मनः सुखदुःखे स्त, इत्यसौ मुक्त उच्यते । न्यायमञ्जरी
१७. दग्धेन्धनः पुनरुपैति भवं प्रमर्थ्य, निर्वाणमप्यनवधारितभीरनिष्टम् ।
मुक्त स्वयं कृततनुश्च परार्धशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ सिद्धसेनद्वात्रिंशिका
१८. दृश्यतां शाकटायनाचार्यविरचितं स्त्रीमुक्ति- केवलिभुक्तिप्रकरणम् ।
१९. नवतत्त्व०
४३-५९
*
२०. कठोपनिषत् - १.३.१२, २.६.१२, मुण्डकोपनिषत् - ३.१.८
* २१. मिलिन्दपण्हो- ४.८.६६, ६७, ४.७.१५
२२. योगदृष्टि० - १२९, १३०, १३१
* २३. न्यायमञ्जरी पृष्ठ २००, २०१
* २४. विसुद्धिमग्गो - १६.६४, ६७, ७१
२५. न्यायावतार: २८
एता: टिप्पण्य: श्रीदलसुखभाइ-मालवणियामहोदयेनाऽनूदितस्य श्रीविशेषावश्यकभाष्यस्थ- गणधरवादप्रकरणस्य पुस्तकत: सङ्गृहीताः ।
५४
Page #65
--------------------------------------------------------------------------
________________
ग्रन्थपरिचयः
श्रीधनञ्जयविरचितं द्विसन्धानकाव्यम्
एच. वि. नागराजराव्
संस्कृतभाषाया एष विशेषो यदत्र नानाविधाः श्लेषरचना सम्भवति । अस्यां भाषायामेकस्यैव पदस्य नानाऽर्थाः सन्ति । अपि च सन्धिमहिम्नैकस्यैव पदपञ्जस्य द्विधा त्रिधा वाऽर्थबोधकत्वं विद्यते । एतादाश्रित्य कैश्चित् कविभिर्नानार्थकानि पद्यानि सचमत्काराणि स्वकाव्येषु योजितानि । केचन प्रतिभाशालिनः कवयः समग्रं काव्यमेव कथाद्वयबोधकं रचयित्वा कीर्तिशालिनो बभूवुः । तादृशेषु प्रथमगणनामर्हति धनञ्जयाख्यः कविः । तेन राघव-पाण्डवीयं नाम द्विसन्धानकाव्यं व्यरचि । यथा नामैव द्योतयति तथाऽस्मिन् काव्ये रामायण-महाभारतयोः कथे समानैः शब्दैनिरूपिते । अत्र अष्टादश सर्गाः सन्ति । पद्यानि प्रसिद्धेषु इन्द्रवज्रोपेन्द्रवज्रानुष्टुभादिषु छन्दस्सु निबद्धानि । अपि च काव्यमिदं धनञ्जयाङ्कम् । सर्वेषु सर्गेषु धनञ्जयशब्दोऽन्तिम पद्ये कविना योजित इति यावत् । तत्रापि क्वचिच्चमत्कारो योजितः कविना । यथा प्रथमे सर्गे
को वा कविः पुरमिमां परमार्थवृत्त्या
शक्नोति वर्णयितुमत्र विनिर्णयेन । नित्यं विधिः सततसंनिहितो विभूति
मन्यादृशं सृजति यत्र धनञ्जयाय ।। अत्र प्रथमतो रामायणपरेऽर्थे - यत्राऽनवरतनिकटवर्ती विधिश्चतुर्मुखो विभूति सम्पदम्, अन्यादृशं धनं जयाय रामाय सृजति, तामिमां पुरं विनिर्णयेन परमार्थेन वर्णयितुमत्र लोके कः शक्नोति इति । भारतपक्षे अन्यत्सम, धनञ्जयायेत्यस्य अर्जुनायेत्यर्थः । पुनश्च यत्र काव्ये विधिरन्यादृशं विभूति कवनप्रतिभां धनञ्जयाय कवये सृजति तां पुरं ब्रह्मपुरी को वा कविः परमार्थेन वर्णयितुं शक्नोति ? इत्यर्थः ।
पञ्चमे सर्गे यथात्वामभ्युपैतु पुनरभ्युदयाय दीप्ति
रौत्सुक्यमागतवतीव रवि दिनादौ । ध्वान्तं विसर्पति तवाऽनुदयान्नय त्वं
कालेऽभिवृद्धिमभिमानधनं जयं च ।।
Page #66
--------------------------------------------------------------------------
________________
सप्तदशे सर्गे यथालक्ष्मी खलामुभयभागितया विलोलां
स्वीकर्तुमेष गणिकामिव जागरूकः । संनह्य मुञ्च शयनं प्रधनं जयेति
___ स्तुत्यैः परं हरिरबोध्यत सूतपुत्रैः ।। अत्र प्रधनं युद्धं जयेति कथनेन धनञ्जयशब्दः कविना निवेशित इति चमत्कारः ।
एवं सर्वेषु सर्गेषु अन्तिमपद्ये कविना स्वनाम निर्दिष्टम् । अन्तिमसर्गस्याऽन्तिमे पद्ये स्वविचारश्च श्लेषभङ्गया न्यवेशि । यथानीत्या यो गुरुणा दिशो दशरथेनोपात्तवान्नन्दनः
श्रीदेव्या वसदेवतः प्रति जगन्यायस्य मार्गे स्थितः । तस्य स्थायिधनञ्जयस्य कृतितः प्रादुष्षदुच्चैर्यशो
गाम्भीर्यादिगुणापनोदविधिनेवाम्भोनिधील्लङ्गते ।। अत्र रामायणपक्षे महाभारतपक्षे तथा ग्रन्थकर्तृपक्षे चेति त्रयोऽर्था वर्ण्यन्ते व्याख्याकारैः । तदनुसारेण
ता च श्रीदेवी । गुरुश्च दशरथः।
ग्रन्थकर्तुः कालः
यद्यपि ग्रन्थकर्ता स्वकालविषये किमपि न कथयति, तथाऽपि स प्राचीनः, प्रायोऽयं क्रैस्तवे नवमशतके भूमिमलङ्करोति स्मेति ऊहन्ते विपश्चितः । राजा भोजः शृङ्गारप्रकाशे वदति
"तृतीयस्य यथा दण्डिनो धनञ्जयस्य वा द्विसन्धानप्रबन्धौ रामायणमहाभारतार्थावनुबध्नाति" इति । राजा भोजः क्रैस्तव एकादशशतमाने मालवराज्यं शशासेति प्रसिद्धम् ।
जल्हणकृतायां सूक्तिमुक्तावल्यां पद्यमेकं धनञ्जयनामोल्लेखं करोति ।
द्विसन्धाने निपुणतां स तां चक्रे धनञ्जयः ।
यया जातं फलं तस्य सतां चक्रे धनं जयः ।। इति । एतत्पद्यं राजशेखरस्येति जल्हणो वदति । राजशेखरस्य कालो दशमं क्रैस्तव-शतमानम् । धनञ्जयः स्वयम् अकलङ्कदेवं पूज्यपादं च स्मरति स्वीयायां नाममालायाम् । प्रमाणमकलङ्कस्य पूज्यपादस्य लक्षणम् ।
द्विसन्धानकवेः काव्यं रत्नत्रयमुदाहृतम् ।। कवेर्धनञ्जयस्येयं सत्कवीनां शिरोमणेः ।
प्रमाणं नाममालेति श्लोकानां च शतद्वयम् ।।
Page #67
--------------------------------------------------------------------------
________________
इति ।
द्विसन्धानकाव्यमेकं दण्डिना रचितमासीदिति ज्ञायते । किन्तु तन्नोपलभ्यते । अत उपलभ्यमानेषु द्विसन्धानकाव्येषु धनञ्जयकृतं राघवपाण्डवीयमेव प्राचीनतममिति निःशङ्क वक्तुं शक्यते । ग्रन्थकर्तुर्देशः मतं च ।
दक्षिणभारते प्रसिद्धः कर्णाटदेशो धनञ्जयेन जन्मना पवित्रीकृतः । नवमे शतके राष्ट्रकूटवंशीया राजानो देशमिमं शशासुः ये जैनधर्ममनुययुः । धनञ्जयो जैनपुराणानुसारेणैव रामायणकथां निबद्धवान् । द्विसन्धानकाव्ये प्रथमं पद्यमेव तस्य धर्मं निर्दिशति
श्रियं जगदोधविधौ विहायसि
व्यदीपि नक्षत्रमिवैकमुद्गतम् । स यस्य वस्तीर्थरथस्य सुव्रतः
प्रवर्तको नेमिरनश्वरी क्रियात् ।। नेमिभविंशस्तीर्थकरः । सव्रतो नाम विंशस्तीर्थकरः । द्वितीयपद्ये च जैनप्रसिद्धं श्रुतस्कन्धाख्यं ग्रन्थं स्मरति धनञ्जयः ।
सतीं श्रुतस्कन्धवने विहारिणीम्
अनेकशाखागहने सरस्वतीम् । गुरूप्रवाहेण जडानुकम्पिना
स्तुवेऽभिनन्द्ये वनदेवतामिव ॥ इति । एवं कथाप्रारम्भेऽपि गणाग्रणीरिति प्रसिद्ध गौतमगणधरं चतुर्विशतीर्थकरं महावीरं च स्मरति ।
अथाऽपरागोऽप्यपरागतां गतः
स पश्चिमोऽपि प्रथमो विपश्चिताम् । अनुज्ञया वीरजिनस्य गौतमो
गणाग्रणीः श्रेणिकमित्यवोचत ।। इति । अतः कवेर्धर्मस्य विषये नैव विवादः । कर्णाटदेशे लब्धजन्मना तेन सन्धानकाव्यपरम्पराऽऽरब्धेति निश्चप्रचं वदन्ति विपश्चिदपश्चिमाः । श्लेषालङ्कारस्य पूर्वं प्रसिद्धत्वेऽपि तस्य समस्ते पद्यकाव्ये कथाद्वयनिरूपणायोपयोग इति विशेषः खल्वयम् ।। धनञ्जयस्य कृतयः
राघवपाण्डवीयं (द्विसन्धानकाव्यम्), नाममाला, अनेकार्थनाममाला, विषापहारस्तोत्रम्इति चतस्रः कृतयो धनञ्जयविरचिताः । तस्य लोके कीर्तिस्तु द्विसन्धानकाव्यावलम्बिन्येव । एवमुच्यते
Page #68
--------------------------------------------------------------------------
________________
जाते जगति वाल्मीको कविरित्यभिधाऽभवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ।। कवयः कवयश्चेति बहुत्वं दूरमागतम् ।
विनिवृत्तं चिरादेतत् कलौ जाते धनञ्जये । इति । द्विसन्धानं कथं साध्यते ?
द्वादशे शतके जातः कविराजोऽपि द्विसन्धानकाव्यं रचितवान् । तेन सन्धानकाव्यानां रचनाया उपाया इत्थं वर्णिताः । प्रायः प्रकरणैक्येन विशेषणविशेष्ययोः ।
परिवृत्त्या क्वचित्तद्वदुपमानोपमेययोः ।। क्वचित् पदैश्च नानाथैः क्वचिद् वक्रोक्तिभङ्गिभिः ।
विधास्यते मया काव्यं श्रीरामायण-भारतम् ।। इति ।
धनञ्जयस्य द्विसन्धानकाव्येऽपि एते उपाया आश्रिताः । प्रथमे सर्गे नगरवर्णनमस्ति । रामायणकथानुसारेण अयोध्या, महाभारतानुसारेण हस्तिनावती समानैः पद्यैर्वर्ण्यते । द्वितीयसर्गे राजगुणवर्णनं दृश्यते । दशरथस्य पाण्डोर्वा वर्णनं तद् भवति । वस्तुतस्तु तानि पद्यानि यस्य कस्याऽपि राज्ञो वर्णनायामुपयोक्तुं शक्यन्ते । न तत्र श्लेषक्लेशः । उदाहरणम्न संममे दिशि दिशि निर्मलं यशो
न पौरुषं रिपुषु वदान्यताऽर्थिषु । जगत्सु धी वि न चमूर्जनाशिषि
श्रिया सह स्थितिरपि यस्य नाऽऽयुषः ।। एवं विशेष्यविशेषणपरिवृत्तिरपि धनञ्जयकृतौ बहुत्र दृश्यत एव । एकमुदाहरणम्पूर्वं परं ज्योतिरुपार्च्य दैवं
स्थेयान् प्रकृत्या विशदो गरीयान् । मनोऽभिरामोऽयमजातशत्रु
रित्यर्थयुक्तं जुहुवे नृपेण ।। (३.१०) अत्र रामायणपक्षे राम इति विशेष्यम्, अजातशत्रुरिति विशेषणम् । भारतपक्षे तु मनोभिराम इति विशेषणम्, अजातशत्रुरिति विशेष्यम् । ततः सुमित्रोदयहेतुभूता
मायुन्नति प्राप्तमसूत सूनुम् ।
Page #69
--------------------------------------------------------------------------
________________
योऽपप्रथत् सन्नकुलोदितारिः
श्रीलक्ष्मणाख्यां सहदेवचर्यः ।। (३.२९) इत्यत्र श्लेषः । रामायणपक्षे
ततो रामोत्पत्त्यनन्तरं, सुमित्रा उदयहेतुभूतामझुन्नतिं पर्वतस्योन्नतत्वं प्राप्तं सूनुं सुत-मसूत । सन्ना हताः, कुले उदिता अरयो येन सः । देवचर्यया सह वर्तत इति सहदेवचर्यः । श्रीलक्ष्मणाख्यां लक्ष्मण-इति सञ्जां प्रकटयति स्म - इत्यर्थः । महाभारतपक्षे- ततः युधिष्ठिर-भीमार्जुनोत्पत्त्यनन्तरं सुमित्रोदयहेतुभूता उत्तमसुहृदां प्राप्तेः कारणीभूता, माद्री उन्नति प्राप्तं सूनुम् असूत । यः सहदेवचर्यः सहदेवेन साकं चर्या यस्य सः, नकुलो दितारि शितशत्रुः सन् श्रीलक्ष्मणा लक्ष्मीलक्षणेन, आख्यां शोभाम्, अपप्रथत्-प्राकटयत् इत्यर्थः ।
इत्थं बहुधा श्लेषनैपुण्यं प्रकटयति धनञ्जयः । क्वचिद् व्याख्यया विनाऽर्थो दुरधिगमो भवति । व्याख्याकारो यदा पदच्छेदं दर्शयति तदा सर्वं सुगमं भवति । उदाहरणम्श्रिया विलोलो भरतो न जातः
सुतो विनीतः सकलो बभूव । भज्येत राज्यं ह्यविनीतपुत्रं
घुणाहतं काष्ठमिव क्षणेन ॥ अत्र रामायण सम्बन्ध्यर्थः सुगमः । अस्यैव
श्रियाविलो लोभरतो न जातः इति पाठे पठिते भारतानुगुणोऽर्थः स्फुरति ।
एतादृशस्य कथाद्वयाभिधायिनः काव्यस्य रचना एव कष्टा, तत्राऽपि महाकाव्य-सम्प्रदायानुसारेण धनञ्जयः चित्रबन्धान् अपि अष्टादशे सर्गे योजितवान् इति नूनं श्लाघास्पदम् । तत्रत्यं पद्यमेकमुदाहरामः ।
दददेऽदोऽदरिद्रोऽरिरदिरौद्रोऽरुरादरी।
दूरादरं दरं दद्रुराः दद्रुर्दरीदरी ।। व्याख्या - अदरिद्रः पुण्यवान्, अद्रिरौद्रः पर्वतवद् भयानकः, आदरी आदरवान्, दरी भयानकोऽअरिः, अदः एतत्, अरुः व्रणं, दददे दत्तवान् । आर्द्राः स्निग्धचित्ताः, अरं शीघ्रं दरं भयं, दर्दुर्गताः । दूराद् दरी: कन्दरान्, दद्रुः गतवन्तः । इति ।
एतादृशी रचना देवभाषायामेव सम्भवति । अथवा देववाणीशब्दानुपयुञ्जानासु भारतवर्षभाषासु इति भावयामः । धन्या गैर्वाणी वाणी । धन्यस्तस्या उपासको धनञ्जयः ।
90, 9th Cross Naviluraste Kuvempunagar, Mysore-570023
Page #70
--------------------------------------------------------------------------
________________
मम हृदयस्पर्शिनी घटना
२५तमशाखाया अस्या विशेषविषयत्वेन निश्चितमिमं विषयमधिकृत्य * विविधैः साधुवर्ये-विद्वद्भिश्च अनुभूताः श्रुताः पठिता दृष्ठ वा घटना:
समालिख्य प्रेषिता: सन्ति । ता अत्र यथायथं प्रकाश्यन्ते ।।
Page #71
--------------------------------------------------------------------------
________________
अद्याऽपि नीतिमत्ता न विनष्टा मुनिधर्मकीर्तिविजयः
साम्प्रतं बहुशः श्रूयतेऽस्माभिर्यत् " प्रामाणिकता सत्यनिष्ठौदार्यं मानवता चाऽस्तङ्गतानि सन्ति । सर्वत्र शाठ्यं क्रूरताऽनीतिश्चैव प्रवर्तन्ते । श्रेष्ठी वा धनिको वा निर्धनो वा सत्ताधीशो वा सर्वेऽपि जना निरन्तरं मायाप्रपञ्चादिकं कर्तुमेवोद्यताः सन्तीति" । किन्त्वेषा वार्ता न पूर्णसत्यमाबिभर्ति । यतोऽद्याऽपि मानवतायाः सात्त्विकताया नीतिमत्तायाश्चाऽनुभवा भवन्त्येव ।
नीतिमत्तादिगुणान् यः कोऽपि प्राप्तुं शक्तोऽस्ति । न च कस्यचिदपि धनिकस्य शिक्षितस्य शिष्टजनस्य च स्वाधीनास्ते गुणाः सन्ति । अद्य यो धनिकः श्रेष्ठी सत्ताधीशश्चाऽस्ति स नीतिमान् सदाचारी सद्गुणी शिष्टश्च स्यात्-इति मन्यन्ते, किन्तु नैतदुचितम् । यतो धनं पुण्येन प्राप्यते किन्तु गुणास्तु पुरुषार्थेनैव प्राप्यन्ते । पुण्यप्रभावेन गृहे धनराशिर्विद्येत किन्तु चित्ते यदि दुर्गुणादिकं स्यात् तर्हि किं धनेन ? ग्रामीणेषु निर्धनेष्वशिक्षितेष्वशिष्टेषु च जनेषु ये नीतिमत्तादिगुणा दृश्यन्ते ते तु शिक्षितेषु शिष्टेषु च जनेष्वपि न दृश्यन्ते । गृहे धनं न स्यात्, देहस्य कृते आवश्यकं वस्त्रमपि न स्यात्, बाह्यदृष्ट्या यो दरिद्रो दृश्यते, न चोच्चशिक्षणमपि प्राप्तं येन तस्याऽशिष्टजनस्य निर्धनजनस्य च जीवने प्रतिपदं नीति-मानवतादिगुणानां दर्शनं भवति, हृदये निष्कपटता निष्पापता च वर्तते । एतादृशान् जनान् निरीक्ष्य चित्ते प्रसन्नताऽऽनन्दानुभूतिश्च भवति । मया यदनुभूतं पठितं च तल्लिखामि ।
( १ )
वर्षत्रयपूर्वं वयं सर्वेऽपि कर्णावतीनगरे स्थिता आस्म । नगरमध्ये विविधानि प्राचीनानि मनोरमजिनमन्दिराणि विराजन्ते । तेषां जिनचैत्यानां यात्रार्थमेकेन श्रावकेण सह वयं प्रतिदिनं गच्छन्त आस्म ।
एकदा प्रात:काले वयं रतनपोलमध्यत आगच्छन्त आस्म । तदैकेन भिक्षुकेण - " श्रेष्ठिन् ! चाय्पानं करणीयमस्ति ततो रूप्यकद्वयं ददातु " इति याचितम् । तेन श्रेष्ठिना झटिति पञ्च रूप्यकाणि दत्तानि । न स्वीकृतानि तेन भिक्षुकेण ।
६१
Page #72
--------------------------------------------------------------------------
________________
कथं न स्वीकरोषि ? इति पृष्टं श्रेष्ठिना ।
भिक्षुकेणोक्तं - श्रेष्ठिन् ! चायार्धमेवाऽऽवश्यकम् । तदर्थं रूप्यकद्वयमेवाऽऽवश्यकमस्ति । श्रेष्ठी आह- अवशिष्टानि त्रीणि रूप्यकाणि रक्षणीयानि । श्व उपयोगीनि भविष्यन्ति । भिक्षुकेण कथितं श्रेष्ठिन् ! भवादृशा उदारहृदयाः प्रतिदिनं ददन्ति । आवश्यकं धनं प्राप्तम्, अतोऽधिकधनेनाऽलम् ! धनस्य सङ्ग्रहो न करणीयः ।
एतच्छ्रुत्वा मनः प्रसन्नं जातम् ।
=
(२)
कस्मिंश्चिद् ग्रामे एकः समाजसेवकः प्रतिगृहं गुडं ददन्नेकस्य कुटीरस्य समीपं गतवान् । तेनोटजस्य द्वारस्याऽर्गलोद्घाटिता तदैका बालिका बहिरागता । यदा सेवकेन तस्यै गुडो दत्तः तदा तया बालिकयोक्तम्स्वामिन् ! एतं गुडं न स्वीकरिष्याम्यहम् ।
किमर्थमित्युक्तवान् समाजसेवकः ।
अहं परिश्रमेण यल्लभ्यते तदेव स्वीकरोमि ।
केन शिक्षितमेवम् ? जनन्या मे ।
कुत्राऽस्ति सा ?
बालिका कुटीराद् मातरमाहूतवती ।
समाजसेवकेन जननी पृष्टा देवि ! परिश्रमं विना प्राप्तं न किमपि ग्रहीतव्यमिति त्वयाऽस्यै
शिक्षितम् ?
सत्यं किल !
त्वया धर्मशास्त्राणि पठित्वा प्रवचनानि श्रुत्वा वैतदधिगतम् ?
न, अहं त्वशिक्षिता प्रवचनान्यपि न मया श्रुतानि कदाऽपि ।
गृहे युवां द्वे एव वसत: ?
सत्यम् ।
तर्हि गृहपोषणं कथं करोति भवती ?
महोदय ! वनं गत्वा काष्ठान्यानीय विक्रीणामि । ततो यद् धनमवाप्यते तेन गृहपोषणं करोमि । अपठिता ग्राम्या स्त्र्यपि कीदृशी प्रामाणिकाऽस्ति - इति चिन्तयन् समाजसेवकोऽन्यत्र गतवान् ।
६२
Page #73
--------------------------------------------------------------------------
________________
'बंगाल'प्रदेशे कृष्णनगरनाम्नि राज्ये 'श्रीताराकान्त रोय'नाममहोदयो विशिष्टपदे नियुक्त आसीत् । स महोदयः सदा राजभवने एव वसति स्म ।
एकदा शीतकाले रात्रौ गृहं प्रति निवर्तने कार्यव्यग्रतावशाद् विलम्बो जातः । गृहमागत्य यदा स शयनखण्डे प्रविष्टवान् तदा स्वकीयस्य खट्वायामेव कर्मकरः शयितो दृष्टस्तेन । किमप्यकृत्वाऽनुक्त्वा च स महोदयो भूमौ शयितवान् ।
प्रात:काले प्राप्तशभसमाचारो राजा तस्मै महोदयाय तं शुभसमाचारं दातुं स्वयमेव तस्य महोदयस्य शयनखण्डे आगतवान् । तत्रैतद् दृश्यं दृष्ट्वा राजा चकितोऽभवत् । तेन राज्ञा सः पृष्टः- कथं भवान् भूमौ शयितवान् तथैष कर्मकरः पल्यते सुप्तः?
स उक्तवान् - राजन् ! कर्मकर आदिनं कार्यं कृत्वा परिश्रान्त आसीत् तेन एवं जातम् । तत्तस्य योग्यमेव।
सामान्यकर्मकरैः सहाऽपि तस्य सहृदयं व्यवहारं निरीक्ष्य राजाऽऽनन्दं प्राप्तवान् ।
(४) कच्छप्रदेशे 'मांडवी'नामग्रामे एकः प्रामाणिक: सत्यनिष्ठश्च व्यापारी वसति स्म । प्रामाणिकतैव तस्य जीवनस्य मुद्रालेख आसीत् ।
एकदा जामनगरतो वाणिज्यार्थं कौशेयवस्त्रभृता बहव्यो मञ्जषा आगताः । केनापि कारणेन स श्रेष्ठी तद्वस्त्रभृतपेटिका मोचयितुमावश्यकानि कागदानि न प्राप्तवान् । तथा कार्यव्यस्तत्वात् तानि वस्त्राणि मोचयितुं शुल्कग्रहणकार्यालयेऽपि गन्तुं न शक्तो जातः । ततस्तेन ता मञ्जुषा मोचयितुं मुख्यकर्मचारी प्रेषितः।
स मुख्याधिकारी कार्यालयं प्राप्तवान् । शुल्काधिकारिणे स्वागमनकारणं कथितवान् । श्रेष्ठिनः प्रामाणिकता तु सर्वत्र प्रसिद्धाऽऽसीत, ततः करग्रहणाधिकारिणा कमपि विशेषमपृष्टवैव करधनं स्वीकृत्य ता मञ्जूषाः तस्मै मुख्याधिकारिणे प्रदत्ताः ।
ता मञ्जूषा गृहीत्वा स कर्मचारी आपणमागतवान् । कियत्यो वस्त्रभृतमञ्जूषा आसन्, कियद् धनं दत्तम्- इति सर्वोऽपि वृत्तान्तः श्रेष्ठिना विज्ञातः । कररूपेण च गृहीतं धनमल्पं दत्तमस्ति, इति ज्ञातवान् श्रेष्ठी । ततः श्रेष्ठिना पृष्टः कर्मकर उक्तवान्- श्रेष्ठिन् ! कौशेयवस्त्राणामुपरि चतुर्गुणं करधनं देयं स्यात्, ततो मञ्जषायां कासवस्त्राणि सन्ति- इति मया शुल्काधिकारिणे कथितं, अतस्तेनाऽल्पं धनं कररूपेण गहीतम ।
श्रेष्ठी तत्क्षणं शुल्कग्रहणकार्यालये गतवानुक्तवाश्च- भो ! मम कर्मकरो धनलोभेनाऽसत्यमुक्तवान् । मञ्जूषायां कौशेयवस्त्राण्यासन् तथाऽपि कार्पासवस्त्राणि सन्तीति स कथितवान् । अतः कृपया मां क्षमयतु । एतस्योचितं धनं गृह्णातु । इति क्षमा याचित्वाऽधिकारिणे चतुर्गुणं धनं दत्तवान् श्रेष्ठी । श्रेष्ठिना गृहमागत्य
Page #74
--------------------------------------------------------------------------
________________
कर्मकराय कथितं- इतः परमेतादृशमप्रामाणिकं कार्यं यदि त्वं कुर्याः तर्हि मम कार्यालये त्वया न कदाऽप्यागन्तव्यम् ।
अहो ! कीदृशी प्रामाणिकता !
सकुटुम्ब एको जैन श्रेष्ठी कार्यानेन प्रातीजनगरतोऽन्यत्र गतवानासीत् । तीव्रगत्या गच्छतः कार्यानादेकः स्यूतो मार्गे पतितः, किन्तु रात्रौ अन्धकारवशान्न केनाऽपि ज्ञातम् ।
प्रात:काले धनचिन्तयोद्विग्नेन निर्धनेनैकेन कृषीवलेन स स्यूतो दृष्टः । तेन स्यूतो गृहीत्वोद्घाटितः । तत्र पञ्चविंशतिः सहस्रं रूप्यकाणि, आवश्यकानि कागदानि, प्रभुसेवार्थं च पूजावस्त्रमासन् । बहुरूप्यकाणि निरीक्ष्याऽतीवाऽऽनन्दं प्राप्तवान् स कृषीवलः । क्षणमेकं लोभेन मनो लालायितं जातं, किन्तु तत्र स्थितं पूजावस्त्रं दृष्ट्वा तत्क्षणमेव मनसि शुभविकल्पो जातो यद्-एतत् सर्वमपि धार्मिकजनस्याऽस्ति, ततोऽस्य ग्रहणमुचितं नाऽस्ति । एवं विचिन्त्य तत्क्षणमेवाऽऽरक्षकस्थाने गत्वाऽधिकारिणे सर्वमपि वृत्तान्तमुक्त्वा स च स्यूतस्तत्रैव तेन प्रदत्तः ।
इतः स्वगृहं गत्वा यदा कारयानात् स्यूतः पतित इति ज्ञातं तदा श्रेष्ठिनो मनसि प्रबलोद्विग्नता प्रसृता । तं स्यूतमन्वेष्टुं बहवः प्रयत्नाः कृतास्तेन श्रेष्ठिना, किन्तु न सफलीभूताः । अन्ते तेन समाचारपत्रिकासु"प्रातीजमार्गे एकः स्यूतः पतितोऽस्ति, तस्मिन्नावश्यकानि कागदानि सन्ति । यः प्रत्यर्पयिष्यति तस्मै उचितः पुरस्कारो दास्यते"- इति समाचारः प्रकटीकृतः ।
पत्रिकासु समाचारं पठित्वाऽऽरक्षकेण श्रेष्ठी कृषीवलश्चाऽऽहूतौ । उचितप्रश्नादिद्वारेण श्रेष्ठिन एवैष स्यूतोऽस्तीति विनिश्चित्य स स्यूतः श्रेष्ठिने दत्तः । अतीव प्रसन्नो जातः स श्रेष्ठी ।
कृषीवलमभिनन्द्य श्रेष्ठिना पृष्टं - महोदय ! भवतैष स्यूतः कुतः प्राप्तः ?
कृषीवल आह - प्रातःकाले कार्यार्थं गतवता मया मार्गे पतित एष स्यूतो दृष्टः । स्यूत उद्घाटितः । बहूनि रूप्यकाणि दृष्ट्वा क्षणं तु चित्ते लोभो जागृतः, किन्तु द्वितीयक्षणे एव मया चिन्तितम् – “किमस्य ग्रहणमुचितमस्ति? अत्र मम कोऽधिकारः? अनीतेर्धनस्य ग्रहणं तु धर्मोऽस्ति वाऽधर्मः? एवमन्यसत्कधनस्य ग्रहणे किं सन्तोषोऽनुभूयते मया? अनीतेर्यत्किमपि ग्रहणे किं मम, मम कुटुम्बस्य च लघुता न स्यात् ?" इति विचिन्त्य स स्यूतो मयाऽऽरक्षकस्थानेऽर्पितः ।
एतच्छ्रुत्वा श्रेष्ठी आरक्षकाधिकारी चाऽतीव प्रसन्नौ जातौ । प्रसन्नचित्तेन तेन श्रेष्ठिना तस्मै कृषीवलाय पञ्चशतं रूप्यकाणि दत्तानि यदा तदा तान्यगृह्णन् कृषीवल आह- किं स्वकीयधर्मस्य पालने पुरस्कारग्रहणमुचितमस्ति ? श्रेष्ठिन् ! मया यत् कृतं तत् सत्कार्यं कृतं, नीतेः सदाचारस्य च पालनं कृतम् । अतोऽहं किमपि न स्वीकरिष्यामि ।
६४
Page #75
--------------------------------------------------------------------------
________________
प्रेम्णो विश्वासस्य च शक्तिः
मुनिकल्याणकीर्तिविजयः
तदा वयं बेङ्गलूरुनगरे चतुर्मासीयापनार्थं स्थिताः स्मः । धर्मबोधार्थं शास्त्रपठनार्थं च बहवः श्रद्धान्विता जिज्ञासायुताश्च युवका नः पार्श्वे आगच्छन्ति स्म तत्र ।
अथाऽन्यदा तरुणनामक एको युवा व्रतपालने किञ्चिज्ज्ञातुकाम आगत उपाश्रये । स्वीयप्रश्नानां समाधानं प्राप्य तेन तदापणे घटिता घटना कथिता – 'कतिचिद्दिनेभ्यः पूर्वं ममाऽऽपणे कार्यं कुर्वन् एकः कर्मकरः सहसा कुत्रचिन्नष्टः । मया बह्वन्विष्टोऽपि स नैव प्राप्तः । अथ च मया सप्ताहान्ते आय-व्ययादिगणनं कुर्वतोपलब्धं यत् पञ्चत्रिंशत् सहस्रं रूप्यकाणां न्यूनमस्ति । मया नैकशः सूक्ष्मदृष्ट्या गणनं कृतं तथाऽपि तदेव फलम् । अतो मया निश्चितं यत् स कर्मकर एव तद् धनं गृहीत्वा पलायित इति । किन्तु मया तत् कस्यचिदपि नैव कथितम् । यतो मे मनसि पूर्ण श्रद्धाऽस्ति यत् – 'यन्मदीयं तत् न कदाऽपि विनश्येत; यच्च विनश्येत, न तन्मदीयम्' इति । एवमेव मासो व्यतीतः ।
अथैकदा स एव कर्मकरः सहसा मदापणद्वारि स्थितो दृष्टो मया । मां कातरदृष्टया पश्यन् स मयैवाऽऽकारित आपणान्तः । कथितश्च - 'भोः ! कुत्र गतो भवानासीत् ? मया बह्वन्वेषणं कृतम् । अस्तु, कथय किमर्थं भवान् किञ्चिदुद्विग्न इव दृश्यसे ? किं बाधते तव ?' - एवं च मया प्रेम्णा पृष्टः सन्नेव स मे पादयोः पतित्वा मुक्तकण्ठं रोदितुं लग्नः । बहु सान्त्वयित्वा जलादिकं च पाययित्वा मया शान्तीकृतः स कथितवान् – ‘प्रभो ! भवान् नास्ति मानवः किन्तु साक्षाद्देव एव भवान् । यो भवदापणात् पञ्चत्रिंशत् सहस्रं रूप्यकाणि चोरयित्वा गतोऽस्ति तादृशोऽप्यहं भवता - न किञ्चिद् घटितमिव - इयत्प्रेम्णाऽऽकार्ये इत्थं
-
६५
Page #76
--------------------------------------------------------------------------
________________
चाऽऽश्वास्ये - इत्येतदत्यन्तमद्भुतम् । प्रभो ! प्रभो ! कृपया मां क्षाम्यतु । मयाऽकार्यं कृतम् । भवता यः कोऽपि दण्डो विधास्यते तमहं स्वीकरिष्यामि सहिष्ये च । प्रभो ! ......' इति कथयन् स पुनरपि रोदितुं लग्नः ।
पुनरपि स मयाऽऽश्वास्य कथितः - 'भोः ! भवान् मम बन्धुरेव । विंशत्यधिकवर्षेभ्यो भवान्मे पित्रा सह कार्यं करोति स्म । अतोऽस्मिन् आपणे भवतोऽप्यधिकारोऽस्त्येव । यदि भवता मे कथितं स्यात् तदाऽहमेव भवदावश्यकतानुसारं धनमदास्यम् । यदा मया ज्ञातं यद् भवतेयद् धनं गृहीतमस्ति तदा मयैतदेव
था दुःखं वा स्याद् येन भवान् धनमेतद् गृहीतवानस्ति । दुःखं तु ममैतदेवाऽत्र यद् भवता मामकथयित्वैव धनं गृहीतम् । अस्तु, विस्मरतु सर्वम् । अद्यप्रभृति भवान् अत्रैव कार्यं करिष्यति । धनप्रतिदानस्य काऽप्यावश्यकता नास्ति । तथा, यदा कदापि भवते या काऽप्यावश्यकता स्यात् भवान् मामेव कथयतु - अहमवश्यं सर्वमपि सुस्थं करिष्यामि' ।
___गुरुवर्य !' स युवाऽस्मान् कथितवान्, 'ततः प्रभृति स मे आपणे पूर्णनिष्ठया मम बान्धव इवैव कार्यं करोति । आवयोः स्नेहतन्तुः सर्वथाऽविच्छिन्नो जातोऽस्ति । स कथयति यत् – यावज्जीवमहमत्रैव कार्यं करिष्यामि, भवता न काऽपि चिन्ता कार्येति । अतोऽहं पूर्णतया निश्चिन्तोऽस्मि ।
एतच्छ्रुत्वा वयं सर्वेऽत्यन्तं प्रमुदिता जाताः । प्रेम विश्वासश्च यादृशं तादृशमपि जनं सदाचारपथमानेतुं क्षमौ - इति तथ्यं व्यवहारे प्रयुक्तं दृष्ट्वा च हृदयं नः पुलकितं जातम् ।।
-
-
-
-
-
-
-
-
-
-
-
लेखकेषु वाचकेषु च सूचना । १. सुरुचिपूर्णं शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते
प्रकाशनार्थम्। । २. पत्रस्यैकस्मिन्नेव पार्श्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् ।
३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते।) ।
४. अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । | ५. वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे
सौकर्यं स्यात् । प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः प्रतिभावो भवतु ।
-
--
-
-
-
-
-
-
-
-
Page #77
--------------------------------------------------------------------------
________________
ऋणमुक्ति:
मुनिकल्याणकीर्तिविजयः
बेङ्गलूरुनगरे चातुर्मास्यार्थं स्थिता वयं नव्यन्यायं दर्शनानि च पठितुकामा आस्मः, अतोऽदूष्यवैदुष्यधारिणं प्राच्य - नव्यन्याय - सर्वदर्शनशास्त्रपारगामिणं समस्त भारते विश्रुतयशसं विद्वन्मतल्लजं श्रीमन्तं हरिदासभट्ट महोदयं श्रीमन्तं चाऽरैयर् रामशर्ममहोदयं नः पाठनार्थं विज्ञप्तवन्त: । बहुषु विद्याकार्येषु व्यापृताभ्यामपि ताभ्यामस्माकं विज्ञप्तिः स्वीकृता, पाठिताश्च वयमत्यन्तं स्नेहेन पञ्चषान् मासान् ।
अथ च गूर्जरदेशे एषा सर्वमान्या परिपाटी यत् साधु-साध्वीभ्यः पाठयितारो जैना अजैना वा पण्डिता मासान्ते वा पूर्वनिश्चितं धनं स्वीकुर्वन्ति । श्रावकाश्च तदर्थं सर्वामपि व्यवस्थां कुर्वन्ति । अतोऽत्राऽपि वयं तदेव चिन्तयन्तः श्रावकद्वारा पण्डितवरेण्यौ तदर्थं पृष्टवन्तः । किन्तु तदा ताभ्यां यदुत्तरं दत्तं तदद्याऽपि नः हृदये उत्कीर्णमिव स्थिरीभूतमस्ति । ताभ्यामुक्तम्
“अस्माकं गुरुवर्या अस्मान् आबाल्यात् निरपेक्षतया पूर्णनिष्ठयाऽतीव स्नेहेन च सर्वाणि शास्त्राणि यत् पाठितवन्तस्तस्य ऋणमद्याऽपि नः शिरसि विद्यते । तस्माच्च ऋणात्तदैव वयं मुक्ता भवेम यदा तयैव निष्ठया प्रीत्या च विनाऽपेक्षां वयं विद्यादानं कुर्याम । अद्याऽयमवसरः सहजतयैव प्राप्तोऽस्त्यतो भवद्भिर्धनविषयकं न किञ्चिदपि वक्तव्यम्" ।
एतच्छ्रुत्वा वयं सर्वेऽस्माकं गुरुभगवन्तः श्रावकाश्च सर्वथा गादीभूताः । नूनमीदृशा निःस्पृहा निष्किञ्चना विद्यादाननिरता ऋषितुल्याः पण्डिता अद्याऽपि जगदिदं सनाथं कुर्वन्तीति निश्चित्य चाऽऽह्लादिताः जाता: ।
६७
Page #78
--------------------------------------------------------------------------
________________
आतिथ्यम् ___ मुनिकल्याणकीर्तिविजयः ।
पञ्चषवर्षेभ्यः पूर्वं वयं कच्छप्रदेशे विहर्तुकामा गूर्जरप्रदेशान्निर्गताः सौराष्ट्रप्रदेशसीम्नि प्राप्ताः । तदा शीतर्तुः प्रवर्तमान आसीदतो वयं प्रायः पञ्चदशकिलोमीटरमितं प्रातःकाले पञ्चषकिलोमीटर्मितं च सायङ्काले चलन्तः आस्म ।
अथ चैकस्मिन् दिने यदा प्रातर्वयं प्रस्थितास्तदा निश्चितं नाऽऽसीत् - कुत्र स्थातव्यमिति । यतो ग्रामाद् वयं प्रस्थितास्तत्रत्यैर्जनैः कथितमासीद् यद् - 'मध्येमागं कस्यचिज्जैनगृहस्थस्य पेट्रोलविक्रयणकार्यालयो विद्यते । तत्र च जैनसाधूनां कृते व्यवस्था क्रियते । तदग्रे च पञ्चषकिलोमीटर्मितं यद्यधिकं गम्यते तदा होटलविशाला-नामकमुपाहारगृहमपि विद्यते । तत्रापि च सर्वा वास-भोजनादिका व्यवस्था भवति' । एतन्निशम्याऽस्माभिनिर्णीतमासीद् यत् पेट्रोल-विक्रयण-कार्यालये एव निवसितव्यम् । उपाहारगृहे वासो नोचितोऽस्माकमिति ।
पेट्रोलविक्रयण-कार्यालयं प्राप्ता वयं तत्रत्यं कर्मचारिणं वासादिव्यवस्थार्थं पृष्टवन्तः । तदा तेनाऽत्यन्तं रूक्षभाषया व्यवहृत्य सर्वथा निराकृता यद् – 'अत्र काऽपि व्यवस्था नास्ति, केन भवद्भय इदमुक्तम् ?'
६८
Page #79
--------------------------------------------------------------------------
________________
-
अतो वयं किञ्चित् खिन्ना इव ततोऽग्रे प्रस्थिताः । मार्गे गच्छतां च गुरुभिः पृष्टं - 'तर्ह्यद्य कुत्र निवत्स्यामः ?' मया विचिन्त्योक्तं – ‘तैर्ग्रामजनैरुक्तमासीद् यदग्रे होटल - विशाला विद्यते, तत्र च सर्वा व्यवस्था भवति । अतो वयमग्रे गत्वा निरीक्षामहे तावत् । यदि व्यवस्था स्यात् तदा वरम् । अन्यथा किञ्चिदधिकं चलिष्यामः' । गुरुभिः कथितं - 'भवतु । यूयमग्रे गत्वा पश्यन्तु । यद्युचितं स्यात् तदैव वसितव्यमन्यथा न' ।
ततो वयं द्वित्राः साधवोऽग्रे निर्गता: होरायां च तदुपाहारगृहं प्राप्ताः । यावद् वयमितस्ततः पश्येम तावत् तु तत्सञ्चालको धावन्निव तत्राऽऽगतो नमस्कारादि कृत्वा चाऽस्माकं स्वागतं कृतवान् । ततस्तेनैव नम्रतया कथितं – ‘यदि भवन्तोऽद्याऽत्र स्थातुमिच्छुकास्तदा सर्वाऽपि व्यवस्था विद्यत एव' । अस्माभिरुक्तं - 'किन्तु नः आचारानुकूलं....' तावता मध्ये एव तेनोक्तं- 'तस्य चिन्ता मास्तु । वयं जैनसाधूनामाचारं जानीमहे । तदनुसारं भवत्कृते उष्णं जलं प्रगुणीकर्तुं मया निर्दिष्टमेव कर्मचारिणे । तथा भोजनव्यवस्थाऽपि भवत्कृते स्वच्छभाजनेषु जैनरीत्या भविष्यति । अतो निश्चिन्तीभूयाऽद्याऽत्र निवसन्तु भवन्तः' ।
एतावता गुरुभगवन्तोऽपि समागता आसन् । तैः सह विमर्शं कृत्वा वयं तस्मै सञ्चालकाय तत्र निवासार्थमनुमतवन्त: । एतन्निशम्याऽतीव हृष्टः सोऽस्माकं कृते आसन्दानानाय्य तत्रोपवेष्टुमस्मान् विज्ञप्तवान् । ततः कर्मकरद्वारापवरकमेकं सम्मार्ज्य स्वच्छीकृत्य च तत्र निवासाय नो नीतवान् । एवं च तेनाऽऽदिनमस्माकं व्यवस्थाऽतीव सुष्ठु कृता ।
सायङ्काले तु ततो निर्गन्तव्यमासीत् । एतज्ज्ञात्वा स स्वीयभ्रात्रा सहाऽऽशीर्ग्रहीतुमागतो गुरुभगवतां पार्श्वे । तदा वार्तालापे जातेऽस्माभिर्ज्ञातं यदस्योपाहारगृहस्य स्वामिनावेतावेव । तौ च मोलेसलामज्ञातिकौ मुस्लिमधर्ममतीयौ इत्यपि ताभ्यामुक्तं कथितं चाऽऽश्चर्यचकितानस्मान् यदिदमुपाहारगृहं सर्वथा शाकाहारयुतम् । अतो भवतां नास्ति चिन्ताकारणम् ।
ततो गुरुभिः पृष्टं – ‘किन्तु मुस्लिम् - मतीयौ भवन्तौ कथमस्मादृशः साधून् परिचरेताम् ? अस्माकमाचारादि च भवद्भ्यां कथं ज्ञातम् ? ' तदा ताभ्यामुक्तं यद् - 'गुरवः ! अस्माकं सम्प्रदायस्य प्रधानगुरुभिरस्माकमादिष्टमस्ति यद् " भवतां स्थाने यस्य कस्याऽपि सम्प्रदायस्य साधुजना आगच्छेयुर्भवद्भिस्तेषां सर्वाऽपि परिचर्या पूर्णभक्त्या करणीया, तत्र च न कोऽपि सङ्कोचः कार्यः " । वयं हि तमादेशं सदाऽप्यनुसरामः । तथा नः स्थानेऽत्र बहुशो जैनसाधव आगच्छन्ति । अतो वयं सर्वमपि भवतामाचारादि जानीमहे एव । अपि च, नेदमस्माकमेकमेव स्थानं किन्तु समग्रेऽपि भारते एतादृशि चतुर्विंशतिः शतं स्थानानि यान्येवमेवाऽऽतिथ्यभावनापूर्णानि । अस्माभिः सर्वैरपि प्रतिवर्षमेकवारं वा नः प्रधानगुरूणां समीपे गत्वा सर्वमपि सुकृतनिवेदनं कर्तव्यं, वार्षिकमनुदानं चाऽऽयानुरूपं दातव्यमेव' ।
एतत्सर्वं निशम्य नश्चित्तमानन्दितं नयने चाऽऽर्द्रे जाते, चिन्तितं चाऽस्माभिर्यत् क्व स जन्मना जैनस्य व्यवहारः ? क्व चाऽयं व्यवहारः ?
६९
Page #80
--------------------------------------------------------------------------
________________
"मम हृदय-स्पर्शिनी घटना"
मुनिविश्रुतयशविजयो गणी
गूर्जरदेशस्य नडियादनगरस्यैषा घटना । तत्रैकविंशतिवर्षप्रायश्चिन्तननामा एको युवा सन्तराममन्दिरमार्ग दर्शयितुं मम सार्धं चलितवान् । यावच्च मन्दिरस्य सभामण्डपस्थानं प्राप्तौ ततः पूर्वमेव चिन्तनेन प्रोक्तं यद् ममाऽऽपणः चतुश्चक्रिकायां (लारी इति) सन्तराममन्दिरस्य बहिर्भागे वर्तते, यस्मिन् वस्त्राणि शाटिकादि च विक्रीणामि । तत्राऽऽगत्य भवान् पदार्पणं करोतु येनाऽहं भाग्यशाली भवेयम् । अतस्तस्याऽऽग्रहवशात् तत्र मया गतम् । तस्य पिताऽपि तत्र मिलितः । सोऽप्यतिहृष्टः।
चिन्तनेन तस्य पित्रा चाऽऽशीर्याचिता । ताभ्यां काऽप्यर्थेच्छा प्रार्थना वा न दर्शिता कथिता वा । प्रत्युत चिन्तेन कथितं यद-मत्तो व्याघटय कोऽपि ग्राहको मम प्रतिवेश्मिकस्य चतुश्चक्रिकातो वस्तुनि क्रीणीयात् तदा मे मनसि द्वेष इर्ष्या च माऽऽयातु-इत्याशीर्वादं भवतो मार्गयामि । एतच्छ्रुत्वा मम चक्षुषी बाष्पार्दै जाते ।
स सार्धवर्षाद् ग्रीष्मकालेऽप्युपानही न परिदधाति । सूर्यास्तानन्तरमाहारादिकं न करोति । प्रतिदिनं देवपूजां करोत्येव, तथा स्वलघुभ्रातरं पाठयितुं स्वपठनं गौणं कृतवान् । इतोऽप्यधिकं त्वेतद् यद् स प्रतिदिनं विक्रयेण यावद् धनं प्राप्यते तस्यैकं प्रतिशतं (१%) मन्दिरं गत्वा देवाय समर्पितं करोति । एषा घटना इदानीमेव सञ्जाता । नूनं जना अद्याऽपि पुण्यवन्तः सुकृतिनश्च लभ्यन्त एव ।
७०
Page #81
--------------------------------------------------------------------------
________________
प्रेममयी माता
मुनितीर्थबोधिविजयः
"अम्बा अहं तत्खादेयं किं?" अमदावादनगरीया साऽऽपणपङ्क्तिरद्याऽपि मत्स्मृतिमधिगच्छति । पाल्यामुपविष्टौ मातापुत्रौ, जनन्यङ्के निहितशिरस्कोऽहं बालः पञ्चवर्षीयः, सम्मुखं दृश्यमानं हिमगोलकापणं, मादृशा नैके बाला यतः खादन्ति सहर्ष गोलकं, ततो "मयाऽपि खादनीयं" तदित्युक्तं यदा मया, तदा जननी मेऽनन्ताकाशे निहितदृष्टिका नितान्तं विचारगह्वरे निपतिता जीवनस्य परिवर्तान् दुःखनिपातांश्च संपश्यमानेव निर्निमेषं स्थिताऽऽसीत् । तया मद्वाक्यं नैव श्रुतमासीत् । मया तां कम्पयतोक्तं - "मातरम्ब !" सेहलोकं प्रविष्टवती सचमत्कृति, "अहं तत्खादेयं किं?" मयाऽऽपणसम्मुखं करमुत्तम्भ्योक्तम् ।
मातुर्दृष्टिस्तत्र पतिता । मनाङ् निःश्वसितं तया । पश्चादतीव मृदुभूयोक्तवती- "वत्सैनत्ते कथं दापयामि? कथं वा क्रीणाम्येतद्, न मे पार्वे काऽपि सुविधा।" इत्युक्तवत्यास्तस्याः कण्ठोऽवरुद्धः, परं झटिति स्वस्थीभूताऽसौ । मया सुष्ठ नाऽवगतं पुनश्च प्रलपितं - "परं मया खादनीयमेवाऽस्त्येतत् ।"
तया मत्सम्मुखं दृष्ट्वा मद्वदनं तद्धस्तयोर्गृहीत्वोक्तं - "कल्ये क्रीत्वा दास्यामि ते । अद्य स्वपिहि। आगच्छ मत्क्रोडे" । तया मां क्रोडे शाययितुं प्रयतितं यावता तावताऽहं बलादुत्थित एव जातः । "मयाऽद्यैव खादनीयमास्ते । त्वं कथमपि दापय । अन्यथा त्वया सह नैव वदिष्यामि कदाऽपि" । बालहठो व्यलसत् ।
"परं दारक! त्वं तु जानास्यस्माकं गृहस्थितिम् । सुज्ञोऽसि रे ! किमर्थमेवं हठं करोषि?"
७१
Page #82
--------------------------------------------------------------------------
________________
"त्वत्पावें तावन्त्यपि रूप्यकाणि न सन्ति किं ?" मया सामर्षमुक्तं तदा तया हस्तस्थानि सर्वाणि रूप्यकाणि मत्पुरतः प्रकटितानि "पश्यैतावन्त्येव सन्त्येतानि । अथाऽऽनयनीयमास्ते गोधूमपिष्टकं, तैलं च, नाऽवशेक्ष्यते किञ्चन, तत्त्वदर्थं कथं क्रीणामि गोलकं भोः !" तया मां पृष्टं, तदुत्तररूपेण ।
"न, कथमप्यद्य तु खादनीयमेव मया । अहं ग्रहिष्याम्येव, अदिष्याम्येव, किमपि कुर्वम्ब ! मया गोलकोऽत्तव्यः" । इत्युक्त्वोच्चै रोदनं प्रारब्धवानहम् । लघुरासं, परिसरस्य भानं नाऽऽसीन्मे । गमनागमनं कुर्वतां जनानां मनोगतनिरीक्षणेऽसमर्थ आसं, यद्वा तदाऽऽवश्यकतैव नाऽऽसीद्यतः पार्श्वे माता स्थिताऽऽसीत् ।
"वत्स ! मैवं रोदीः । आगच्छ... पश्य त्वां..." इत्युक्त्वा मम ग्रहणायाऽऽगतवती यावता, तावता कोपाकुलीभूतोऽहमग्रेऽधावम् । तदा "वत्स ! मैवं कुरु । किमहं कुर्वे ? त्वदिच्छां पूरयितुं मम भाग्यं नाऽऽस्ते वत्स । अतो मा धाव, आगच्छाऽत्र ।" इति तस्याः पूत्कृतिर्मम मानचूरणेऽसमर्था जाता ।
__ तदाऽन्ततो गत्वा सोपविष्टा पुनरपि पालिकायाम् । स्वदुर्भाग्यस्य, स्वासहायकतायाः, पुत्रेच्छाऽपूर्तेश्च युगपन्नके शरा विद्धवन्तस्तद्धृदयं वेदनासागरो हृदय उच्छलन्सामग्रयेण युगपद् बहिरागच्छत् । हस्तौ वदने संस्थाप्य सा रोदितुं प्रवृत्ता साक्षात्, किं वा कुर्यात् सा वराकी ! कीदृक्कष्टं हृदयं चूर्णीकुर्वदनुभवमाना स्यात्सेति तु जानाति जनन्यन्तरङ्गं वा । पुत्रकाङ्क्षापूर्तावजायमानायां याऽसहायकताऽनुभूयते जगन्मातृभिः सा वेदना... सा करुणाऽपि जगति महाजनानां पूज्यतमा भवति । तया करुणयैव माताऽपि पूजनीयतमाऽस्ति।
अथ परिवर्त्य मया दृष्टं यदा, रुदत्युपलब्धा माता, तदा मया यदुःखं संवेदितं, तदद्याऽपि स्मृतिमधिरोहति यदा तदा गलकोऽवरुध्यते, अक्ष्णोस्तोयधारा निर्गच्छति च । धावन्नेव गतस्तत्र, यत्र मम प्रेममयी स्नेहला माता स्थिताऽऽसीत् । तद्धस्तौ कोमललघुहस्ताभ्यां स्पृष्ट्वा दूर्यकरवम् -
"अम्ब ! त्वं रोदिषि?" इत्युक्तं मया । तेन सहैव तयोन्नीय वक्षसि गाढतरमाश्लिष्टोऽहम् । तस्या रोदनं तीव्रतरं मुक्तकण्ठं चैव सञ्जातम् ।
"मातः ! मा रोदीः, अद्यप्रभृति हठं नैव करिष्यामि, कदापि त्वां दुःखिनीं न करिष्यामि, अहं तव पुत्रोऽस्मि, त्वं च मे माता, नाऽन्यत्किमपि काक्षेऽथ ।" न जाने इत्यादि किं किमपि उदितवानहं । मातापुत्रावावां विस्मृतवन्तौ यदेतदस्माकं मिलनं दृष्ट्वा मार्गजना अपि क्षणं विरम्याऽक्ष्णोर्नीरतोरणकानि बद्ध्वा बद्ध्वा गच्छन्ति ।
क्षणानन्तरं "चिन्तां मा कुरु बाल ! त्वामवश्यं दापयिष्यामि, त्वामवश्यं खादयिष्यामि, कोपं मा कुरु भोः ! दुःखी मा भव लाल !" इत्यादि किं किमपि गदत्यासीन्मे माता.... सर्वाङ्गं स्नेहेनाऽभिषेकं
कुर्वती।
Page #83
--------------------------------------------------------------------------
________________
त्वदर्थमेव वत्स ! त्वदर्थम्
मुनित्रैलोक्यमण्डनविजयः
कुसुमस्याऽक्षिणी निमीलिते आस्ताम् । सहसा तन्मस्तके कश्चन वात्सल्यपूर्णो हस्तः प्रासरत् । 'अहो! अनभतचरोऽयं स्पर्शो मे' इति विचार्य स नेत्रे उन्मील्य यावत् पश्यति तावत् पुरतो मातरमुपलब्धवान् ।
'मातर् ! त्वम् ?' 'आम् वत्स ! अहम् ।' 'परं त्वं तु स्वर्गं गताऽऽसीत् खलु !' 'आम् वत्स ! किन्तु प्रत्यागताऽस्मि' । 'किमर्थं मातः ।। 'अहं त्वदर्थमेव प्रत्यागताऽस्मि वत्स !' ।
तावता केनचिन्महता शब्देन तस्य तन्द्राभङ्गो जातः । तस्य पुरतस्तु न किञ्चिदप्यासीत् । 'अहो ! अहं किं तत् पश्यन्नासम् ?' इति चिन्तयित्वा तेन घटिका वीक्षिता । 'अरे ! मया त्वरितमेव सर्वं करणीयम् । कियन्ति कार्याणि सन्त्यद्य-दन्तधावनं, स्नानं, प्रभुप्रार्थनं, प्रातराशः, सज्जीभूय च शालागमनं- सर्वाण्यप्येतानि मयैव करणीयानि । माता तु स्वर्गे भगवत्पावें गताऽस्ति । अन्यथा तु मम चिन्तैव नाऽऽसीत्' - इति मनसैव जल्पन स यथामति स्वकार्येष लग्नः ।
मासद्वयात् पूर्वमेव कुसुमस्य माता सहसा रुग्णा जाता । चिकित्सका यावत् किञ्चित् कुर्युस्तावता तस्या रोगोऽत्यन्तं वृद्धिङ्गतः । तस्या मनसि निश्चयो जातो यदहं नैव जीविष्यामि' । अतस्तया कुसुम स्वोत्सङ्गे उपवेश्य बहुशश्चुम्बित्वाऽऽलिङ्ग्य च स्नेहं वर्षन्त्या प्रेम्णा कथितमासीत् - 'पश्य वत्स ! भगवताऽहमाहूताऽस्मि किञ्चित्कार्यार्थम् । अतो मया स्वर्गे गन्तव्यम् । शीघ्रमेवाऽहं पुनरागमिष्यामि । त्वया सर्वाणि कार्याणि यथा मया शिक्षितानि तथा कर्तव्यानि । हठादिकं नैव कर्तव्यं । सम्यगवगतं खलु !'
७३
Page #84
--------------------------------------------------------------------------
________________
स्नेहमय्या मातुः प्रत्येकं वचनं यस्य कृते जीवनमन्त्र आसीत् तादृशः स लघुबालः सर्वमपि तद्वचोऽङ्गीकृतवानासीत् । किन्तु प्रतिक्षणं प्रतिकार्यं च तस्य मातैव स्मर्यते स्म । 'कदा सा प्रत्यागमिष्यति कदा च मां हृदये लगयित्वा स्नेहवर्षणं करिष्यति ?' इत्यादिकं चिन्तनं स्वमत्या सर्वदा तन्मनसि भवति स्म । एवमेव दिनानि व्यतियन्ति स्म ।
अथैकदा यदा तस्य पिता गृहं समागतस्तदा तेन सहैका नववधूरिव विभूषिता महिलाऽपि समागता। द्वयोरपि कण्ठयोः पुष्पहारो विलसति स्म । तया च स्त्रिया यानि वस्त्राणि परिहितानि तानि कुत्रचिद् दृष्टानि - इति कुसुमो विचारितवान् । 'आम् ! गृहभित्तौ स्थिते छायाचित्रे मात्रा यानि वस्त्राणि परिहितानि तान्येवेमानि । तर्हि केयं स्यात् ?' समीपमागतयोश्च तयोस्तस्या मुखादिकं दृष्ट्वा 'अस्या आकृति-गत्यादिकं सर्वमपि मातृतुल्यमेव । किं मे मातेयम् ? किन्तु सा तु स्वर्गं गताऽस्ति' इत्यादिकं स यावच्चिन्तयति तावत् तस्य पित्राऽतीव स्नेहेन तन्मस्तके हस्तं प्रसारयता कथितमासीत् - 'वत्स ! इयं ते माताऽस्ति । इतः परं त्वयैषा 'अम्बा' इति आकारणीया' ।
'किन्तु पितः ! मम माता तु स्वर्गं गताऽस्ति भगवत्पावें ।' 'आम् वत्स ! किन्तु साऽद्य प्रत्यागताऽस्ति' ।
एतेन कुसुमोऽतीव प्रसन्नो जातः । 'इतःप्रभृति न मे काऽपि चिन्ताऽस्ति, सर्वमपि मे कार्य मातैव करिष्यति'।
ततश्च यद्यपि सर्वमपि तस्य चिन्तनानुसारमेव प्रवृत्तं, तथाऽपि तत्र काचिन्यूनताऽऽसीत् यामवगन्तुं तस्य नूतना माता समर्था नाऽऽसीत् । सा हि विवाहात् पूर्वमेव कुसुमपित्रा बोधिता सती बालपालनार्थं विविधानि पुस्तकानि पठितवत्यासीत् । एतेन यद्यपि तत्पालनस्य यथार्थो बोधस्तस्या जातः किन्तु तस्य बोधस्य भारेण तस्या हृदयस्थं सहजं वात्सल्यं निर्बन्धः स्नेहश्च सङ्कोचितौ जातौ । सा तत्कृते यत्किञ्चिदपि करोति स्म तत् कर्तव्यत्वबुद्ध्यैव । आदिनं सा तस्य सर्वमपि कार्यजातं निभालयति स्म । तत्र सूक्ष्ममपि स्खलनं नैव करोति स्म । किन्त्वेतत् सर्वं कुर्वत्यपि सा तं स्वीयस्नेहभाजनं कर्तुं नाऽशक्नोत् नाऽपि स्वयं तस्य समर्पणपात्रं भवितं समर्था जाता । कर्तव्यत्वबद्धिस्तत्राऽवरोधीभता । एवं च वात्सल्याभावे स्नेहाभावे च कुसुमः शनैः शनैर्लातुमारब्धः ।
बालकस्य हि निजं सर्वमपि कार्यं कुर्वत् किञ्चिद् यन्त्रं नाऽऽवश्यकं, तस्य तु आवश्यकताऽस्ति वात्सल्येन प्रेम्णा च स्पन्दमानस्य तादृशस्य हृदयस्य यत् - तस्य मस्तके स्नेहमयं हस्तं प्रसारयेत्, वक्षसा तं निष्पीड्य मुहुर्मुहुः प्रचुम्बेत्, स्वोत्सङ्गे उपवेश्य तस्य कथां श्रावयेत्, सकर्णीभूय तस्य बालजल्पनं शृणुयात्, तेन सह निर्भरं क्रीडेत् क्रीडायां च व्याजेन स्वयमेव हारयेत् । तस्याऽऽवश्यकताऽस्ति तादृशस्य हृदयस्य, यत्र निजमुखं स्थापयित्वा स सर्वमपि जगत् विस्मरेत् ।
किन्तु कर्तव्यत्वबुद्ध्यैव सर्वं कुर्वतीयं तस्य नूतनाऽम्बा ह्येतत् सर्वं बालविलसितं समवगन्तुं नाऽशक्नोत् । नाऽपि च सहजवात्सल्यवर्षणं कर्तुं सा समर्था जाता ।
७४
Page #85
--------------------------------------------------------------------------
________________
अतो बालोऽयं म्लायं म्लायं पठन-खेलनादिषु सर्वकार्येषु सीदन् सन् रुग्णो जातः । तीव्रो दाहज्वरस्तद्देहे लग्नः । तत्पित्राऽऽहूतश्चिकित्सकस्तदर्थमुत्तममौषधं दत्तवान् । किन्तु बहुदिनान्यौषधग्रहणेनाऽपि तस्य ज्वरो शान्तो न जातः प्रत्युत वर्धते स्म । तस्य सर्वामपि परिचर्यां सा तस्य मातैव करोति स्म । किन्तु सर्वमपि निष्फलम् । एतेन चिन्तिता जाता सा अहर्निशं तत्पार्वं नैव मुञ्चति स्म।
इतश्च कुसुमोऽपि रोगेनाऽऽकुलीभूतो वात्सल्य-स्नेहतृषितश्च मनसैव तस्या दूरीभूतस्तां नैवाऽऽह्वयति पश्यति स्म वा, तया समाहूतोऽपि चोत्तरं नैव ददाति स्म । एतद् दृष्ट्वाऽतीव दुःखितायास्तस्या मनसः कर्तव्यत्वबुद्धिः कदा विलीना जाता कदा च हृदयस्थं सहजं वात्सल्यं प्रेम च प्रकटीभूतं तत् तयैव न ज्ञातम् । इदानीमावश्यकताऽऽसीत् केवलमेकस्यैवाऽऽघातस्य यस्तद् वास्तव्यं प्रेम चाऽवरुध्य स्थितं सङ्कोचं सर्वथा नाशयेत् । अचिरादेव तदपि मुहूर्त समागतम् ।
एकदा कुसुमस्य दाहज्वरोऽत्यधिकं वर्धित आसीत् । चिकित्सकेन हि परिचारिकायै तल्ललाटे शीतलजलार्द्रा वस्त्रपट्टिकाः स्थापयितुमादिष्टम् । किन्तु परिचारिकां दूरीकृत्यैषा स्वयमेव तदर्थमुपविष्टा क्रमशश्चैकैकां वस्त्रपट्टिकां स्थापयति स्म । एवं च कुर्वत्या तया तदुष्णतां ज्ञातुं ललाटोपरि स्वहस्तो न्यस्तः । तस्य वात्सल्यभृतं मृदुस्पर्शमनुभूय कुसुमेनाऽक्षिण्युन्मीलिते । तां च दृष्ट्वा झटिति निमीलिते । एतद् दृष्ट्वा तया पृष्टं - 'किं रे वत्स ! मां द्रष्टुं नेच्छसि ?'
'नैव' - तेन रूक्षतयोक्तम् । 'किमर्थम् ?' 'त्वं मम माता न'। 'अहं तव मातैव भोः !' तयाऽऽकुलतयोक्तम् । 'मम माता तु स्वर्गं गताऽस्ति' ।। 'अहं स्वर्गात् प्रत्यागता तव मातैव वत्स!' सार्द्रनयनया तया गदितम् । 'किमर्थं त्वमागता ?' रोषेण तेन पृष्टम् ।
'त्वदर्थमेव वत्स ! त्वदर्थम्' इत्यत्यन्तगादीभूतया तयोक्त्वा सहसा तमुत्थाप्य वक्षसि च परिरभ्य चुम्बनवृष्ट्या सान्द्रस्नेहेन च स्नापितः सः । इदानीं वात्सल्यपूरेण प्रेमवर्षणेन च सर्वेऽप्यवरोधका विनष्टा आसन् । कुसुमस्य स्वजननी प्राप्ताऽऽसीत् । तस्य सर्वेऽपि स्वप्नाः फलिता आसन्।
प्रेम वात्सल्यं चैव जीवनस्य परिचालकं बलमित्यहं मन्ये । बहूनां दुःखितानि कुपथगामीनि च जीवनानि प्रेम्णैव परावर्तितानि । बाल्ये एव कुत्रचिच्छ्रतायां कथायामस्यां प्रकटितं प्रेम्णो मर्म हृदयं हठात् स्पृशतीत्येतदर्थमेषा कथाऽत्र यथाश्रुतं निरूपिताऽस्ति ।
७५
Page #86
--------------------------------------------------------------------------
________________ को भगवान् ? डॉ.वासुदेव वि. पाठकः 'वागर्थः' अस्त्यस्माकमेकः सुहृद् अध्यापकः / वस्तुतः, परोपकारपरायणः स बहूनां सुहृद् / विद्यादानं करोति, किन्त विद्याविक्रयाद विमुखः स आर्थिकरीत्या सामान्य जीवनं जीवति / तस्य धर्मपत्न्यपि तथैव तस्याऽनुसरणं करोति / एकदा साऽतीव रुग्णा जाता / परिचितैः सर्वैराश्चर्यमनुभूतम् / ईश्वरीयन्यायस्य विषये शङ्काऽपि कृता / 'अस्या विषये एवं नैव भाव्यम्' इति सर्वेषां स्वरः / कलियुगस्य प्रभाव एष इति कथयन्ति सर्वे / का गतिः ? "सीदन्ति सन्तः, विलसन्त्यसन्तः" / एवं सत्यपि दम्पत्योश्चित्ते न काऽपि विपरीता भावना ईश्वरीये आयोजने / कथयन्ति यद दुःखं नैव ददाति देवः, देवः प्रीत्या रक्षति रे पिता समेषां देवस्साक्षात् साहाय्यं च करोति रे / / कस्याऽपि सूचनेन स्वस्थेन मनसा सा आणंद-नगरे, 'आइ.पी.मिशन हॉस्पीटलं' नीता / 76
Page #87
--------------------------------------------------------------------------
________________
('लीमडावाळु दवाखानु' इति नाम्ना ख्यातोऽयं रुग्णालयः ।) अतीवसेवापरायणः 'डॉ. रूथर फोर्ड' नामको वैद्यः (Doctor) कदा कदाऽऽगच्छति स्म तत्र । सद्भाग्यतः स एव तत्राऽऽसीत् तद्दिने । सफलचिकित्सकत्वेन प्रतिष्ठितो डॉ. फोर्डः । तथाऽपि, रोगस्य गम्भीरतां दृष्ट्वा सः चिन्तामग्नो जातः । किं कार्यमिति प्रश्नस्तस्य मनसि । तस्या व्याधिग्रस्ताया अतीवाऽशक्तिं विचार्य, सर्वप्रथमं तेन रुधिरस्याऽल्पत्वस्य निदानं विचारितम् । सत्वरमेव रुधिरं दातव्यमिति कृत्वा, तेन तस्या रुधिरपरीक्षा कृता रुधिरस्य प्रकारोऽपि (Blood-group) निश्चितः कृतः । B+ इति प्रकारकं रुधिरमासीत् । तदनु तस्याः पतिमुद्दिश्य तेनोक्तं - भ्रातः ! एषा प्रथमं शक्तिसम्पन्ना कार्या । तदनु अन्यव्याधिनिवारणे यत्नः शक्यः ।
अधुनाऽहं तव रुधिरपरीक्षां करिष्ये । यदि तदनुरूपं तर्हि तस्यै तवैव रुधिरं दातव्यम् । यदि तत् शक्यं, शोभनम् । अन्यथाऽपि चिन्ता नैव कार्या । मम रुधिरं तु सार्वत्रिकरूपम् (Universal Group) । अहं मम रुधिरं दास्यामि ।
___ ईश्वरकृपया तवैव रुधिरमनुरूपं चेदानन्दस्य वार्ता । मम रुधिरं कस्याऽप्यन्यस्य रुग्णस्य कृते उपकारक भविष्यति।
श्रुत्वैतदुपस्थिताः सर्वेऽप्येकमेव वाक्यमवदन् - भग*-वानेव भग-वन्तं प्राप्तः । यो जीवति परार्थाय जीवनं तस्य शोभते । तत्रैव भगवद्रूपे व्यक्ता भवति दिव्यता ।। कृते निदाने उपचारयोग्यतया सा रोगमुक्ता जाता, प्रसन्नता च व्याप्ता । अन्यायेन धनं नैव, न प्रतिष्ठा छलेन वा । पापं कृत्वा न सत्ताऽपि, सर्वमन्ते विनाशदम् ।। न्याय्येन जीवनं भद्रं न्याय्येन सुखमद्भुतम् । न्याय्येन परमा शान्तिः न्यायतः किं न लक्ष्यते ।। इति सुभाषितानुसारिणं जीवनमध्यापकस्य विपत्तौ अपि साफल्यमानयत् ॥ (कथाबीजं - प्रा. बंसीलाल पटेल (वल्लभविद्यानगर, आणंद))
३५४, सरस्वतीनगर, आंबावाडी, ३८००१५
* ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां 'भग'इतीरणा ।। भगेन युक्तः सम्पूर्णतया, स भगवान् ।
७७
Page #88
--------------------------------------------------------------------------
________________
धन्योऽसि ॥
प्रा. चन्द्रिका वा. पाठकः
केवलं स्वार्थसिद्ध्यर्थं प्रवर्तन्ते नराधमाः ।
परेषां हितबुद्ध्यैव प्रवर्तन्ते नरामराः ।। मम पितुर्जीवन-व्यवहारे एतादृशी भावना बहुधा चरितार्था दृष्टा ।
मम पिता श्रीहरिशंकरव्यासः,अमदावादनगरस्य प्रतिष्ठितो न्यायनिपुण (वाक्कीलः - Lawyer) आसीत् । श्रुत्वा ज्ञात्वा च तस्य साफल्यं न्यायालये, मार्गदर्शनं सहयोगं च प्राप्तुं बहव आगच्छन्ति स्म । एतेषु, कृतापराधाः, दुष्टमतिमन्तः, जिह्माश्चाऽपि आसन् । किन्तु,
धनं नैवाऽस्ति सर्वस्वं विवेकस्तु महान सदा।
विवेकोपार्जितं द्रव्यं धर्मवृद्धिं करिष्यति ।। इति सुभाषितसारमवगत्य व्यवसायविवेके जागृतः सः, तेषां समर्थने निजाशक्तिं निवेदयित्वा विरमति ।
साहाय्यार्थमागतस्य जनस्य निवेदने यदि स्वच्छताया ध्वनिः, निर्दुष्टत्वं वा लक्ष्येते, तर्हि एव स सन्निष्ठतया तस्य साहाय्यं करोति ।
एकदा, एकस्य धर्मसम्प्रदायस्य प्रतिष्ठितोऽध्यक्षः साधुरस्मद्गृहमागतः । तस्य स्वागतं सप्रमाणमकरोत् मम पिता।
शनैः शनैर्गदगदितेन स्वरेण स निजवेदनां निवेदयामास । सोऽकथयद् यद् - अस्माकं सम्प्रदायस्यैकोऽनुयायी धनवानस्ति । अनीत्या प्राप्तेन धनेन तेन प्रतिष्ठा प्राप्ता । सम्प्रदायस्याऽनुयायिनोऽपि तं बहु मन्यन्ते ।
किञ्चित्कालपूर्वं, तस्याऽनीतिपूर्णो मदिराविक्रयस्य व्यवसायो मया ज्ञातः । तमाहूय, मया प्रीत्योक्तं - भ्रातः ! मनुष्या वयम् । अन्येषां सुखं चिन्तयित्वैवाऽऽदर्शो व्यवसाय: कार्यः । मद्यपानेनोन्मत्तो जनः, स्वकीयं चाऽहितं साधयति । वय॑ एष दुष्टो व्यवसायः । दुष्टव्यवसायेनोपाजितं द्रव्यमीश्वरसेवायामपि
७८
Page #89
--------------------------------------------------------------------------
________________
निषिद्धम् । सुज्ञस्त्वम् । विचारय । त्यज दुष्टं व्यवसायम् ।
धर्मबुद्ध्या वरं द्रव्यं सात्त्विकमेव लभ्यते ।
सात्त्विकस्य पवित्रस्य द्रव्यस्य ग्रहणं हितम् ॥ वारंवारमेवं मत्कृतमुपदेशं श्रुत्वा क्रुद्धेन तेन पत्रेणाऽनेन ममोपरि कृतो व्यभिचारस्याऽऽक्षेपः । पठन्तु भवन्तः । अहं शुद्धोऽस्मि । न्यायालये तस्योपरि अभियोगं कर्तुं विचारयामि । भवन्तः सक्षमा मे रक्षणार्थम् । शुल्करूपेण यदेव देयं,तदहं दास्यामि ।
वाक्कीलः पत्रमपठत् । अश्लीलैः शब्दैरपवित्रीकृतं पत्रं पठित्वोद्विग्नः सः ।
तेनोक्तं - महात्मन् ! भवतां साहाय्यं कर्तुमुधुक्तोऽहम् । भवतां विजयश्चाऽपि स्यात् । धनं च विपुलं तेन लप्स्येऽहम् ।
तर्हि न विलम्बः कार्यः । आवयोर्हितमेवाऽत्र । मम विजयः, भवतां कृते धनमिति उवाच साधुः । वाक्कीलोऽकथयत् - प्रभो ! एषा तु मम स्वार्थस्य वार्ता । किन्तु ममाऽस्त्येकं निवेदनम् ।
साधुरुवाच - भ्रातः ! धनादधिकमपि दास्यामि । अस्मत्-सम्प्रदाये भवतां ट्रस्टीपदं भविष्यति प्रतिष्ठाप्रदम् । किन्तु - न्यायालयं गत्वा, शिक्षात्मकं किञ्चित्, कर्तव्यमेव तस्य दुष्टस्याऽर्थम् । विना कारणं मां पीडयति दुष्टः।
वाक्कीलोऽकथयत् - भगवन् ! भवन्तोऽकलङ्किता इति जानन्ति सर्वे । अहमपि मन्ये । भवतां तथाकथितं, कल्पितं वा कलङ्क्स एक एव विचारयत्यधुना । यदि न्यायालयं गत्वाऽभियोगं करिष्ये, तर्हि प्रचारमाध्यमैरवाञ्छितनिवेदनैः, तथाकथितवृत्तान्तस्य डिण्डिमघोषो भविष्यति । बहवः शङ्कां करिष्यन्ति । भवन्तश्च निर्दष्टाः सन्तोऽपि जनमानसे भवद्विषये शङ्का स्यात् स्वयमेव ।
अतो ममाऽस्त्यभिप्राय यदत्र मौनमेव प्रतीकारः । स्वयमेव न पतितव्यं विष्टायाम् । विनेन्धनं स्वयमेव शाम्यत्यग्निः । स दुष्टबुद्धिः किञ्चित्कालानन्तरं सम्प्रदायं त्यक्त्वा स्वयमेवाऽन्यत्र यास्यतीति दृढं मन्ये ।
श्रुत्वैतद् वाक्कीलं प्रणन्तुमैच्छत् स साधुः । उत्थाय समीपमपगच्छत् । अकथयच्च -महाभाग ! वस्तुतस्तु, भवान् महात्मा । स्वकीयं स्वार्थं विहाय परहिते प्रवृत्त एव साधुः । धन्योऽस्याशीर्वादार्हः ।
सत्त्वपूर्णेन त्यागेन गौरवं शोभते सताम् । विवेको वर्तते चेत्तद् व्यवसायोऽपि शोभते ।।
६६/३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५
७९
Page #90
--------------------------------------------------------------------------
________________
ww
मम जीवनस्य त्रयः प्रसङ्गा: (सत्यघटनानि) डॉ. मदनलाल वर्मा
(१)
मामेकवारं कोऽप्यपृच्छत्
" भवतामिष्टदेवः कः ?"
प्रश्नमिमं निशम्य सकृत्त्वहमहसम् । अहं विचारयितुमारभे - "कस्य देवस्य नाम वदेयम् ?" द्वैधीभावस्तु युगपदभूत्, परं क्षिप्रमेवान्तर्मनो जगाद - “ I believe in my Present God.” 44 'अहं स्वकीये वर्तमाने ईश्वरे विश्वसिमि " इति ।
इदमेव चोत्तरं तस्मै सज्जनायाऽयच्छम् । ममोत्तरमाकर्ण्याऽसौ किञ्चिद् विस्मयान्वितोऽभवत् । अहं तस्य चेतसोऽभिप्रायमतर्कयम्, अतः पुनस्तं स्पष्टीकुर्वन्न्यगादिषम्
"भ्रातः ! वयं कियन्तोऽज्ञानिनः स्मो यद् देवपूजायामाबद्धाः स्मः । वयं पत्राणि गणयाम:, शाखाः पश्यामः, मूलं न गृह्णीमः । मूलं त्वादिब्रह्म वर्तते, स्रष्टाऽस्ति, जगन्नियन्ता वरीवर्ति, येन सर्वाः देवताः सृष्टाः । येन विष्णुर्विधिर्महादेव इत्यादिका दिवौकसोऽवतारिताः । अस्माभिरसौ स्मर्तव्यस्तदैव शान्तिर्लप्स्यते । इयज्ज्ञातव्यं भवद्भिर्यत् - 'कश्चन विद्यते' 'There is something' - इति ।
ममेमां वार्तां संश्रुत्य स सज्जनो निरुत्तरोऽभूत् ।
(२)
मम जीवने बहूनि विचित्रघटनानि सञ्जातानि सन्ति । वृत्तं तेषां दिनानां वर्तते, यदा 'वियतनामदेशस्य हो चि मिन्ह' इत्यस्य महाभागस्य मृत्युरभवत् । तस्य देहावसानात् पञ्चदश दिनेभ्यः प्राग् निशीथिन्यामहमकस्माद् घोषानशृणवम्
" हो चि मिन्हो याति त्वं च निद्रां लभसे ।"
अहं तदैतन्नामाऽपि नाऽवगच्छामि स्म । अहं चिन्तयितुं प्रावर्ते
"कोऽयमस्ति ?"
तदा चाऽहं विस्मितोऽभवं, यदा समाचारपत्रेषु तस्य निधनस्य समाचारमपाठिषम् । मामिदं को व्याजहार ? अद्यपर्यन्तं रहस्यं निष्पन्नं वर्तते ।
८०
Page #91
--------------------------------------------------------------------------
________________
वर्तमानाद् दिनात् प्रायेण चत्वारिंशत्वर्षपूर्वं सान्ध्यमहाविद्यालये ममैकश्छात्र आसीत् – मोहितशर्मा । असौ पाणिग्रहणं न कारयति स्म । तस्मिन् समये तस्याऽऽयुरष्टाविंशतिवर्षाणामासीत् । गृहे पितृभ्यां सहाऽत्यल्पं संवदति स्म । अतिविचित्रप्रकृतिमापन्नोऽवर्तताऽसौ । हरिद्वारे कस्यचित् साधोः कथनेन तेनाऽऽजीवनं ब्रह्मचर्यव्रतधारणस्य निश्चयः कृत आसीत् । यदाऽहमिममभिप्रायं ज्ञातवान्, तदा मन ऐच्छद्यत् केनाऽपि प्रकारेणेमं विशदीकुर्यां विवाहमवश्यं करोतु । सर्वोच्चाश्रमो गृहस्थाश्रमो वरीवर्ति । असौ मत्तस्तावदाध्यात्मिकचर्चकारणेनाऽत्यधिकः प्रभावित आसीत् । किन्तूद्वाहस्य प्रसङ्ग नोररीकरोति स्म । एकस्यां तमिस्रायामहं स्वप्नमपश्यं मां च स्वप्ने एव पूज्याः साधव आदिशन् यदस्य जनस्य विवाहकार्य त्वयैव निष्पादितव्यम् । स्वप्नस्येयं वार्ता मनसि स्थिरीभूता । एकदा रिक्तहोरायामहं प्राध्यापककक्षे उपाविशं यन्मोहितशर्मा ममाऽन्तिके आगत्योपाविशत् । प्रभोर्नाम्नो जनश्रुतेश्चर्चः प्रचलितो निरन्तरम् । अकस्मान्मम मुखान्निःसृतम्
"श्रीकृष्ण एव शरणं मम ।" अहं च शर्माणमवादिषं यद्
"इममेव मन्त्रं तुभ्यं हरद्वारवास्तव्यः साधुर्गुरुमन्त्ररूपेणाऽयच्छत् तव च गुरुरिदमप्यवोचद्यदस्य मन्त्रस्य विषये कोऽपि ज्ञातं नाऽर्हति ।"
ममाऽस्याऽभिप्रायस्य श्रवणेनाऽसौ स्तम्भितोऽवर्तत बहुलं च विस्मयापन्नोऽभूत् । अस्तु, वार्ताऽऽगता गता च भता । स मम समीपे गहेऽप्यागत्योपविशति स्मैकाधिकहोराभ्यः । प्रसङ्गस्त सर्वोऽतिदीर्घोऽस्ति । सक्षेपत इदं कथयानि यत्तस्य मया सहैकेन विधिनाऽऽध्यात्मिकः सम्पर्कः सम्पन्नस्तेन च मम कथनेन पाणिग्रहणकरणमङ्गीकृतम् । अहं तस्य जनकं न्यगादिषं यद्
"भवान् कन्यां दृष्ट्वा मां कथयतु ।" यदाऽसौ मेरठनगरे कन्यकामेकां निरूप्यागच्छत्तदाऽहं तस्या नामाऽचकथम् – “अङ्किता इति ।" तस्य पिता चकितोऽवर्तत । तयैवाऽङ्कितया सह शर्मणो बृहदायोजनेन पाणिग्रहणं जातम् । स एकस्मिन् राजकीयकार्यालये निरीक्षकोऽवर्तत । तस्य पदोन्नतिर्भूताऽसौ च कस्मिंश्चिदन्यस्मिन्नगरे प्रस्थितवान् ।
विगतसमयेऽकस्माद् गृहे शर्मणः पत्नी - अङ्किता तयोः सुता सुतश्च तथा च शर्मणोऽनुजो भगिनी च - आगच्छन् । सम्प्रति शर्मणो द्वौ सुतौ द्वे पुत्र्यौ च सन्ति । अहमत्यन्तं हर्षमन्वभवम् । अङ्किता बहुश्रद्धया मामनमद् प्राभाषत च यद्"भवन्तोऽस्मान् सम्मिलनायाऽस्माकं गृहमुपागच्छेयुः ।"
६८, न्यू कॉलोनी, कुरुक्षेत्र
(हरियाणा) १३६११८
Page #92
--------------------------------------------------------------------------
________________
सुख-शान्तिकृते
मुनिकल्याणकीर्तिविजयः
मम मित्रस्य पिता सहसैकदा स्वग्रामाद् मम गृहमागमत् । एवमागमने वयं सर्वेऽपि विस्मयान्विता जाता: । तदात्वे दूरवाणीव्यवस्थाऽतीवाऽल्पाऽऽसीत् । किन्तु पत्रद्वारा विद्युत्तन्त्रीद्वारा वाऽपि तेन सन्देशो न प्रेषित: इति तु किञ्चिदाश्चर्यप्रेरकमासीत् । अस्तु, अस्माभिस्तु तस्योचिता परिचर्या कृता । प्रातराशादनन्तरं सर्वं स्पष्टं जातं यत् स स्वस्य लघोः पुत्रस्य कृते कन्यां द्रष्टुमागत आसीत् । तस्येच्छाऽऽसीद् यत् कन्या गुणवती सौम्या च स्यात्, धनस्य नास्ति तावदावश्यकता ।
स सर्वमपि विवरणं कुतोऽपि सङ्गृह्य एव आगत आसीद्, अतो वयं तत्सूचिते परिवारगृहे कन्यां द्रष्टुं गता: । यद्यपि सा साधारणपरिवारीयाऽऽसीत् तथाऽपि तस्याः सौम्यस्वभावो गुणवत्त्वं चाऽस्मान् प्रभावितानकुरुताम् । तत्परिवारोऽप्यतीव सौजन्यशील आसीत् । मित्रपित्रा तु स्वमनसा सर्वमपि निश्चितमेव । किन्तु लघुपुत्रस्य सम्मतिरावश्यक्यासीदतस्तमपि प्रेषयित्वा दर्शिता कन्या । सोऽपि सम्मतिं प्रकटितवान् । तत उभयपक्षीयैरपि मीलित्वा सर्वा अपि व्यवस्थाश्चिन्तयित्वा विवाहदिनं निश्चितम् । देयादेयस्याऽपि व्यवस्था चिन्तिता । किन्तु कन्यायाः पिता स्वां पुत्रीं द्वितोलक ( प्रायो द्वाविंशतिग्राम) मितं सुवर्णमेव दित्सति स्म ।
I
८२
Page #93
--------------------------------------------------------------------------
________________
मित्रपिताऽपि तदर्थमधिकमाग्रहं न कृतवान् । ततः सर्वेऽपि यथास्थानं गताः । गृहं प्रति गच्छता च मित्रपित्रोक्तं - 'परश्वो भवान् मां रेल्-स्थानके मिलतु, मम किञ्चित् कार्यमस्ति' । अस्त्विति कथयित्वाऽहमपि गतः ।
ततो नियते कालेऽहं तं मीलितुं गतवान् । स तत्र द्वारि एव तिष्ठन्नासीत् । तत आवां समीपस्थे उपाहारगृहे प्राप्तौ । तत्र चायपानादि कृत्वा तेनोक्तं 'शृणोतु अहमिदानी वाणिज्यार्थं बहिर्गन्ता । किन्तु भवता ममैकं कार्यं कर्तव्यम् । इदमस्ति प्रायो नवतिग्राममितं (अष्टौ तोलकाः) सुवर्णम् । भवतेदं कन्यायाः पित्रे रहसि दातव्यं । कथयितव्यं च "अस्य सुवर्णस्याऽऽभूषणानि कारयित्वा कन्यायै दातव्यानि । वातॆषा च न कस्मै अपि ज्ञापनीये"ति । अन्यत् सर्वमहं तं बोधयिष्यामि' । एतच्छ्रुत्वाऽतीव विस्मितोऽहं तं प्रश्नार्थदृष्ट्या वीक्षितवान् । तद् दृष्ट्वा तेनोक्तं - 'भोः ! शृणोतु, मम ज्येष्ठपुत्रस्य यदा विवाहो जातस्तदा तस्य श्वशुरेण स्वीयपुत्र्यै दशतोलकमितं सुवर्णं दत्तमासीत् । अधुना यदीयं कन्या द्वितोलकमितं सुवर्णमानयेत् तदा तदीया श्वश्रूः (मे पत्नी) यदा कदाऽपि तां यत्किञ्चित् श्रावयेदेव, ज्येष्ठवध्वा चाऽस्यास्तुलनामपि कुर्यात् । यतः स्त्रीस्वभावोऽयम् । परिणामतश्च मम गृहस्य सुखं शान्तिश्च विनश्येदेव । नाऽहं तत्कर्तुमिच्छामि । मम त्वेकैवेच्छा यच्छ्वश्र्वा हृदये द्वयोरपि वध्वोस्तुल्यमेव स्थानं मानं च स्यात् – इत्येतदर्थमेव ममाऽयमारम्भः । अपरं च, वाणिज्यार्थमस्मत्समीपे सुवर्णं भवेदेव । गृहसदस्याश्चैतन्नैव जानन्ति । अतो भवान् मदुक्तं करोतु । अन्यत् सर्वमहं करिष्यामि । इत्युक्त्वा सुवर्णं च दत्त्वा स गतवान् ।
यदाऽहं कन्यायाः पितरं मीलित्वा तस्मै सुवर्णं दत्तवान्यथार्थं च कथितवान् तदा तस्य नयनाभ्यामपि हर्षाश्रुधारा प्रावहत् । स सर्वमपि यथोचितं कृतवान् । अद्य द्वयोरपि परिवारयोः सुखं शान्तिश्च निराबाधे प्रवर्तेते ।
(सत्यघटना) (अखण्डानन्दपत्रिकासौजन्येन)
द्वेषस्याऽऽयतनं धृतेरपचयः क्षान्तः प्रतीपो विधिव्याक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः । प्राज्ञस्याऽपि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥
Page #94
--------------------------------------------------------------------------
________________
जगत: सौन्दर्यम्
मुनिकल्याणकीर्तिविजयः
दूरवाणी ध्वनिता । मया ग्राहकमुत्थाप्य पृष्टं - 'को भवान् ?' 'अहं सुजित-मोहितेऽस्मि महोदये !' स्वरस्तु परिचित आसीत् तथाऽपि न प्रत्यभिज्ञातः । अतो मया पृष्टं 'कः सुजित-मोहिते?'
'न प्रत्यभिज्ञातो वा ? स्मरतु भवती, अहं मासाष्टकपूर्वं भवत्याः पार्वे आगतवानासीत्, नेत्रचिकित्सायै साहाय्ययाचनार्थम्' ।
'आम् आम् स्मरामि । किन्तु भवानद्य किमर्थमाजिगमिषति ? मत्पाद्येऽद्याऽवकाशो नास्ति, बहूनि कार्याणि कर्तव्यानि । तथा भवतो नेत्रचिकित्सा तु सम्पन्ना एव' ।
'तत् सत्यं महोदये ! । तथाऽपि कृपया पञ्चनिमेषान् ददातु । ततोऽहमवश्यं गमिष्यामि । कृपया मा निषेधतु माम्'।
किञ्चिदिवाऽनिच्छन्त्या मया स आगन्तुमनुमतः । दूरवाणी 'कट्' इति स्थगिता । तथाऽपि ग्राहकं हस्ते एव धारयन्त्यहं कदा विचारधारायां प्रवहितेति तु न ज्ञातम् ।
अष्टभ्यो मासेभ्यः पूर्वं मम कार्यालये एको युवा कनीयस्या स्वीयभगिन्या सह आगतः । सोऽन्ध आसीदिति तु तस्य स-नीलोपनेत्रत्वात् दण्डहस्तत्वाच्च ज्ञातं मया । अहमस्मि समाजसेविकात्वेन विश्रुतेति तेन ज्ञात्वा मया पार्श्वे आगतम् । सोऽतीव मधुरभाषी मुखरश्चाऽऽसीत् । आगच्छतः सत एव तस्य वाग्धाराऽऽरब्धा ।
'महोदये ! अहमस्मि सुजित-मोहिते । इयमस्ति मे लघुभगिनी, मम पिता तु नास्ति । माताऽस्ति किन्तु वृद्धा रुग्णा च । तस्यै कृते औषधार्थं अस्यै कृते च शिक्षणव्ययार्थं नास्ति मत्पाबें धनम् । किन्तु महोदये ! अन्यथा मा चिन्तयतु । अहं तदर्थं धनं याचितुं नाऽऽगतोऽत्र । ममाऽन्धशालायां कार्यं कुर्वतो वेतनं प्राप्यत एव । तच्च सार्धषट्शतरूप्यकमितं प्राप्यते । किन्तु महोदये ! तदपर्याप्तं भवति । यदि मात्रर्थमौषधमानयामि भगिन्याः शिक्षणव्ययं च करोमि तदा मासार्धं किं खादितव्यमिति ....... । क्षम्यतां महोदये ! भवत्याः समयोऽमूल्यः । मम वृत्तश्रवणेन च न कोऽपि लाभः । किन्तु भवत्याः साहाय्यमपेक्षितं ममाऽतोऽत्राऽऽगतोऽस्मि'।
तद्वृत्तश्रवणेन ममाऽपि हृदयमार्दीभूतमासीत् । अतो मयोक्तं - 'किं साहाय्यमपेक्षितं भोः !?' ।
'महोदये ! परह्योऽस्माकमन्धशालायां वैदेशिकः कश्चिच्चिकित्सक आगत आसीत् । तेनाऽहं परीक्ष्योक्तः - "भोः ! त्वन्नेत्रे द्रष्टुं क्षमे एव । केवलं त्वया त्रिसहस्ररूप्यकाणां व्ययो कर्तव्यः । तेन चेमे काचपटले (lens) क्रीत्वा नेत्रपटलाग्रभागे यदि स्थाप्येते तदाऽवश्यं तव दृष्टिः प्रत्यावर्तेत" । क्षणं यावत्त्वहमतिशयं
८४
Page #95
--------------------------------------------------------------------------
________________
हृष्टः । किन्तु त्रिसहस्ररूप्यकाणि कुत आनेतव्यानीति विचार्याऽहं सर्वथा हताशो जातः । तावता तत्रत्यैः कार्यकर्तृभिर्भवत्या नाम सूचयित्वा कथितं यद् – “हताशो मा भूः । एषा महोदयाऽग्रगण्या समाजसेविका। त्वं तस्याः साहाय्यं याचस्व । सा तव कार्यमवश्यं साधयिष्यति" । तच्छ्रुत्वा पुनरपि मम मनस्याशाकिरणाः प्रादुर्भूताः “यदि महोदयैषा साहाय्यं कुर्यात् तदाऽवश्यमहं द्रष्टुं पारयिष्ये । ततश्चाऽधिकं कार्यं कर्तुं शक्ष्ये । ततश्चाऽधिकं वेतनं समुपार्जयिष्ये, फलतश्च सर्वं सुस्थं भविष्यती"ति । किन्तु तत्सर्वमपि भवत्यधीनम् । महोदये ! भवत्याः पार्वे एतदर्थमेवाऽऽगतोऽस्मि । यदि भवती साहाय्यं कुर्यात् कारयेद् वा तदा मे मनोरथवृक्षोऽवश्यं पुष्पितो भविता' ।
सुजितस्य मुखान्निर्गतानि वचनान्येतानि ह्यत्यन्तं भावुकान्यासन् । तैर्मम हृदये विचित्राणि संवेदनानि जागरितानि । अपि च, मम समाजसेविकात्वस्य गौरवमभिमानश्चाऽप्येतेन वर्धेते- इत्येतदपि चित्ते सुखस्पन्दनानि प्रादुर्भावयति स्म । मयोक्तं - 'भवतु, अहं भवत्कृते प्रयत्नान् करिष्यामि । बहुत्र बहुजनानां च कृते मया कार्याणि कर्तव्यानि । किन्तु भवतः परिस्थितिः काचिदन्यैव । भवान् चिन्तां मा करोतु । अहमवश्यं सप्ताहाभ्यन्तर एव भवन्तमाकार्याऽपेक्षितं धनं दास्यामि' ।
तन्निशम्य तस्य मुखं विकसितपाटलपुष्पमिव प्रफुल्लितं जातम् । सोऽत्यन्तं भावुकतया मम हस्तं कथमपि गृहीत्वा कथितवान् यद् - 'यद्येवं भविष्यति तदा महोदये ! अहं भवदुपकारं यावज्जीवं न विस्मरिष्यामि' । मयोक्तं - 'भवतु, भवतु, अहं भवन्तमाकारयिष्ये, भवान् प्रतीक्षतु' ।
स तु गतः । मयाऽपि कथमपीतस्ततोऽटित्वा तदपेक्षितं धनं सञ्चितं तमाकार्य च दत्तम् । स तु मम पादयोरेव पतित आसीत् । हर्षाश्रुक्लिन्नं तत् तदीयं वदनमद्याऽपि न विस्मरामि । ततः स वैदेशिकचिकित्सक पार्वे गत्वा स्वोचिते काचपटले नेत्रपटलयोरग्रभागे योजितवान् । अहो ! आश्चर्यं नाम तस्य दर्शनशक्तिः प्रत्यावृत्ता । स तावान् प्रसन्नो हृष्टश्च जात आसीद् यावान् स्वजीवने न कदाऽपि जातः । एवमेव स्वप्रमोदं प्रकटयन् स मत्पाद्वेऽप्यागतो मां च दृष्ट्वा कथितवांश्चाऽऽसीद् - 'महोदये ! पश्यतु, भवत्याः कृपयाऽद्याऽहं सर्वमपि जगत् पश्यामि । भवत्या आकृतिश्चाऽपि मया यथा कल्पिताऽऽसीत् तथाऽथवा ततोऽप्यधिकं सुन्दराऽस्ति । महोदये ! भवदुपकारमहमाजन्म स्मरिष्यामि' - इत्युक्त्वा स मम पादयोः पतित आसीत् ।
तदनु स गतवान् । अहमपि तदीयं मुग्धत्वं स्मरन्ती स्वीयकार्यव्यग्राऽभवम् । कतिचिद्दिनानन्तरमहं तं विस्मृतवत्यपि । ततोऽद्याऽष्टौ मासा व्यतीताः । स किमर्थमागच्छति- इत्यूहितुं न पारितवत्यहम् । एवं च विचारव्याकुलाऽहमासम् । तावता तस्य स्वरः श्रुतः । स स्वरोऽद्यौदास्यमिश्रित आसीदित्यनुभूतं मया ।
'महोदये ! किमहमागच्छेयम्' । 'आगच्छतु भोः !'।
तस्याऽऽगतवतः सत एव दण्डस्य स्वरं श्रुत्वाऽहमाघातं प्राप्तवती । तावता स दण्डहस्तः सोपनेत्रश्च स्वीयभगिन्या सह दृष्टः । अहं सहसा चीत्कृत्वत्येव - 'सुजित ! सुजित ! किमिदं त्वया कृतम् ?' तेनोक्तं
Page #96
--------------------------------------------------------------------------
________________
'किं वदामि महोदये !? न किञ्चिद् वक्तुं पारये'।
'किन्तु सुजित !' दुःखान्ममाऽक्षिभ्यामश्रूणि निर्गतान्येव, 'तव दृष्टिस्तु प्रत्यागताऽऽसीत्, पुनरिदं किं कृतम् ?'
'महोदये ! यदाऽहं भवत्याः पार्वे प्रत्यावृत्तदृष्टिकः समागतस्तदा मम कृते तु जगदिदं सर्वथा नूतनं सुन्दरं शुभं चाऽऽसीत् । सर्वत्र प्रफुल्लताऽऽह्लादश्चाऽनुभूयेते स्म मम । मम पुनर्जन्म जातमिव भासते स्म । बहवः स्वप्नाऽस्य नूतनजीवनस्य कृते दृष्टा आसन् मया, चिन्तितं चाऽऽसीद् यद् - इतः परं समधिकं परिश्रमं कृत्वा मे मातू रोगान् दूरीकरिष्यामि चिकित्सकद्वारा, भगिनीं च सम्यक् पाठयित्वा चिकित्सिकां करिष्यामि । ततश्च मे जीवनं परमावर्णनीयानन्दपूर्णं भविष्यति' - एवंविधान् स्वप्नान् पश्यन्नहं द्वितीयदिने एव कार्यशोधनार्थं निर्गतवान् । ये केचिदपि मां जानन्ति स्म ते सर्वेऽपि मया कार्यार्थं पृष्टाः, किन्तु पूर्वं तेषां मनसि या सहानुभूतिरासीत् सा दृष्टिप्राप्त्यनन्तरं विलीनीभूताऽऽसीत् । पूर्वं ये मां साहाय्यं कर्तुमुद्यता आसन् तेऽद्य मां प्रत्यभिज्ञातुमपि निषेधन्ति स्म । बहु परिश्रमं कर्तुकामोऽपि यद्यहं कार्यार्थमवसरमेव न लभेय तदा किवा कुर्याम् ? अतो मयाऽनन्यगतिकतया पुनरप्यन्धशालायां गत्वा कार्य याचितम् । तैस्तूक्तं'अत्र केवलमन्धानां कृते एव कार्यकरणावसरः कल्पितो भवति । भवांस्तु दृष्टिमान् । अन्यत्र कार्यं कर्तुं बहवोऽवसरास्तव प्राप्यन्त एव । अतोऽत्र नैवाऽऽगन्तव्यं त्वया' । तथा महोदये ! भवत्याः पार्वेऽप्यागन्तुं चिन्तितमासीन्मया। किन्तु 'पूर्वमेव भवत्या मे त्रिसहस्रं रुप्यकाणि प्रदत्तान्येव । अतः पुनरपि कार्ययाचनार्थं कथं भवत्याः समीप एवाऽऽगच्छेय'मिति चिन्तयित्वा नैवाऽत्राऽऽगतोऽहम् । एवं चाऽहं सर्वथा सर्वतश्च तिरस्कृतो हताशो जातोऽस्मि । अतोऽद्य मया चिन्तितं यद् – 'यदि परमन्धोऽहं पुनरपि भवेयं तदाऽन्धशालायां त्ववश्यं कार्यं लभेय' । ततश्च मयैते काचपटले (lens) नेत्राभ्यां निष्कासिते, पुनश्चाऽन्धो जातोऽस्मि । महोदये ! क्षन्तव्योऽहं भवत्या । किन्तु किं वा करवाण्यहम् ? अनन्यगतिकोऽस्मि । इदं काचपटलद्वयं भवती रक्षतु - अन्यस्य कस्यचन मत्तोऽधिकभाग्यशालिनोऽन्धस्य कदाचिदुपयोगाय भविष्यति' । स मम पुरतस्तदीयं लघुपटिकं कथञ्चिन्मुक्तवान् ।
अहं स्तब्धतया तदक्तं सर्वं शृण्वत्यस्मि । तदीयं दुःखपूर्णमेकैकं वचनं मम हृदयपटलं शर इव विध्यति । अश्रुक्लिन्नं तदीयं वदनं मम मस्तिष्के मुशलाघातमिव करोति । तं कथमिव सान्त्वयामि आश्वासये वेति न वेद्मि । तावता पुनस्तस्य स्वरः श्रुतः - 'अस्तु महोदये ! मया भवत्या अमूल्यः समयो मुधा गमितः । तदर्थं क्षम्यतां कृपया । अधुना साधयामि तावत्...... । किन्तु महोदये ! जगदिदं मया यथा सुन्दरं शुभं नूतनं च कल्पितमासीत् तथा नास्ति महोदये ! तथा नास्ति' ।
एवमुक्त्वा स स्वीयभगिन्या हस्तं गृहीत्वा दण्डेन 'ठक् ठक्' इति शब्दं कुर्वन् कार्यालयतो निर्गतवान् । अहं तत्पृष्ठतो निरीक्षमाणा शून्यदृष्टिकैव स्थिताऽस्मि स्तब्धान्तःकरणा । मम समाजसेविकात्वाभिमानोऽद्य पूर्णतया चूर्णीभूतोऽस्ति ........ ।
(जनकल्याणपत्रिकासौजन्येन)
Page #97
--------------------------------------------------------------------------
________________
भगवदस्तित्वम्
मुनिकल्याणकीर्तिविजयः
महाविद्यालयस्य दर्शनविभागस्याऽध्यक्ष एष प्राध्यापको विविधदर्शनानि पाठयन्नपि सर्वथा नास्तिक आसीत् । भगवान् - इति शब्दोऽपि तन्मनसि जुगुप्सां प्रेरयति स्म । अतः प्रतिवर्षं यदा नूतनं सत्रं प्रारभ्यते स्म तदा स 'अस्मिञ्जगति भगवन्नामकं किञ्चिद् वस्तु सर्वथा नास्त्येवे'ति साधयितुं बहून् तर्कानुपस्थाप्य शतशो दृष्टान्तांश्च प्रस्तृय सर्वेषां विद्यार्थिनां मनांसि तथा परिवर्तयति स्म यत् प्रायः सर्वेऽपि विद्यार्थिनः सत्रान्ते भगवच्छ्रद्धारहिता भवन्ति स्म । ये केऽपि केचिच्छ्रद्धां धारयन्ति स्म तेऽपि तत्पुरतस्तां प्रकटयितुं समर्था न भवन्ति स्म । यतो यो कोऽपि तेन सह वादं कर्तुमुद्यतो भवेत् तं स क्षणमात्रेणैव तर्कवृष्टिं कृत्वा निरुत्तरीकरोति स्म ।
तथा, यदा सत्रान्तव्याख्यानं भवति स्म तदा स प्राध्यापको दर्शनशाखायाः सर्वानपि विद्यार्थिन एकत्र कत्वा प्रखरतर्ककर्कशया वाण्या भगवतोऽस्तित्वस्य खण्डनं करोति स्म । व्याख्यानान्ते चोदघोषयति स्म यद् - 'अधुनाऽपि यदि कस्यचिद् भगवतोऽस्तित्वस्य श्रद्धाऽवशिष्टा स्यात् तदा वदतु' । किन्तु न कोऽपि तत्पुरतो वदितुं शक्नोति स्म, यतः सर्वेऽपि जानन्ति स्म यदिदानीं स किं कुर्यादिति । स हि स्वदक्षिणहस्ते खटिकाखण्डं (Chalkpiece) गृहीत्वा सर्वान् दर्शयति स्म कथयति स्म च - 'भगवतोऽस्तित्वस्यैतावतीभिर्युक्तिभिरुदाहरणैश्च खण्डितत्वेऽपि यदि कश्चन भगवदस्तित्वं मन्येत तदा स न मूर्योऽपि तु महामूर्ख एव । अहं साधिक्षेपं वदामि यद् यदि भगवान् अत्र जगति स्यात् इह चोपस्थितः स्यात् सर्वशक्तिमान् सार्वभौमश्च स्यात् तदाऽमुं खटिकाखण्डं खण्डीभवनाद् रक्षेत् । स यदि न रक्षेत् तदा स नास्त्येवेति सिद्धम्' - एवमुक्त्वा स तं खटिकाखण्डं स्वहस्ताच्च्यावयति स्म भूमौ । तस्य च खण्डीभवनानन्तरं सर्वेषां पुरतो विजयिमुद्रायां स्मितं कृत्वा स व्याख्यानखण्डान्निर्गच्छति स्म ।
८७
Page #98
--------------------------------------------------------------------------
________________
एवं प्रायो विंशतिर्वर्षाणि यावत् प्रवृत्तम् । अथाऽन्यदा कश्चनाऽतीव श्रद्धालुर्भगवति तदीयसर्वशक्तिमत्त्वे च दर्शनशाखायामध्येतुकामो महाविद्यालये प्रविष्टो विद्यार्थी । सत्रारम्भ एव प्राध्यापकेनाऽनेन प्रगल्भया तर्कचातुर्यपूर्णया च वाण्या भगवदस्तित्वखण्डनं समारब्धम् । अयं हि विद्यार्थी तं प्रत्युत्तरयितुं बहुशो विचारयति स्म प्रतिवादं च कर्तुमुत्सुको भवति स्म किन्तु तत्पुरत उपस्थातुमेव भयमनुभवति स्म भगवन्तं च प्रार्थयति स्म यद् - 'भगवन् ! एनं श्रद्धालूकर्तुं मे शक्तिं ददातु' । एवमेव च षट् मासा व्यतीताः । सत्रान्तदिनमुपस्थितम् । यथापूर्वमेव स प्राध्यापकः सत्रान्तव्याख्याने खटिकाखण्डं गृहीत्वोपस्थितः साधिक्षेपं च कथितवान् यद् – 'अधुनाऽपि यदि कश्चन भगवन्तं मन्येत तदा स उत्थितो भवेत्' । श्रुत्वैतत् कथमपि मनसि धैर्यं प्रपूर्याऽयं विद्यार्थी समुत्थितः ।
तं दृष्ट्वैव कोपविस्मयाकुलः स प्राध्यापकोऽत्युच्चैर्गजितवान् – 'रे मूर्ख ! षट्मासान् यावत् राटं राटं मम गलः शुष्को जातस्तथाऽपि त्वं बोधं न प्राप्तः ? पश्येमं खटिकाखण्डं, यदि तव भगवान् स्यादत्र च विद्यमानः स्यात् तदाऽमुं खटिकाखण्डं खण्डीभवनाद्रक्षेत् ? - इत्युक्त्वा स खटिकां पातयितुमुद्यतो जातः । तावताऽनेन विद्यार्थिनोक्तं - 'महोदय ! भगवान् ह्यवश्यमस्ति, अत्र च विद्यमानोऽप्यस्ति । स यधुचितं मन्येत तदाऽमुं खटिकाखण्डं रक्षेदपि' ।
'एवं वा? तहि स तव भगवानपि पश्यतु, त्वमपि पश्यतु, एते सर्वेऽपि पश्यन्तु नामे'ति वदन् प्राध्यापकः खटिकाखण्डं पातितवान् । किन्तु खटिकाखण्डो व्यक्तं भूमौ पतनं न प्राप्य तद्युतकभुजप्रान्तेन घट्टितः सन्नूरुकेऽपसरन् तस्य पादरक्षोपरि पतितः, ततश्च शनैरपसरन् भूमौ तथा पतितो यथा तस्य खटिकाखण्डस्यैकः कणोऽपि न विभक्तो जातः । विंशतौ वर्षेष्वैदम्प्राथम्येन केनचित् तेन सह प्रतिवादः कृत आसीत्, तत्क्षणमेव च तत्प्रमाणमपि प्राप्तम् । एतद् दृष्ट्वा प्राध्यापको विद्यार्थी सर्वोऽपि च वर्गः स्तब्धा जाताः । क्षणद्वयं तु नीरवशान्तिः प्रसृता । ततः सर्वेऽपि भानं प्राप्ता इव करतालैस्तं विद्यार्थिनमभिनन्दितवन्तः । स विद्यार्थी सहस्ताञ्जलिः साश्रुनयनश्च गगनं वीक्षितवान् । प्राध्यापकश्च नतमस्तकः सन् वर्गाद् बहिर्गतवान् ।
__(डॉ. आइ.के.वीजळीवाला - लिखित'अमृतनो ओडकार' इति पुस्तकात् साभारम् ।)
ममाऽहमिति चैष यावदभिमानदाहज्वरः कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यशःसुखपिपासितैरयमसावनर्थोत्तरैः परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ।।
Page #99
--------------------------------------------------------------------------
________________
पत्रम......
मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । तव कुशलं कामये।
पूज्यपादश्रीसूर्योदयसूरीश्वरभगवतां स्वास्थ्यहेतोः कर्णावतीनगरे एव चतुर्मासीं निर्गमयितुं निर्णीतवन्तो वयम् । इदानीं तु तेषां स्वास्थ्यं समीचीनमस्ति ।
"गुरुदेव ! विश्वस्मिन् विश्वे साम्प्रदायिकतामुक्तविचारधारा शनैः शनैः साम्प्रतं प्रसरति । जैनदर्शनं तु प्रथमत एव साम्प्रदायिकतामुक्तमस्ति, इति मया श्रुतं, किन्तु तत् कथम् ? इति न जानामि । ततो मे प्रश्नस्य समाधानं कुर्याद् भवानितीच्छाम्यहम्", इति केनचित् पृष्टम् । तदुत्तररूपेणैतद् लिखामि ।
___बन्धो ! विश्वस्मिन् विश्वेऽद्य बहवो धर्माः प्रवर्तन्ते । तत्राऽपि भारतदेशे तु विशेषतो बहूनां धर्माणां प्रसारोऽस्ति । सर्वेष्वपि ग्रामेषु नगरेषु च प्रतिरथ्यं धर्मस्थानकानि दृश्यन्ते । अहो ! मार्गे पतितेषु लघुषु पाषाणखण्डेष्वपि धर्मबुद्धयेष्टदेवस्याऽऽरोपणं कृत्वा रक्तसिन्दूर-तिल-पुष्प-नालिकेरादिद्वारेण पूजनं क्रियते जनैः । धनिका निर्धना वा, स्त्रियो वा पुरुषा वा, तुच्छकार्यं कृत्वा धनमवाप्नुवन्तो दीनजनाश्चाऽपि स्वेष्टदेवस्य पूजनादिद्वारेण धर्मोपासनां कुर्वन्ति । एवमस्मिन् भारतदेशे विभिन्नधर्मोपासका वसन्ति । ते च स्वकीयाया मान्यताया अनुरूपं महावीर-बुद्ध-राम-कृष्ण-अल्लाह-इशुख्रिस्तेत्यादिकान् स्वेष्टदेवरूपेण स्वीकुर्वन्ति । तेषां भक्तिमार्गे तु नानाविधत्वं वर्तते ।
Page #100
--------------------------------------------------------------------------
________________
भिन्न-भिन्नधर्माणामुपासकेषु सत्स्वपि ये ये जीवा राग-द्वेषौ नाशयन्ति तथा समभावं स्वीकुर्वन्ति ते ते जना एव मोक्षभाजिनोऽभवन् भवन्ति भविष्यन्ति च । सर्वेषामपि धर्माणां सम्मतमस्ति-समत्वमेव मोक्षस्य मूलमस्ति-इति । एवं तेषां चरमलक्ष्यमपि मोक्ष एवाऽस्ति । केवलं समभावः कया रीत्या प्राप्यते तदेव निश्चेतव्यम् । १४४४ शतग्रन्थप्रणेता पूज्यपादश्रीहरिभद्रसूरिराह
एक एव तु मार्गोऽपि तेषां शमपरायणः ।
अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ।। (योगदृष्टिसमुच्चयः - १२८)
यस्य कस्यचिदपीष्टदेवस्याऽवलम्बनेन समभावस्य साधनयैव मोक्षोऽवाप्यते । ततोऽत्र यः कश्चिदपि धर्मोपासको जनो मोक्षमवाप्तुमर्होऽस्ति । आत्मकल्याणस्य कृते बाह्यलिङ्गानि नाऽऽवश्यकानि सन्ति, किन्त्वनुकूलपरिस्थित्यां प्रतिकूलपरिस्थित्यां वाऽनुद्विग्नीभूय समभावपूविकया दृढभावनया निश्चल श्रद्धया च स्वस्वमान्यतानुरूपं यस्य कस्यचिदपि निर्धारितेष्टदेवस्य निराशंसभावेनोपासना करणीयैतदेवाऽऽवश्यकमस्ति ।
महोपाध्यायवाचकश्रीयशोविजयेन कथितम्भावलिङ्गं हि मोक्षाङ्गं द्रव्यलिङ्गमकारणम् ।
(अध्यात्मसारे आत्मनिश्चयाधिकारे - १८३) भवता कियती प्रभूपासना कृता, कियत्तपः कृतं, धर्मकार्येषु कियान् धनव्ययो विहितः - इत्यादिकस्य न मूल्यम्, अपि तु कीदृश्या विशुद्धभावनया कृतमेतत्सर्वमित्यस्यैव मूल्यमस्ति । शुद्धचित्तभावनया कृतोपासनैव कर्मक्षये निमित्तीभूताऽस्ति । निर्मला परिणतिर्विशुद्धा अध्यवसायाश्चैवाऽऽत्मोत्थानस्याऽऽधाररूपाः सन्ति । यावत्यधिकी निर्मला परिणतिस्तावत्यधिकी ज्ञेयाऽऽत्मविशद्धिरपि । यथा यथाऽऽत्मविशद्धिर्वर्धते तथा तथाऽत्मकल्याणमपि झटिति भवति । एतेनैव ज्ञायते यः कोऽपि धर्मोपासको मोक्षभाग भवितुं योग्योऽस्ति ।
उक्तम्
नाऽऽशाम्बरत्वे न सिताम्बरत्वे, न तत्त्ववादे न च तर्कवादे । न पक्षसेवाश्रयणेन मुक्तिः, कषायमुक्तिः किल मुक्तिरेव ।।
(उपदेशतरङ्गिण्यां तपोविभागे)
उक्तं च
बुद्धो जिनो हृषीकेशः, शम्भुर्ब्रह्मादिपुरुषः । इत्यादिनामभेदेऽपि, नाऽर्थतः स विभिद्यते ।।
(परमात्मपञ्चविंशतिका - ९)
Page #101
--------------------------------------------------------------------------
________________
विद्वज्जनकुलावतंसेन पूज्यपादश्रीहरिभद्रसूरिणाऽपि प्रोक्तं च
'सेयंबरो य आसंबरो य बुद्धो य अहव अण्णो वा ।
समभावभाविअप्पा लहइ मक्खं न संदेहो ।। (सम्बोधप्रकरणम् - ३) बन्धो ! जैनदर्शनमनेकान्तवादिदर्शनमस्ति । अत्र सर्वेषामपि स्वीकारोऽस्ति, न कस्यचिदपि तिरस्कारः । अस्मिन दर्शने सङ्कचितताया ममत्वस्य च त्ववकाश एव नाऽस्ति । ये मां पूजयन्ति प्रशंसयन्ति च, ये मम दर्शनं स्वीकर्वन्ति ते एव सिद्ध्यन्ति न कत्राऽप्युक्तम । वस्ततो जैनदर्शनानुयायिन एव सिद्ध्यन्ति, नाऽन्ये - इति केनाऽपि कुत्रचिदपि च नोक्तम् । न चाऽन्येषां निन्दाऽवहेलना चाऽपि कृता । गूर्जरनरेशश्रीसिद्धराजजयसिंहस्य विज्ञप्त्या श्रीहेमचन्द्रसूरिणा गूर्जरराज्ये श्रीसोमनाथमहादेवस्य स्वहस्तेन प्रतिष्ठाऽपि कृता तथा तदैव 'श्रीमहादेवस्तोत्र'नाम्नी स्तुतिरपि रचिता । तत्राऽनेकरीत्या स्तुतिं कृत्वाऽन्तिमश्लोके सूरिणा गदितम्
भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य ।
ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥४४॥ एवमनेकग्रन्थेष्वपि तीर्थकरसिद्ध-अतीर्थकरसिद्ध-स्वयम्बुद्धसिद्ध-अन्यलिङ्गसिद्ध-गृहिलिङ्गसिद्धइत्यादिपञ्चदशप्रकारैः सिद्धा वर्णिताः । एतेनैव ज्ञायते यः कश्चिदपि मोक्षं गन्तुं समर्थोऽस्ति तथा जैनदर्शनं साम्प्रदायिकतामुक्तदर्शनमस्ति, इति ।
तथाऽप्याश्चर्यमेतदेव यत्, सर्वेषामपि धर्मसम्प्रदायानामुपासका: “अस्माकं धर्मशासनं योऽङ्गीकरोति स एव मोक्षस्य कृते योग्योऽस्ति, यो नाऽङ्गीकरोति तस्य कल्याणं न भवेत्- इति मन्यन्ते कथयन्ति च' । एतद् विषं तु सर्वत्र प्रसृतमस्ति । भो ! महावीरेण बुद्धेन रामेण कृष्णेन पयगम्बरेण ईशुना वैतादृशंन कदाऽप्युक्तं, किन्त्वेतादृशं दुराग्रहयुक्तं मिथ्यावचनं त्वस्मादृशा महत्वाकाङ्क्षिणोऽहङ्कारिणश्चाऽनुयायिन एव वदन्ति । अत्र कैश्चित् स्वमताग्रहेण, कैर्मतस्य प्रगाढभक्त्या, कैश्चाऽन्येभ्यो वयं श्रेष्ठा इति प्रस्थापयितुमेवमुक्तम् । स्वमहत्ता प्रस्थापयितुं किञ्चिद् नूतनमेव करणीयं स्यादिति मत्वा तैस्तैर्महत्त्वाकाङ्क्षिभिरनुयायिभिः स्वस्वसम्प्रदायेषु नवनवा मान्यता प्रस्थापिता । अन्ते सा सा मान्यतैव तत्तदर्शनरूपेण परिणता । अस्याः प्रवृत्त्याः फलमेतदागतं यद्, धर्मसम्प्रदाया मानवेभ्यो मानवान् भिन्नीकरणस्याऽहङ्कार-रागद्वेषादिप्रवर्धनस्य च साधनरूपाः सञ्जाताः । महावीरस्य बुद्धस्य चोपासका 'वयं श्रेष्ठाः', कृष्णस्य रामस्य चोपासका 'वयं श्रेष्ठाः', एवं सर्वेऽपि धर्मोपासकाः स्वमेव श्रेष्ठा मन्यन्ते, अन्ये सर्वेऽपि निम्ना इत्यादयो बहवो विकल्पा जाताः ।
श्वेताम्बरश्च आशाम्बरश्च बुद्धश्चाऽथवाऽन्यो वा। शमभावभावितात्मा लभते मोक्षं न सन्देहः ।। (एतदपि दर्शनीयम् - पूज्यश्रीआनन्दघनमहाराजेन श्रीपार्श्वनाथप्रभोः स्तवने प्रोक्तं - राम कहो रहेमान कहो,कोउ कान्ह कहो महादेवरी पारसनाथ कहो कोउ ब्रह्मा, सकल ब्रह्म स्वयमेवरी, इति ।)
९१
Page #102
--------------------------------------------------------------------------
________________
बन्धो ! भिन्न-भिन्नाः सम्प्रदायास्तु सामाजिकव्यवस्था आसन्, न तु धर्मव्यवस्थाः । जीवनं सरलं स्यात्, व्यवहारोऽपि सुकरः स्यात्, इत्यर्थमेषा व्यवस्था कृता; किन्तु कालक्रमेण सम्प्रदाया एव धर्मा जाताः । ततस्तस्य तस्य सम्प्रदायस्याऽनुयायिनोऽनुक्रमेण जैनाः, बौद्धाः, शैवाः, वैदिकाः, मुस्लिमाः,
जैस्ताः इति रूपेण प्रसिद्धा जाताः । पश्चात्त्वेकस्यैव धर्मस्याऽनुयायिष्वपि विभागा जाताः । एकस्याऽनुयायिनो विरोधपक्षवद् द्वितीयस्याऽनुयायिनो निन्दन्ति तिरस्कुर्वन्ति च । अहो ! एकमेव धर्मं गुरुं मतं चोररीकुर्वन्तो जना अपि परस्परं क्लेशादिकं कुर्वन्ति-एतत्त्वतीव लज्जास्पदमस्ति । यदा सामाजिकव्यवस्थास्वरूप: सम्प्रदायोऽपि धर्मरूपेण स्वीकृतस्तदैवेतद् दुःखं पापं च प्रकटीभूतम् ।।
भोः ! किं नाम धर्मः ? यः सत्कार्ये नीति-सत्यनिष्ठा-सात्त्विकतादिसद्गुणेषु मानवान् संयोजयति न त वियोजयति, समाधानं समादरं च शिक्षयति न तु तिरस्कारमनादरं च, अन्येषां लघुमपि गुणं स्वीकर्तुं कथयति न तु महादोषमपि, राग-द्वेष-मोहवृत्तिं विहाय प्रेम-करुणा-वात्सल्यं च ग्रहीतुं शिक्षयति । एवं धर्मो न सङ्कचिततायां तुच्छतायां च किन्त्वौदार्ये गम्भीरतायां चाऽस्ति ।
पूज्यपादश्रीहरिभद्रसूरिणा षोडशकप्रकरणे कथितं यत्, स्वतो हीनवृत्तिमत्सु जीवेष्वपि द्वेषस्तिरस्कारश्च न करणीयः - एतत्तु धर्मप्राप्तौ सोपानमाद्यम् । एवमहितकरेषु जीवेष्वपि प्रेम-वात्सल्यं च करणीयम् - एतत्तु धर्मसिद्धेर्लक्षणमस्ति । अत एव मयोक्तं धर्म औदार्ये गम्भीरतायां चैवाऽस्ति ।
बन्धो ! अस्माकं दुर्भाग्यं यद, यो धर्मोऽस्मभ्यमौदार्यादिगणानां स्वीकारार्थं समादिशति तस्य धर्मस्य व्याजेनैव वयं सङ्कुचितता-तिरस्कार-क्लेशादिकं कुर्मः । सर्वत्र स्वधर्मस्य प्रचारं विस्तारं च प्रवर्द्धयितुं चित्ते उन्मादो जागृतोऽस्ति । ततोऽन्येषां धर्मरीतिं निन्दित्वा त्रोटयित्वा च स्वस्वधर्म प्रवर्धयितुं प्रयतामहे । किन्त्वेष न धर्मोऽपि तु सम्प्रदायमोहः । सम्प्रदायमोहो नाम दृष्टिरागः । दृष्टिरागो जीवने न कदाऽपि समत्वं ददाति । अपेक्षया स्नेहरागादपि दृष्टिरागोऽतिभीमोऽस्ति । स्नेहरागोऽपाकर्तुं शक्यः, किन्तु दृष्टिरागस्तु सतामपि दुरुच्छेदः । दृष्टिरागस्तु चित्तेऽहङ्कारमुन्मत्ततां च जनयति न तु समत्वम् । यावन्न चित्ते समत्वं स्थिरीभूतं तावद् मोक्षसुखस्य वार्तयाऽलम् ।
___ अन्ते, जैनोऽजैनो वा यः कश्चिदपि समत्वस्याऽऽलम्बनेन मोक्षसुखं प्राप्तुं शक्तोऽस्ति । ततस्त्वमपि समत्वस्याऽऽचरणेन झटिति शिवसुखमनुभवः - इत्याशासे ।
Page #103
--------------------------------------------------------------------------
________________
ग्रन्थसमीक्षा
'आजादचन्द्र शेखरचरितम्'
(खण्डकाव्यम्)
(समीक्षक: डा. रूपनारायणपाण्डेयः, मनीकापूरा, सोराम:, प्रयाग: (उ.प्र.) प्रणेताः स्वामीरामभद्राचार्यः
प्रकाशक: श्रीराघवसाहित्यप्रकाशननिधिः
वसिष्ठायनम्, रानी गली, भूपतवाला, हरिद्वार: (उ.प्र.) ।
प्रथमसंस्करणम् - विक्रमाब्दः २०५३ । पृ. सं. ८ + १०० । मूल्यम् - ३१ रुप्यकाणि ।
वीरभोग्या वसुन्धरा । भारतवर्षस्य स्वाधीनतायै यैर्वीरप्रवरैः क्रान्तिकारिभिश्च स्वप्राणाः सहर्षं बलिवेद्यां समर्पिताः, तेषु क्रान्तिकारिशिरोमणिः आजादचन्द्रशेखरः प्रमुखो वर्तते । तस्यैव महनीयकीर्तेश्चरितं ‘आजादचन्द्रशेखरचरितम्' इति खण्डकाव्ये कविवरेण श्रीगिरिधरमिश्रेण वर्णितम् । ग्रन्थप्रणयनकाले श्रीमिश्रमहाभागः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्याचार्यद्वितीयवर्षीयच्छात्रोऽभूत् । साम्प्रतं सः 'स्वामी रामभद्राचार्यः' इति नाम्ना विश्रुतः सर्वाम्नाय श्रीतुलसीपीठाधीश्वर - श्रीमज्जगद्गुरुरामानन्दाचार्य-पदमलङ्करोति ।
९३
Page #104
--------------------------------------------------------------------------
________________
अस्य ग्रन्थस्य पूर्वार्धे १५१ पद्यानि विलसन्ति, उत्तरार्धे च १५५ । पूर्वार्धे-उत्तरप्रदेशे उन्नावजनपदे सीतारामत्रिपाठी निवसति स्म । स जगरानिनाम्नी पत्नीमङ्गीकृतवान् । तस्मिन् काले दासतापाशबद्धा भारतीया वयांसीव करुणं रुरुदुः । तौ दम्पती देशं विपद्ग्रस्तनमनुभूय, साम्राज्यवादस्य विनाशकारी सत्क्रान्तिकारी चाऽस्माकं सुतः स्यादिति विचार्य, शिवमन्दिरं च गत्वा शिवं स्तुतवन्तौ ।
'न वाञ्छावः स्वर्गं वरद ! न च निर्वाणपदवीम् न वा प्राज्यं राज्यं न च सुरपपौरन्दरपदम् । न सिद्धि नो विद्यां न च धनद ! वित्तं न च सुखम् ।
विमुक्तां काङ्क्षावो हर ! परकराद् भारतमहीम्' (आ०, पू० ३३) शिवप्रसादेन पञ्चमपुत्रत्वेन जगरानिदेवी चन्द्रशेखरं १९०६ ख्रिष्टाब्दे जुलाईमासे त्रयोविंशे दिनाङ्के जनयामास । पितुः कलप्रयत्नैः शिशुः चन्द्रशेखरः प्रतिदिनं चन्द्र इव शुक्लपक्षे ववृधे । प्रारम्भतः तस्य स्वातन्त्र्यनिष्ठां भयशून्यतां च विलोक्य बाला हृदयेन तं नेतारं स्वीचक्रुः । स कदाचिच्छिवप्रतापविचित्रचित्राणि विलोक्य, तयोस्त्यागमदम्यवीर्यं द्विषद्विरोधं निजधर्मनिष्ठां च संस्मृत्य, तौ च भक्तिभावेन शिरसा प्रणम्य प्रतिज्ञां चकार -
'यावन्न गौराङ्गकुनीतिभीतिभीतामिमां भारतवर्षभूमिम् ।
मुक्तां विधास्ये परतन्त्रतातस्तावन्न यास्यामि सुखं न शान्तिम् ॥' (आ., ५.८२)
इत्थं प्रतिज्ञाय स सदा जगतीविलासाद् विरतः स्वतन्त्रप्राप्तिनिमित्तभूतयत्नान् अन्वपश्यत् । क्रान्तिबलेन स्वतन्त्रतामानेतुकामः स संस्कृतभाषां पठितुं काशी जगाम । त्रयोदशाब्दः स तत्र बालान् आहूय सपत्नसैन्यम् आन्दोलयामास । 'क्व ते गृहं का च तवाऽस्ति माता, कस्ते पिता किं च तवाऽभिधानम् ?' इति दण्डाधिकारिणा पृष्टः स समुवाच - 'कारा मेऽस्ति गृहं च भारतमही माता मनोज्ञा मम, श्रीरामोऽस्ति पिता समम्यजरिपूनाजादनामास्म्यतः ।' (आ०, ५. १२६) वेत्रैः तं पञ्चदशकृत्वः प्रहर्तुं स दण्डाधिकारी समाख्यत् । वेत्रैः परिताड्यमानः स भूमौ पपात किन्तु प्रतिज्ञां न जहौ । एवं साहसादिगुणैः मित्राणि प्रोत्साहयन्, शत्रून् परितापयन् स प्रवीरः स्ववयसः पूर्वार्धे हि महतीं कीर्तिमर्जयत् ।
उत्तरार्धे च - अमन्दशौर्या आजादमुख्या गृहवैभवादितृणाय मत्वा क्रान्ति प्रारेभिरे । अस्त्रशस्त्रक्रयाय सैन्यसञ्चालनाय चाऽर्थस्याऽपेक्षां विचार्य ते विगहितमपि दस्युवृत्तिं स्वीचक्रुः । चन्द्रशेखरेण प्रेरिता रामप्रसादबिस्मिलादयः काकोरिनामस्थले शासकीयं कोषं लुलुण्ठः । चन्द्रशेखरं भक्तसिंहं च विहाय निगृहीताः सर्वे क्रान्तिकारिणो रामप्रसादबिस्मिलादयो गलबन्धतीर्थे शरीरं जहुः । शोकापन्नोऽपि चन्द्रशेखरो गूढवपुः समस्ते देशे स्वसैन्यं विपुलीचकार । आजीवनं मारुतिवत् स ब्रह्मचर्यव्रतं दधार, वने रणे भीषणसङ्कटे च धृतिं न तत्याज । यदा यदा दानववृत्तिगौराः प्रह्लादकल्पान् भारतीयान् किल प्राघर्षयन्, तदा तदा ते नृसिंहसदृशेन तेन विमर्दिताः । तैः स प्रवीरोऽज्ञातवासा पाण्डुपुत्रा इव वशं नाऽऽयात् । तन्निग्रहकारिणे
९४
Page #105
--------------------------------------------------------------------------
________________
पञ्चसहस्रमुद्राः प्राघोषि । क्रान्तौ रतस्य सुगुप्तवेशस्य तस्याऽष्टसमाः सुखेन गताः । १९३१ तमे ख्रिष्टाब्दे सप्तविंशे दिनाङ्के तीर्थराजे प्रयागे आल्फ्रेडपार्कमध्ये तस्य स्थितिः केनाऽपि राष्ट्रद्रोहिणा नीचेन शासकसैनिकेभ्यः सूचिता । गौरविशालसेनाऽपतत् । गजान् विलोक्य व्याघ्र इव स शत्रुसंहारे समुद्यतो बभूव । कथमपि शत्रवस्तं हन्तुं नाऽशक्नुवन् । प्रदोषे स सुभटः कोटिशः शत्रणां कदनं विधायाऽन्ते च स्वगोलिकया 'आजादः' इत्यभिधया भुवि शाश्वतोऽभूत् ।
अस्य ग्रन्थस्य हिन्दीरूपान्तरं सुश्रीगीतादेव्या विहितमस्ति । ग्रन्थात् प्राक् प्रानिवेदनं प्रणेतुः, जीवनजाह्नवी, श्रीशिवजी-उपाध्यायस्य च शुभाशंसनं च विराजन्ते ।
राष्ट्रभक्ताग्रगण्येषु प्रमुखस्य क्रान्तिकारिप्रवरेषु च सत्तमस्य श्रीमतश्चन्द्रशेखरस्य समग्रमद्भुतं परमोदात्तं सततं सम्प्रेरकं महनीयतरं चरितमैतिहासिकतथ्यानुरूपं काव्येऽस्मिन् विलसतितराम् । भगवान् शङ्कर एव भारतस्य दासताया निवारणाय चन्द्रशेखररूपेण स्वांशेनाऽवतीर्ण इति ग्रन्थकारो मन्यते । (आ०, ५.३८)
चन्द्रशेखरस्य बाल्यजीवनस्य रम्यमङ्कनमत्र विराजते । (आ., पू. ५२-६५)
तस्य मनसि राष्ट्रस्य स्वाधीनतायै तीव्रतरा व्यथा बाल्यकालादेव विद्यते । स बालकान् समाहूय जगर्ज
'क्लैब्यं त्यजन्त्वाशु समे सखायो भवन्तु राष्ट्राय समुद्यताश्च ।
धिग् जीवनं नो जननी यदीया हस्ते गता सीदति वैरिणां वै ।' (आ., पू ११३)
यौवने देशस्य स्वतन्त्रतायै तस्य नितरामपूर्वा क्रान्तिरेव नाऽत्र रम्यतया प्रस्तूयते, अपि तु तस्य चरितस्य दिव्यता शुचिता देशभक्तिः मातृभक्तिश्चाऽपि हृदयहारिण्या भाषयोपस्थीयते । (द्र० - आ., उ. ८२-१०८)
भारतभूमेरेकं मनोहरं चित्रं द्रष्टव्यतरमस्ति ।
'नीलोत्पलश्यामलदेहकान्तिः क्लान्ति हरन्ती प्रसभं महिम्ना । सुरेन्द्रवन्द्या नितरामनिन्द्या, जयत्यसौ भारतभूमिरीड्या ।। हिमाद्रिविन्ध्याचलमुख्यशैलैः संशोभ्यमाना कृतवेदगाना । लसद्विमाना धृतभूरिमाना धर्मं दधाना जयतान्महीयम् ॥'
(आ०, उ० १०२-१०३) अस्य ग्रन्थस्य हिन्दीरूपान्तरं ग्रन्थस्य गूढं भावमाविष्करोति । इत्थमनेककाव्यगुणैः समलङ्कृतं खण्डकाव्यमिदं सर्वैः संस्कृतज्ञैर्भारतीयसंस्कृतिमुपासकैश्च समाराधनीयं सङ्ग्रहणीयं च विद्यते । जयतु संस्कृतं संस्कृतिश्च ।
Page #106
--------------------------------------------------------------------------
________________
NAVODA
कथा
शान्ति: मुनिरत्नकीर्तिविजयः
"शान्ति निरूपयन्ति चित्राण्यालेख्य प्रदर्शनीयानि । श्रेष्ठतमस्य चित्रस्य कृते हि पुरस्करिष्यते चित्रकारः" - इति राजा कश्चित् समुद्घोषितवान् ।
उद्घोषणां श्रुत्वाऽनेके चित्रकृतस्तदनुरूपाणि चित्राणि सज्जीकृत्य प्रदर्शितवन्तः । पुरजनाः सर्वेऽपि निरीक्षितुं समागताः । राजाऽपि सावधानमेकैकं कृत्वा सर्वाण्यपि चित्राणि निरीक्षितवान् परीक्षितवांश्च । अन्ततो द्वे चित्रे तस्मै बह्वरोचताम् । अथ द्वयोर्मध्यात् किं श्रेष्ठमिति तेन निर्णेतव्यमासीत् । ते द्वे अपि चित्रे स पृथक् कारितवान् ।
एकस्मिंश्चित्रे शान्तः कश्चित् सरोवरो दर्शित आसीत् । तस्य सरोवरस्य परित उन्नता वनस्पत्याच्छादिता रम्याः पर्वता आसन् । नीलवर्णं स्वच्छं च गगनं, गगनेऽपि यत्र तत्र कार्पासपुञ्जा इव श्वेतवर्णा मेघाः..... । सर्वमेतच्च सरोवरस्य शान्ते पयसि प्रतिबिम्बितं भवति स्म ।
चित्रादेतस्मादभिव्यज्यमाना शान्तिर्यस्य कस्याऽपि दर्शकस्य हृदयमावर्जयति स्म ।
अपरस्मिश्च चित्रेऽपि यद्यपि पर्वतास्त्वालेखिता एव किन्तु सर्वथा शुष्का विषमाश्च । गगनमपि रौद्ररूपं दर्शितमासीत् । मुशलधाराभिर्वर्षाभिविद्युतश्च चण्डनिर्घोषेण भयावहं वातावरणं तत्र सष्टमासीत् । पर्वतानां मध्यात् प्रचण्डवेगेन जलप्रपातो झरन्नासीत् । चित्रे शान्तिस्तु नाममात्रमपि नाऽऽसीत् ।
किन्तु, सूक्ष्मेक्षिकया निरीक्षणेन राजा तत्र दृष्टवान् - जलप्रपातस्य पृष्ठे विदीर्णशिलोच्चयमध्ये लघुः कश्चित् क्षुपः प्ररूढोऽस्ति । तन्मध्ये च केनचित् पक्षिणा नीडो निर्मितोऽस्ति । वेगेन प्रपततो जलप्रपातस्य प्रचण्डनिर्घोषे सत्यपि स पक्षी स्वनीडेऽत्यन्तं शान्तमुपविष्टोऽस्ति - इति ।
एतदेव चित्रं श्रेष्ठतमत्वेन चितवान् राजा । तदर्थमेव चोपायनं दत्तवान् । यतो यत्र कोलाहलो न स्यात् तत्र शान्तिः स्यादेवेति नाऽस्ति कश्चिन्नियमः, किन्तु कोलाहलमध्ये आपत्काले चाऽप्यन्तःकरणस्य या निश्चलता सैव शान्ति म !
Page #107
--------------------------------------------------------------------------
________________
कथा
दु:खमुक्तेकपाय:
मुनिरत्नकीर्तिविजयः
जनः कश्चिदत्यन्तं दुःख्यासीत् । उद्विग्नः स दुःखाद् मुक्त्यर्थं कञ्चिद् महात्मानमाश्रितवान् । सर्वं च स्ववृत्तं स निवेदितवांस्तस्मै । तस्य दुःखनिवेदनं श्रुत्वा महात्मा तमुक्तवान् - भो ! मुष्टिमितं लवणमिदं गृहीत्वा चषकमिते जले निक्षिपतु ।
-----
कृतं खलु ? अथ जलमेतत् पिबतु ।
------
पीतं किल? कीदृशः स्वाद आसीज्जलस्य ? अतिलवणितं जलमासीत् – मुखं विकृत्य थूथूत्कारपूर्वकं स प्रत्युत्तरितवान् ।
मन्दं मन्दं हसन् महात्मा पुनस्तं मुष्टिमितं लवणं ग्रहीतुमादिष्टवान् । आसन्नवर्तिनश्च सरोवरस्य तीरं गत्वा - 'लवणमेतदस्मिन् सरोवरे निक्षिप्य तज्जलमप्यास्वादयतु' इति निर्दिष्टवान् स महात्मा । सोऽपि तस्याऽऽदेशमनुसृतवान् ।
- हम्.... किंस्वादमिदं जलमासीत् ? - पृष्टवान् महात्मा । - मधुरमिदम् । - एवम् ? लवणितं नाऽनुभूतम् ? - न हि। अथ महात्मा स एतस्याः क्रियाया रहस्योद्घाटनमिव तमुपदिष्टवान्
- वत्स ! जीवने समापतन्त्यः सर्वा अपि विपदो मुष्टिमितलवणप्रमाणा एव भवन्ति । नाऽधिका नाऽपि च न्यूनाः । केवलं कीदृशे पात्रे ता गृह्यन्ते इत्यत्र सर्वमवलम्बते । सम्यग्बोधस्य पात्रं यद्यस्माकं विशालं स्यात् तहि समापतिता विपदोऽपि सरोवरे निक्षिप्तं लवणमिव क्षीणप्रभावाः स्युः । यतो बोधविस्तार एव निस्तारो दुःखेभ्यः । दृष्टिकोणं परिवर्तयतु सुखी च भवतु ।
९७
Page #108
--------------------------------------------------------------------------
________________
कथा
क्षुधित: फकीरः
मुनिकल्याणकीर्तिविजयः
__ 'श्रेष्ठिन् ! अहमतीव क्षुधातुरोऽस्मि, किञ्चिद् खादितुं ददातु कृपया' – पृष्ठतः सहसैतच्छ्रुत्वा जितुभाईशाहः तन्मित्रं त्रिवेदिमहोदयश्चेति द्वावपि मुखं परावर्त्य विलोकितवन्तौ । स आसीदेकः खञ्जः फकीरः । श्यामवस्त्रावृतो देहः, कण्ठे रक्त-पीतादिवर्णमय्यः पञ्चषा मालाः, दी? श्मश्रू-कूचौं, मस्तके श्यामवर्णं वस्त्रबन्धनं, कक्षे कक्षावलम्बनी यष्टिका, मुखं च क्षुद्वेदनाकुलम् ।
द्वावपि सुहृदौ शङ्केश्वरपार्श्वनाथतीर्थं प्रति तीर्थयात्रार्थं प्रस्थितावास्ताम् । जैनेषु तीर्थेषु शङ्केश्वरतीर्थमतीव विश्रतम । सर्वोऽपि हि जैनस्तत्तीर्थयात्राकरणार्थमत्को भवत्येव । अनयोरपि द्वयोस्तत्तीर्थं प्रति पार्श्वनाथभगवन्तं च प्रति हार्दा भक्तिरनन्या श्रद्धा-चाऽऽस्ताम् । अतो द्वाभ्यामपि परस्परं निश्चितमासीद् यद् - 'यदा कदाचिदप्यवकाशश्चेत् प्राप्येत तदा तीर्थयात्रा करणीया - सार्धमेव, तथा तीर्थं गत्वा श्रीपार्श्वनाथभगवतः पूजनादि करणीय'मिति ।
जितुभाई शाह: जैन आसीत् । तस्य तु कुलपरम्परया बाल्यादेव तीर्थकरभगवतः प्रति दृढा श्रद्धाऽऽसीत् । तीर्थयात्रादिकरणतश्च सा प्रत्यहं दृढतरा जायमानाऽऽसीत् । त्रिवेदिमहोदयस्तु निवृत्तः शासकीयाधिकारी आसीत् । स नाऽऽसीज्जन्मतो जैनः, किन्तु जितुभाईमैत्र्या तेन सार्धं सर्वत्राऽपि गतागतं कुर्वतस्तस्य हृदयेऽपि तीर्थं तीर्थङ्करं च प्रति सद्भूता श्रद्धा भक्तिश्च समुदिते । अतो यदा कदाऽपि स तेन सह तीर्थयात्रार्थं प्रतिष्ठते स्म।
ह्य एव जितुभाई तं दूरभाषेण पृष्टवानासीत् – 'किमाजिगमिषति ?' 'कुत्र?' तेन प्रतिपृष्टमासीत् । 'शङ्केश्वरतीर्थं भोः !'
'अवश्यं वयस्य !, तीर्थयात्रा त्वस्माकं श्रद्धां पुष्णाति । अस्मिश्च कलिकाले श्रद्धैवाऽस्माकं जीवने उत्साहं प्रेरयति शक्तिं च वर्धयति । अहमवश्यमागमिष्यामि' ।
Page #109
--------------------------------------------------------------------------
________________
ततो द्वावपि सपरिवारौ प्रग एव कार्यानेन प्रस्थितौ । होरार्धेनैव हि तौ अहमदाबादतः प्रायस्त्रिंशत्किलोमिटरदूरे स्थितं साणंद-नगरमतिक्रम्याऽग्रे गतौ । कार्यानं वेगेन गच्छदासीत् । तेन सह श्यामवर्णो मार्गोऽपि धावन्निवाऽभिलक्ष्यते स्म, तथा मार्गस्य पार्श्वद्वये स्थिता वृक्षा अपि ननु धावन्त एवाऽदृश्यन्त ।
मार्गस्त्वनन्त इव सुदूरं गच्छति । स हि सर्वानपि नयति यत्र कुत्राऽपि । केवलं गन्तव्यं मनसि निश्चितं भवेत् । अत्र तु कार्यानस्थितानां सर्वेषामपि मनसि एकमेव ध्येयमासीत् – शङ्केश्वरतीर्थम् । तत् प्राप्तुं काऱ्यानं वेगेन धावदासीत्, सर्वेषां मनांस्यपि तेन सहैव धावन्त्यासन् ।
सार्धघण्टामितेनैव कालेन ते विरमगाम-नगरं प्राप्ताः । रेल्-वेसमपार(crossing)पार्वे एव त्रिवेदिमहोदयेनोक्तं – 'जितुभाई ! यानं स्थगयतु, किञ्चित् प्रातराशादिकं कृत्वैवाऽग्रे गच्छेम' । 'भवत्वि'त्युक्त्वा जितुभाई यानं मार्गप्रान्ते स्थगितवान् । सर्वेऽपि बहिरागताः । चाय-पानादिकं कर्तुं यावत् ते प्रस्थितास्तावतैव पृष्ठत आगतः स फकीरो याचमानः । द्वावपि सुहृदौ तन्मुखं विलोकितवन्तौ – 'नूनमस्य मुखे क्षुधाकुलत्वं लक्ष्यते । प्रायशः द्वित्रदिनैरप्यनेन न किञ्चित् खादितं स्यात्' । स उदरं हस्तेन संस्पृशन् वदन्नासीत् – 'अये खुदाभक्तौ ! किञ्चिद् ददतामशितुम्' ।।
जितुभाई परितो दृष्टवान् । पार्वे एव एकस्मिन् हट्टे भाणि भृज्ज्यन्ते स्म । उत्तप्ते तैलपूर्णे भाजने 'छम्' इति शब्देन पिष्टखण्डः पतति स्म क्षणार्धेन च भयं पक्वीभूय तैले तरति स्म । तद् दृष्ट्वा स पुनरपि फकीरमुखं दृष्टवान् । तत्र क्षुद्वेदनाऽङ्किताऽऽसीत् इतश्च तदुपशमनमासीत् । अतः स हट्टं गत्वाऽऽपणिकाय 'द्विशतग्राममितानि भया॑णि पुटके बद्ध्वा ददातु' इति आदिष्टवान् । तेनाऽपि तत्कालमेव पुटकं बद्ध्वा दत्तं, जितुभाई च तत् स्वीकृत्य यथोचितं मूल्यं दत्तवान् । ततः फकीरपाइँ गत्वा तस्य ग्रहणोत्सुकयोर्हस्तयोस्तत् पुटकं मुक्तवान् उक्तवांश्च – 'खादतु भोः !' ।
'सलाम् श्रेष्ठिन् ! अल्लाह उदारहृदयाय भवते बहु दास्यति' इत्येवं तमाशीभिरनुगृह्य स एकस्य विशालनिम्बवृक्षस्याऽधस्ताद् बद्धे पीठके उपविष्टः । जितुभाई तमेव पश्यन्नासीत् ।
इतश्च रेल्-मार्गे यातायातं प्रचलदेवाऽऽसीत् । आगते हि रेल्-याने समपारद्वारे पिधीयेते स्म, गते च तस्मिन् ते उद्घाट्येते स्म । तत उभयतोऽपि जनानां वाहनानां च सम्मर्द एव प्रचलति स्म, कोलाहलेन समग्रोऽपि परिसरो मुखरितो भवति स्म । रेल्-पट्टिकाया समान्तरमेवाऽऽसीद् विरमगामनगरम् । अतः समपारपाश्र्वे एवैका विपणिरिव विकसिताऽऽसीत् । लघूनि उपाहारगृहाणि अन्ये ऽपि च दैनन्दिनव्यवहारोपयोगिवस्तूनामापणास्तत्राऽऽसन् । जितुभाईत्रिवेदिमहोदयश्चाऽपि तत्रैवैकस्मिन् उपाहारगृहे चाय-पानादि कर्तुमुपविष्टावास्ताम् ।
अथ तावतैको जनो, यो चिरादेव तयोश्चेष्टितं पश्यन्नाऽऽसीत् स, तत्राऽऽगत एतयोश्च समीप एवोपाविशत् । फकीराय जितुभाई यद् भर्त्यपुटकं दत्तं तदपि स दृष्टवानासीत् । स तौ द्वावपि समुद्दिश्य कथितवान् - 'श्रेष्ठिन् भवतेदं समीचीनं नैव कृतम्' ।
Page #110
--------------------------------------------------------------------------
________________
'कथमिव ?' जितुभाई पृष्टवान् । 'भवता तस्मै खञ्जफकीराय भर्घ्यपुटकं दत्तं किल?' 'आम् दत्तम्' ।
'श्रेष्ठिन् ! ईदृशा जनास्तु न कदाऽपि सत्यं वदन्ति, अपि च यथा-कथमपि व्याकुलतादेरभिनयं कृत्वा याचमाना नैव लज्जन्ते' ।
'तन्नाम ?'
'तन्नाम फकीरोऽयं क्षुधितोऽपि न स्यात् तृषितोऽपि नैव स्यात्, केवलं भाणि दृष्ट्वा लालाक्लिन्नः स जिह्वालौल्येनैव भवादृशो दयालून् दृष्ट्वा याचितवान् । भवता दत्तं च खादित्वा.... स पुनरपि भवत्पार्श्व एव याचितुमागमिष्यति । स पुनः पुनरेवमेव करिष्यति । अहमीदृशान् वञ्चकान् सम्यग् जानामि । स भवन्तं वञ्चितवानेव' ।
भवतु नाम स मां वञ्चितवान् असत्यं चाऽपि कथितवान्, तत्र नाऽस्ति मे काचिद् बाधा। भाणि तु तस्योदर एव पतिष्यन्ति ननु । अत एव धनमददता मया तस्मै खाद्यमेव दत्तम्' - इति जितुभाई उक्तवान् ।
'तत् तु सत्यमेव'।
तावता त्रिवेदिमहोदयेनोक्तं - 'जितुभाई ! पश्यतु तत्र वृक्षच्छायायाम्' । जितुभाई तत्रैव दृष्टवान् । विशालो निम्बवृक्षो विलसन्नासीत् । तस्य स्कन्धस्य परित एकं विशालं पीठकं बद्धमासीत्। शीतलो वायुस्तत्र वाति स्म । पीठके एव फकीर उपविष्ट आसीत् । तस्य पुरतश्च भयंपुटकं स्थापितम् । फकीरेण तत् पुटकमुद्घाटितम् । भाणि चक्षुर्गोचरीभूतानि । स्वादूनि भाणि, तेषां गन्धोऽपि मन आह्लादयति । फकीरेणैकं भयं हस्तं लम्बयित्वा गृहीतम् । क्षणार्धेनैव तत् तस्य मुखे प्रवेक्ष्यति ततश्च तदुदरं....
किन्तु नहि.... तत्राऽन्यैव काचिदकल्पिता घटना घटिता। सर्वेऽपि तत्रैव पश्यन्त आसन् । जितुभाई त्रिवेदिमहोदयस्तयोः पत्न्यौ स चाऽऽगन्तुको जनः । फकीरे स्वहस्तेन भयं गृहीतवत्येव कुतश्चित् कश्चनैक: श्वा तत्पुरत आगत्योपविष्टः 'धसिति' । तस्योदरं शिथिलं जातमासीत्, कर्णौ लम्बमानौ, जिह्वा मुखाद् बहिनिःसृताऽऽसीत् ततश्च लाला निःसरति स्म । पुच्छं पटपटायमानः स वदति स्मेव 'बाबा ! अहमतीव क्षुधितोऽस्मि, किञ्चिद् वा ददातु !'
___ फकीरो हस्तस्थं भयं पुरःस्थितं च श्वानं पश्यन्नासीत् । 'इदानीमेव भयं मुखकोटरे प्रक्षेप्स्यते ततश्च तदुदरं प्रवेक्ष्यति क्षुधां च शमयिष्यति । किन्तु हन्त ! उदरं तु शुनोऽप्यस्ति तच्चाऽप्यस्ति क्षुधातुरम् !!' फकीरो विचारयति स्म।
एतावतैव जितभाई पूत्कृतवान् – 'त्रिवेदिमहोदय ! अवधानं ददातु तत्र' । ततश्च दशाऽपि लोचनानि तत्रैव दिशि स्तिमितानीव जातानि । तेष्वासीत् प्रतीक्षाऽऽश्चर्यं .... अन्यदपि किञ्चित् ।
१००
Page #111
--------------------------------------------------------------------------
________________
फकीरो हि हस्तस्थं भयं स्वमुखेऽक्षिपन् श्वमुखे प्रक्षिप्तवान् तं लालितवांश्च – 'खाद पुत्रक ! खाद, खुदाशपथेन खाद वत्स !' । स च श्वा यथैव भयं तद्धस्तान्मुक्तं तथैव गृहीत्वा खादितवान् । अनेनाऽन्यद् भयं प्रक्षिप्तं तदपि स भुक्तवान् । तत्स्तृतीयं, चतुर्थं, पञ्चमं .... सर्वाण्यपि हि भाणि फकीरः प्रक्षिप्तवान् श्वा च खादितवान् । भर्व्यपुटकं रिक्तं जातम् । प्रक्षेपणं स्थगितम् । शुन उदरं पूरितं, फकीरस्योदरं तु रिक्तमेवाऽऽसीत् । श्वा च तृप्तः सन् पुच्छं पटपटायमानः फकीरस्याऽऽभारं मन्वान इव ततोऽन्यत्र
गतवान्।
इतश्चैतानि दशाऽपि चरणानि तत्रैव वृक्षाधस्ताद् धावितानि । जितुभाई सहसोक्तवान् – 'अरे बाबा ! किमेतत् कृतं भवता?'
'किमपि न कृतं श्रेष्ठिन् !, अल्लाहमहोदयेन यदादिष्टं तदेव कृतं मया । स ममाऽन्तःकरणमागत्योक्तवान् "क्षुधिताय शुने प्रथमं खादयतु", मया च तदाज्ञामङ्गीकृत्य स्वकर्तव्यं पालितम् । ततोऽप्यन्यन्न किञ्चित् कृतं मया' ।
'किन्तु भवानपि क्षुधित एवाऽऽसीत् खलु ! तर्हि किमर्थं सर्वाण्यपि भाणि शुने एव खादितानि ?'
'शृण्वतु भोः ! मह्यं तु अल्लाहमहोदयेन तादृशं मुखं जिह्वा वाणी च प्रदत्ता यत्प्रभावतोऽहं मम दःखमन्यस्मै कथयितं समर्थो भवेयम् । परमेष त मूकः प्राणी । स कथमन्यस्माद याचितं प्रभवेद् यद "श्रेष्ठिन् ! क्षुधितोऽहं, किञ्चिद् ददातु" इति ? ततश्च स क्षुधातुरो न कदाऽपि भवेदित्यपि नैव शक्यम् । अत एव मया तस्मै वराकाय मूकजीवाय सर्वाण्यपि भाणि भोजितानि' ।
'तमुहं भवत्कृतेऽन्यान्यपि भाण्यानीय दद्याम्....' जितुभाई सगद्गदमुक्तवान् ।
'नैव श्रेष्ठिन् ! प्रत्यहमहमेकवारमेव याचे - एष मे नियमः । अल्लाहमहोदयोऽपि हीदमेवेच्छति । अद्य मे उपवास एव भवतु । मूकजीवस्योदरं पूरितं, मम च मनः । अल्लाहमहोदयेन प्रदत्त आहारः स्वयं खादनादपि परस्मै दानादेव मधुरतरो भवति । अद्याऽहं न किमपि ग्रहीष्ये । अद्यतनं दिनं कुक्कुरस्य कृते । सलाम् श्रेष्ठिन् !' इत्येवमुक्त्वा स फकीरस्ततो गतवान् । किन्तु जितुभाई-त्रिवेदिमहोदययोश्चित्ते किञ्चित् सुविचारबीजमुप्त्वा गतः ।
'कियती तस्य सहृदयता दयाऽऽन्तरिकी चोच्चता ! नूनमीदृशानां जनानां सत्त्वमेव संसारं धारयती'त्यादि विचारयन्तौ तौ स्वीयकाऱ्यानं प्रति प्रस्थितौ । स च निन्दको जनस्तयोः पुरतो लज्जया वारं वारं क्षमायाचनं कृत्वा गतः । अस्या घटनाया अद्य बहूनि वर्षाणि व्यतीतानि तथाऽपि जितुभाई प्रायः प्रत्यहमेतद् दृश्यं तादृशं स्मरन् स्वीयभावनां समुल्लासयन् तं फकीरं मनसैव प्रणमति ।।
(पठितसामग्याः)
१०१
Page #112
--------------------------------------------------------------------------
________________
कथायां बोधः
कथा
सा० धृतियशाश्रीः
एको नापितः कस्यचित् पार्थिवस्य समीपमुपाविशत् । स राज्ञो देहे तैलमर्दनं कुर्वन् कालयापनार्थं कथामेकामश्रावयत्
एका दासी राज्याः कस्याश्चित् शय्यां प्रत्यहं सज्जीकुर्वत्यासीत् । पुष्पैः सुगन्धिद्रव्यैश्च तां शय्यां सुगन्धमयीं करोति स्म । अथैकदा तया सायङ्काले शय्या प्रगुणीकृता । नदीतटस्थितप्रासादे मन्दमन्दं शीतलो वायुः प्रसरन्नासीत् । वसन्तर्तुत्वात् पर्यावरणमतिसुन्दरमासीत् । राज्याश्चाऽऽगमनमधुनाऽपि न जातमासीत् । दासी चाऽऽदिनं कार्यं कृत्वा श्रान्ताऽऽसीत् । अतः 'स्तोकवेलायामेव जागरिष्यामि' इति चिन्तयन्ती सा तस्यामेव शय्यायामशेत । किन्त्वतीवश्रान्तत्वात् सा जागरितुं नाऽशक्नोत् ।
अल्पवेलायामेव राज्ञी समागता । दासी च स्वीयशय्यायां शयितां दृष्ट्वा क्रुद्धाऽभवत् । सा दण्डं गृहीत्वा दासी प्रणोद्य जागरितवती । क्रुद्धां तां वीक्ष्य दासी भयेनाऽकम्पत । क्रुद्धा राज्ञी तां दण्डेन ताडयितुमारब्धा । द्वित्रप्रहारपर्यन्तं तु सा रोदितवती किन्त्वल्पवेलायामेव तस्या मुखस्थितिः पर्यवर्तत । सा उच्चैर्हसितुं लग्ना। तां च हसन्तीं दृष्ट्वा राज्ञी ताडनाद् व्यरंसीत् हसनकारणं चाऽपृच्छत् । तया किमपि नोक्तम् । पौनःपुन्येन पृच्छायां साऽकथयत् – 'यद्यहं त्वल्पकालमेवैतस्यां शय्यायां सुप्ता, तथाऽपि मया इयन्तो दण्डप्रहाराः सोढव्या अभवन्, तर्हि या भवती नित्यमेवाऽस्यां शेते सा कियन्तो दण्डप्रहारान प्राप्स्यति?'
_ 'भवती मां ताडयित्वा हृष्टा भवति, परं भविष्यच्चिन्तयितुं प्रज्ञा भवत्या नास्ति- इति चिन्तयन्त्यहं हसामि' । एतच्छ्रुत्वा राज्या हस्ताद् दण्डोऽधस्तादपतत् । सा दास्याः क्षमायाचनं कृतवती । तस्यै च पुरस्कारं दत्तवती।
नापितस्य मुखात् कथामेतां श्रुत्वा नृपः संसाराद् विरक्तोऽभवत् । तत्क्षणमेव च राज्यं त्यक्त्वा सन्यस्तं गृहीतवान् ।
१०२
Page #113
--------------------------------------------------------------------------
________________
रङ्गमञ्चः
मृदादास्प्रहसनम्
डॉ. अभिराजराजेन्द्रमिश्रः
प्रहसनपात्र-परिचयः मृदङ्गदास:-पाखण्डपरायणः कश्चित्साधुः
पुरुषः- कश्चिन्नागरिक: कुम्भदासः-मृदङ्गदास-शिष्यः (प्रथमः) रक्षिपुरुषः-अङ्गभङ्गदासनामा कश्चित् रक्षिपुरुषः नकुलदासः- मृदङ्गदास-शिष्यः (द्वितीयः)
प्रथमं दृश्यम् (कश्चित् पाखण्डपरायणः कृतकसाधुः नगरोपकण्ठस्थिते उद्याने वितानमातत्य निवसति । तस्य प्रवञ्चनकुशला अनुयायिनः तन्महिमानं प्रचार्य मुग्धान् जनान् समस्या-सङ्कट-व्याधिग्रस्तान् तदन्तिकमानयन्ति, समस्यानिवारणनाटकं च विधाय धनं मुष्णन्ति) कुम्भदासः (कमपि रोगग्रस्तं जनं दृष्ट्वा तत्कुटुम्बिनं प्रति)
भद्र ! औषधालयं गच्छसि ? को नु रोगोऽस्य जनस्य ? भो मम तातोऽयम् ? अयं श्वासरोगग्रस्तः । कदाचिदेवं प्रतीयते यदिदानीमेव श्वासस्ट्यति । मृत्युभयं जायते।
पुरुषः
१०३
Page #114
--------------------------------------------------------------------------
________________
पुरुषः
कुम्भदासः किन्न श्रुतं भवता यत् साक्षाद् धन्वन्तरिः हिमालयौषधिज्ञानपारङ्गतो दैवशक्ति
सम्पन्नोऽस्मद्गुरुर्मृदङ्गदास एतर्हि नगरेऽस्मिन्नेव विराजते ? कथं न तच्छरणं गच्छति भवान् ? औषधालयो नाम यमालयः । तत्रस्था द्राक्तराः सेविकाश्च यमदूता यमदूत्यश्चैव। भोः सत्यं भणति भवान् । परन्तु म्रियमाणः किं न करोति? उपचारस्तु करणीय एव । यदि भवद्गुरुः भगवान् मृदङ्गदास एव रोगापहरणे क्षमस्तहि तच्छरणमेव गमिष्यामि । ब्रूहि, क्व
वर्तते योगिराजः? कुम्भदासः (जनं प्रभावितं दृष्ट्वा, सहर्षम्)
आगच्छ, आगच्छ । पार्श्व एव तिष्ठति भिषकशिरोमणिः । (चलदूरभाषमुपयुञ्जन्) भद्र नकुलदास ! निबद्धो मया तित्तिरः । झटित्येवाऽऽगच्छामि । तत्सावधानो भव । प्रारभस्व स्वकीयं सिद्धनाटकम् । (प्रकाशम्) आगच्छ बन्धो ! अस्मिन्नेवोद्याने तिष्ठति योगरोगमार्तण्डः ।
(सर्वे प्रविशन्ति) नकुलदासः (पुरस्सृत्य)
स्वागतं स्वागतं भवताम् । गुरुवर्य इदानीं साधनारतः । तन्निभृतं तत्समीपमुपगम्य
सर्वमवलोकनीयम् । पश्चात् स्वसमस्यां निवेदय । कुम्भदास ! किमर्थमानीता इमे? कुम्भदासः (वृद्धं निर्दिशन्)
अयं जनोऽस्य पिता । श्वासरोगेण दृढं ग्रस्तः । औषधालयं गच्छन्त इमे विनिवार्य आनीता
गुरुशरणम् । नकुलदासः (आकेकरदृष्ट्याऽवलोक्य)
परिपुष्टस्ताम्रचूडस्त्वया गृहीतः ।
(सर्वे साधनारतं मृदङ्गदासं पश्यन्ति) मृदङ्गदासः (विविधकरणाङ्गहारमुद्रां प्रदर्शयन् साभिनयम्)
दुंदुं दुमुक्क। दुं दुं दुमुक्क। दो दो दो दो दो दोङ्। दुह् दुह् दुह् दुह् दुमुक्क दो दोङ्। दुह् दुह् दुह् दुह दुमुक्क दों दोङ्। दो दों दुमुक्क। दों दों दुमुक्क । दुहमिक् दुहमिक् दुहमिक् दुहमिक्,
दों दों दों दोङ्। दों दों दोङ्। कुम्भदासः (जनं प्रति)
पश्यसि न वा? मन्त्रजपोऽयं गुरुवर्याणाम् । इदानीं देवशक्तेः आविर्भावः शरीरेऽस्य सञ्जातः ।
१०४
Page #115
--------------------------------------------------------------------------
________________
कतिपयक्षणैरेव समुत्थाय नृत्यं करिष्यति ।
(मृदङ्गदासोऽकस्मादेव समुत्थाय नृत्यति) मृदङ्गदासः शिव शिव ! हर हर ! विषमभुजगधर ! करडमरुकधर ! जटाजूटविकलितगङ्गाधर !
ककरित् खकरित् गकरित् घकरित् चकरित् छकरित् जकरित् झकरित् टकरित् ठकरित् डकरित्,
ढकरित् तकरित् थकरित् दकरित् धकरित, नकरित् पकरित् फकरित् बकरित् भकरित्, मकरित्..... नकुलदासः (नटवेषं विधाय गुरुणा सहैव नृत्यन्)
शठ शठ शठ शठ ! कितव कितव शठ ! अलमलमधिकवधिकवलनैस्तव ! जनमागतमिममञ्चय वञ्चय शोषय घोषय ताडय मारय सुहृदां क्षुधं तुषञ्च निवारय । धिक्कत धिक्कृत धिक्कत ! धिकरित् धिकरित् धिकरित् धिक्कृत ! श्वसरित् श्वसरित् श्वसरित् श्वसरित् ।
(सर्वमवगत्य मृदङ्गदासः शान्तो जायते, मूर्छा चाऽभिनयति) कुम्भदासः (जनं प्रति)
दृष्टं भवता? सम्प्रति गुरुवर्यो देवदर्शनं करिष्यति । तैः सह वार्तालापं करिष्यति । शक्तिञ्च
सम्प्राप्य चेतनो भविष्यति । पुरुषः तदाऽस्माकं समस्यां श्रोष्यति ? कुम्भदासः अथ किम् ! पश्य पश्य, चैतन्यमापद्यते योगिराजः । मृद्ङ्गदासः (अर्धमुन्मील्य नेत्रे)
वत्स कुम्भदास ! श्वासव्याधिग्रस्तोऽयं वृद्धः । कण्ठामतवटीमस्मै देहि । यदि रोगोऽवशिष्यते
तर्हि सप्तमे दिवसे पुनराह्वय । कुम्भदासः श्रुतं बन्धो ! सप्तमाद् दिवसात्पूर्वमेव रोगोऽयं नंक्ष्यतीति गुरूणामाशयः । सर्वार्थसिद्धिकरीयं
श्वासवटी। (कुटीरात् वटीमानीय प्रयच्छति)
(सविनयम्) किम्मया देयम् ? कुम्भदासः भो नाऽयमौषधालयो, न चाऽत्र किञ्चित् निश्चितं शुल्कम् । श्रद्धया देयम् । करुणावतारोऽयं
योगिराजः । लोकोपकारायैव औषधिनिर्माणं कुरुते महता श्रमेण ! अस्मादृशा औदरिकाश्चाऽपि तैरेव पालनीयाः ! पश्यत्येव भवान् ! (इत्यट्टहासं जनयति) भवतु । श्रद्धयैव दास्यामि । (इति पञ्चशतरूप्यकाणि समर्प्य शनैर्गच्छति)
पुरुषः
पुरुषः
१०५
Page #116
--------------------------------------------------------------------------
________________
मृदङ्गदासः (पञ्चशतरूप्यकाणि दृष्ट्वा, सहर्षम्)
वत्स नकुलदास ! अद्यतनं कार्यं तु सिद्धमेव । तदनेन धनेन प्रत्यग्रच्छागमांसमानय । रुचिरं
भोजनं करिष्यामो वयम् । कुम्भदासः अन्ते च मोहिनीपानं कृत्वा निश्चिन्तं स्वप्स्यामः । मृदङ्गदासः मोहिनीपानम् ? साधु साधु ! साधूक्तं त्वया । मोहिनीपानमपि भविष्यत्येव ।
॥ पटाक्षेपः ॥
द्वितीयं दृश्यम् (वृद्धोऽसौ तृतीयदिवस एव म्रियते । मृतकस्य कश्चित्सम्बन्धी रक्षिस्थानके नियुक्तः । स सर्वं वृत्तं निशम्य क्षुब्धो जायते । सप्तमे दिवसे पुनरागन्तव्यमिति सम्बन्धिमुखात् श्रुत्वा स सर्वां योजनां सविस्तरमवगमय्य पञ्चम एव दिवसे पुनरासादयति मृदङ्गदासकुटीरम् ।) कुम्भदासः (कुटीरं प्रति पुरस्सरन्तं जनं प्रति)
भोः ! क्व गम्यते? कोऽस्ति भवान् ? पुरुषः
अये ! न प्रत्यभिज्ञातवान् माम् ? पञ्चदिनेभ्यः प्रागेव पञ्चशतरूप्यकाणि दत्तानि मया !
कण्ठामृतवटीं मह्यं दत्तवान् भवान् ! कुम्भदासः (सभयम्)
आम् ज्ञातम् । परन्तु तस्मिन् दिने स्ववृद्धतातेन सह समागतो भवान् । नाऽसौ दृश्यतेऽद्य ।
स तु गतः । कुम्भदासः (सातङ्कम्) क्व गतः? पुरुषः यत्र सर्वे गच्छन्ति । यमालयम् । कुम्भदासः किं किम् ? यमालयं गतः? रक्षिपुरुषः अरे जाल्म ! किमशुभं भणसि ? ममाऽऽलयं गतः इति भणति भ्रातृवर्यः । कुम्भदासः (आश्वस्तस्सन्) ममाऽऽलयं गतः । अर्थात् गुरुवर्यार्णामौषधोपचारैः स्वास्थ्यं लब्ध्वा
तवाऽऽलयं गतः । मन्ये तवाऽऽलयः क्वचिद् ग्रामाञ्चले वर्तते ।
(सवितर्कम) भद्र ! तर्हि किमर्थमद्य समायातोऽसि? किमपरः कोऽपि रुग्णोऽस्ति? रक्षिपुरुषः अहमस्मि रोगग्रस्तः । अहम् अङ्गभङ्गदासः (इति रोगमभिनयति) कुम्भदासः (ससाध्वसम्) अङ्गभङ्गदासः ? रक्षिपुरुषः अथ किम् । अङ्गभङ्गानां विकलाङ्गानां दासः सेवकः अङ्गभङ्गदासः । इदमेव मम नाम ।
पुरुषः
१०६
Page #117
--------------------------------------------------------------------------
________________
पितरौ मेऽतीव दयालू करुणहृदयौ चाऽऽस्ताम् । स्वपुत्रं मां सर्वजनसेवकमात्र निर्मातुं यत्नवन्तावास्ताम् । तत एव नामैतत् कृतं मम ताभ्याम् । मयाऽपि पित्रभिलाषं सार्थकीकर्तुं
न परिवर्तितमभिधानमिदम् । कुम्भदासः कश्च भवतां रोगः? रक्षिपुरुषः पाखण्डखण्डनरोगः । पाखण्डपरायणान् दृष्ट्वैव आवेश इव सञ्जायते । प्रत्यङ्गं धनुष्टङ्कार इव
सञ्जायते । अपस्मार इव समुत्पद्यतेऽकस्मादेव । रुद्ररूपतामुपयामि । पाखण्डिनं भूमौ निपात्य पशुमारं मारयामि । कदाचिद् यमीभूय तत्कण्ठनलिकामेव कुब्जीकरोमि । नाऽहं किञ्चिदपि
स्मरामि यत्करोमि । परन्तु दर्शका एवं भणन्ति मद्व्यहारविषये । कुम्भदासः (वेपमान इव) विचित्रोऽयं रोगः ? नकुलदासमाह्वयामि । रक्षिपुरुषः भो कुम्भदास ! अलं नकुलदासमाहूय ! स्वगुरुवर्यं महायोगिराजं मृदङ्गदासमेव विज्ञापय
यदङ्गभङ्गदासो नाम कश्चिद रुग्णः समागतोऽस्ति । (जनं निर्दिश्य) अयं मम सम्बन्धी । अस्यैव तातपादस्योपचारः कृतो भवद्भिः । अस्य मुखादेव भवद्गुरुप्रशस्ति
श्रुत्वा समागतोऽहम् । तत् शीघ्रं गच्छ । वयमत्रैव प्रतीक्षामहे । कुम्भदासः (सन्दिग्धमनोवृत्त्या कुटीरं प्रविशति)
(कालानन्तरं प्रविशति मृदङ्गदासः पूर्वाभ्यस्तनृत्यं कुर्वाणः) मृदङ्गदासः (विविधमुद्राभिर्नृत्यं सम्पादयन्)
दोंदों दुमुक्क, दोंदों दुमुक्क, दोंदोंदोंङ् दोंदोंदोङ् दुह्दुह् दुहदुत् दोंदुमुक्क। रक्षिपुरुषः (मृदङ्गदासनृत्यमतिशयानः)
अङ्गङ्गङ्ग अङ्गङ्गभङ्ग , अङ्गङ्गभङ्ग, मुखचिबुकभङ्ग करयुगलभङ्ग पदयुगलभङ्ग दृग्युगलभङ्ग सुललाटभङ्ग सुकपोलभङ्ग कलकण्ठभङ्ग युगजानुभङ्ग सितदन्तभङ्ग सर्वाङ्गभङ्ग सर्वाङ्गभङ्ग !
दोंदों दुमुक्क!! मृदङ्गदासः (सभयम्) भोः ! कोऽयं मन्त्रः? रक्षिपुरुषः अयं साबरमन्त्रः । साबरमन्त्रं जानासि, न वा ? अस्य मन्त्रस्य भाषा व्याकरणं किमपि
नाऽपेक्षते । शबराणां विन्ध्यदरीवासिनां सिद्धमन्त्रोऽयम् ? मृदङ्गदासः कस्तव दीक्षागुरुः ? मन्त्रपारङ्गतः प्रतीयसे ! रक्षिपुरुषः साक्षाद् वृषभध्वजो रुद्रः । तेन स्वप्ने दीक्षितोऽस्मि । मृदङ्गदासः मया गुप्तगोदावर्यां साधना कृता । कुत्र तावत् त्वया ?
१०७
Page #118
--------------------------------------------------------------------------
________________
रक्षिपुरुषः मया गुप्तकाश्यां सिद्धिरवाप्ता । गुप्तगौहाट्यां मम गुरुभ्राता तिष्ठति ।
मृदङ्गदासः मया द्विवारं चतुर्धामयात्रा कृता । त्वया कति धानाम् ?
रक्षिपुरुषः अहं नित्यमेव पञ्चधामयात्रां सम्पादयामि । पञ्चधाम्नाम् ?? मृदङ्गदासः भो कथमिदं सम्भवति ? किमिदं पञ्चमं धाम ?
रक्षिपुरुष: पश्य मूर्ख ! मनः शरीरापेक्षया सुष्ठुतरम् । त्वं शरीरमात्रेण चतुर्धामयात्रां कृतवानसि। परन्त्वहं मनसैव नित्यमेव तत्र गच्छामि । किञ्च, मनसैव यमपुरीमपि नित्यमवेक्ष्य प्रत्यावर्ते । मनः शक्त्या किन्न कर्तुं शक्यते ?
मृदङ्गदासः (भैरवमुद्रायां भूयोऽपि नृत्यन्)
कुतरित् खुतरित् गुतरित् घुतरित्...
रक्षिपुरुषः (तथैव समाचरन् ) चुतरित छुतरित जुतरित् झुतरित्......
मृदङ्गदासः (अभिभूयमानः) टुकरित ठुकरित डुकरित् ढुकरित्
रक्षिपुरुषः तुकरित धुकरित दुकरित धुकरित्
मृदङ्गदासः (सविजयोन्मादम् ) पुकरित् फुकरित्, बुकरित, भुकरित्
रक्षिपुरुषः डुकरित जुकरित, णुकरित, नुकरित, मुकरित, युकरित, रुकरित, लुकरित, वुकरित, शुकरित षुकरित सुकरित हुकरित, क्षुकरित, क्षुकरित, क्षुकरित, क्षुकरित्.......
(इत्येवं भणन्नेव वज्रमुष्टिप्रहारेण मृदङ्गदासमुखं भनक्ति । स च रक्तरञ्जितस्सन् भूमौ निपतति)
नकुलदासः कुम्भदासः भोः किमिदम् ? कथं प्रताडयति भवान् अस्मद्गुरुवर्यम् ? रक्षिपुरुषः (स्वकीयं परिचयपत्रं प्रदर्शयन्)
I
धूर्त ! पाखण्डिन् ! पश्य । रक्षिपुरुषोऽहम् । एते मम सहचरा अपि रक्षिण एव । धूर्ततामभिनीय मुग्धान् जनान् प्रवञ्चयथ ? चिरकालादेव युष्माकं विषये श्रुतम्मया । परन्तु नित्यमेव स्थानपरिवर्तनवशात् न खलु निग्रहीतुं शक्तोऽभवम् । निर्यातय मम सम्बन्धिनः पञ्चशतरूप्यकाणि, सार्धञ्च मया चलत रक्षिस्थानकम् । पश्चात् च सेवध्वं चिराय कारागारम् ।
(निर्दिष्टा रक्षिणस्तथा कुर्वन्ति) ॥ पटाक्षेपः ॥
॥ इति श्रीमदभिराजराजेन्द्रविरचितं मृदङ्गदासप्रहसनं परिपूर्णम् ॥
१०८
Page #119
--------------------------------------------------------------------------
________________
गर्म-गर्म
कीर्तित्रयी
गृहस्वामी द्वादशेभ्यो मासेभ्यो भवता भाटकं नैव दत्तम् । अधुनैव ददातु तद्, अथवा गृहं त्यक्त्वा गच्छतु ।
भाटकिकः भोः ! वयं हि कुलीनाः स्मः । यावद् भवते सर्वमपि भाटकं न दद्याम तावद् गृहमिदं त्यक्त्वा नैव गमिष्यामः ।
(एकदा कस्यचिदधिकारिणः सचिवः कार्यालये विलम्बेनाऽऽगत: )
अधिकारी किमर्थं भोः ! अद्य विलम्बः ?
सचिवः प्रभो! मम घटिकायन्त्रं किञ्चिद्विलम्बेन चलति, अत: ।
अधिकारी एवम् ! तर्हि शीघ्रमेव भवता घटिकायन्त्रं परावर्तनीयम्, अथवा मया सचिवः परावर्तनीयः ॥
१०९
Page #120
--------------------------------------------------------------------------
________________
दग्धः विदग्धः दग्धः विदग्धः
किमर्थं भवान् आरक्षकदले नियुक्तो जातः ? मम चिकित्सको मेऽधिकं व्यायाम कर्तुमादिशद, अतः । व्यायामस्याऽऽरक्षकत्वेन स को वा सम्बन्धः? एवमेव व्यायामकरणस्थाने आरक्षकदले नियक्तितो मे व्यायामेन सह वेतनमपि लभ्यते !!
(रात्रौ त्रिवादने-)
(दरवाण्यां) चिकित्सकमहोदय ! मम पत्न्या आन्त्रपुच्छशोथस्य तीव्रा वेदना
जायते । कृपया झटिति गृहमागच्छतु ।। चिकित्सकः चिन्तितो मा भवत् । तस्या वेदनाऽऽन्त्रपुच्छशोथस्य नैव स्यात्, यतो गतवर्षे
एव मया तस्याः शस्त्रक्रिया कृताऽस्ति । मनोजः किन्त्वेषा मम नूतना पत्नी !!
एवममा
महाविद्यालयीय एको विद्यार्थी वर्षान्तपरीक्षायां सर्वेष्वपि विषयेष्वनुत्तीर्णो जातः । पित्रे साक्षादेतज्ज्ञापयितुं बिभ्यन् स स्वज्येष्ठभ्रातरं ज्ञापितवान् पत्रद्वारा, लिखितवांश्च यत् - 'पितरमेतदर्थं सज्जीकरोतु कृपया, ततो अहं गृहमागच्छामि' । प्रत्युत्तररूपेण ज्येष्ठभ्राता लिखितवान्- 'पिता तु सज्जोऽस्ति, भवान् सज्जीभवतु'।
पत्रकारः भवतः साफल्यस्य किं रहस्यम् ? उद्योगपतिः प्रामाणिकता, यतस्तत्र स्पर्धेव नास्ति ।
इदानीं भवता मे येऽवमाननकृतः शब्दाः कथितास्तदर्थं पञ्चक्षणाभ्यन्तर एव क्षमा याचनीया भवता ।। यदि पञ्चक्षणाभ्यन्तरे क्षमां न याचेय तर्हि ? तर्हि तदर्थं कति क्षणा अपेक्ष्यन्ते भवता ?!
+
११०
Page #121
--------------------------------------------------------------------------
________________
- भवांस्तु सर्वथा परावृत्तः ! केशाः पलिताः, मुखं विच्छायं,कटिश्च भग्ना दृश्यन्ते ।
किं जातं भवतो रमणलाल !? + नाऽहं रमणलालः ! - अहो ! भवता नामाऽपि परावर्तितं वा ?!
अपूर्वः ह्यो रात्रौ मे पत्नी स्वप्ने - 'कोट्यधिपतिं परिणीताऽह'मिति
दृष्टवती किल! अद्वितीयः सुखी भवान् खलु । मत्पत्नी तु दिवाऽप्येवमेवाऽऽचरति
ननु !
विदग्धः दग्धः
किम् ? भवतो विवाहश्छलेन जातो वा ? कथं ननु ? यया भुषुण्डिकया भाययित्वा परिणायितोऽहं तस्यां गुलिकैव नाऽऽसीत् !!
- +
भवान् कियतः कालादत्र कार्यं करोति ननु ? यत्प्रभृति मुख्याधिकारिणा पदच्यतेर्भयं दर्शितम् !!
(प्राणिसङ्ग्रहालये-) दर्शकः एते वानराः किमिति मुक्ता भ्रमन्ति ? कर्मकरः अरे ! अद्य तेषामवकाशदिनमस्ति । दर्शकः अवकाशदिनम् ! तेषां कथमवकाशदिनम् ? कर्मकरः अद्य चार्ल्स-डार्विन-महोदयस्य जन्मदिनं खलु !!
१११
Page #122
--------------------------------------------------------------------------
________________
प्राकृतविभागः
पहावपुण्णाई गुणाई
आ० विजयकस्तूरसूरिः
गुरुरयणनियरभरिओ गुरुवारिनिही तरिज्जइ कहमिमो । जस्सुवयारोऽणतो तं गुरुपायं नमसामि ॥१॥
पगुरुसिरिनेमिसूरी तित्थसमुद्धरणसीलसाली जो ।
तवगच्छगयणतवणो पुण्णपहावेण संजुत्तो ॥२॥ जस्स किवादिट्ठीए नमिरा भत्ता वरमइणो हुँति । सूरीसरस्स गायमि तस्स गुणगणे अहं विणमिरो ॥३॥
सूरीणं अडसंपय-जुत्तो गुणगणविभूसिओ जयउ ।
पवयणसारपरूवण-परेण पावयणिओ सूरी ॥४॥ भव्वुवएसविहाणे परमपहावो य तारिसो णेओ। जेणुन्नई ह महई विहिया तेण हि स धम्मकही ।।५।।
तक्किय-सुसत्थचिंतण-विउलमईए समागयविउवरा ।
विहिया निरुत्तरा पुण, तेण य वाई वरो एसो ॥६।। बिंबपइट्ठाइ-विविह-सासणकिच्चे निमित्तदाणेण । जस्साऽणुवमा पडिहा नेमित्तण्णू वरो तेण ॥७॥
बज्झब्भंतरतवसा सुबंभतेएण तह य तेयंसी ।
पुहवीविक्खायजसो, तेणेसो य परमोयंसी ॥८॥ अप्पसहावियसंजम-बलेण मंताइवेइणो वि परे । जेण विमूढा विहिया मंतविउ व्व सो तओ तेण ॥९॥
वागरण-नायगंथा-ण विहाणेणं पहावियं जेण ।
सासणमिमं हि तेणं कवि व्व स पहावगो णेओ ॥१०॥ सिद्धाचल-रेवयगिरि-वराइतित्थेसु संघजत्ताओ । पूया-पहावणाहिं विहाविया सूरिणा बहुसो ॥११॥
एयं सूरिवराणं एयारिसगुणसमिद्धिजुत्ताणं । कोडीवंदणसेणी होज्जा कत्थूरसूरिस्स ॥१२॥
११२
Page #123
--------------------------------------------------------------------------
________________
प्राकृतविभागः
पाइयविन्नाणकहा
आ० विजयकस्तूरसूरिः
(१)
गेहेसूरा जणा गेहे, नियसामत्थदंसगा ।
बाहिरे कायरा तत्थ, सुवण्णारनियंसणं ॥१॥ एगंमि गामे सुवण्णयारो वसइ । तस्स रायपहस्स मज्झभागे हट्टिगा विज्जइ । सया मज्झरत्तीए सो सुवण्णभरियं मंजूसं गहिऊणं नियघरंमि आगच्छइ । एगया तस्स भज्जाए चिंतिअं-एसो मम भत्ता सव्वया मंजूसं गहिऊण मज्झरत्तीए गेहे आगच्छइ, तं न वरं, जओ कयावि मग्गे चोरा मिलेज्जा तया किं होज्जा?' | तओ तीए नियभत्तारो वुत्तो- "हे-पिअ ! मज्झरत्तीए तुज्झ गिहे आगमणं न सोहणं ति मज्झ भाइ, कया वि को वि मिलेज्जा तया किं होज्जा?"।
सो कहेइ- "तं मम बलं न जाणेसि, तेण एवं बोल्लेसि । मम पुरओ नरसयं पि आगच्छेज्ज, ते किं कुणेज्जा? ममग्गओ ते किमवि काउंन समत्था । तुमए भयं न कायव्वं" । एवं सुणिऊण तीए चिंतिअं'गेहेसूरो मम पिओ अत्थि, समए तस्स परिक्खं काहिमि' ।
एगया सा नियघरसमीववासिणीए खत्तियाणीए घरे गंतूण कहेइ- "हे पियसहि ! तुं तव भत्तुणो सव्वं वत्थभूसं मज्झं अप्पेहि, मम किंपि पयोयणं अत्थि" । तीए खत्तियाणीए अप्पणो पिअस्स असिसहिअं सिरवेढण-कडिपट्टाइसुहडवेसं सव्वं समप्पिअं । सा गहिऊण गेहे गया । जया रत्तीए एगो जामो गओ, तया सा तं सव्वं सुहडवेसं परिहाय, असिं गहिऊण निस्संचारे रायपहंमि निग्गया। पिअस्स हट्टाओ नाइदूरे रुक्खस्स पच्छा अप्पाणं आवरिअ ठिआ ।
११३
Page #124
--------------------------------------------------------------------------
________________
कियंतकाले सो सोण्णारो हट्टं संवरिअ, मंजूसं च हत्थे गहिऊण भयभंतो इओ तओ पासंतो सिग्घं गच्छंतो जाव तस्स रुक्खस्स समीवं आगच्छेइ, ताव पुरिसवेसधारिणी सा सहसा नीसरिऊण मउणेण तं निब्भच्छेइ - "हुं हुं, सव्वं मुंचेहि, अन्नहा मारइस्सं" । सो अकम्हा रुंधिओ भएण थरथरंतो "मं न मारेसु, मं न मारेसु," इअ कर्हितो मंजूस अप्पेइ । तओ सा सव्वपरिहिअवत्थग्गहणाय करवालग्गं तस्स वच्छंमि ठविऊण सन्नाए वसणाई पि कड्डावेइ । तया सो परिहिअर्काडिपट्टयमेत्तो जाओ । तओ सा कडिपट्टयं पि मरणभयं दंसिऊण कड्डावेइ । सो अहुणा जाओ इव नग्गो जाओ । सा सव्वं गहिऊण घरं मि गया, घरदारं च पिहिऊण अंतो थिआ ।
सो सुवण्णयारो भएण कंपमाणो मग्गे इओ तओ अवलोएंतो आवणवीहीए गच्छंतो कमेण जया सागवावारिणो हट्टसमीवमागओ, तथा केण वि जपेण पक्कचिभडं बाहिरं पक्खित्तं तं तु तस्स सुवण्णयारस्स पिट्ठभागे लग्गिअं । तेण नायं केणा वि अहं पहरिओ । पिट्ठदेसं हत्थेण फासेइ, तत्थ चिब्भडस्स रसं बीआई च फासिऊणं विआरेइ - 'अहो हं गाढयरपहरिओ म्हि तेण घाएण सह सोणिअं पि निग्गयं, तम्मज्जे कीडगा वि समुप्पन्ना ।
एवं अच्वंतभयाउलो तुरिअं तुरिअं गच्छंतो घरद्दारे समागओ । पिहिअं घरद्दारं पासिऊण नियभज्जा आहवणत्थं उच्चसरेण कहेइ - "हे मयणस्स माया ! दारं उघाडेहि, दारं उघाडेहि ।" सा अब्भंतरत्थिआ सुणंती वि असुणंतीव किंचि कालं थिआ । अईवक्कोसणे सा आगच्च दारं उग्घाडिअ एवं पुच्छइ - " किं बहुं अक्कोससि ?" ।
सो भयभंतो गिहंमि पविसिअ भज्जं कहेइ - "दारं सिग्घं पिहाहि, तालगं पि देसु" । तीए सव्वं काऊण पुट्ठे - " किं एवं नग्गो जाओ ?" तेण वुत्तं - "अब्भंतरे अववरगे चल पच्छा मं पुच्छ" । गिहस्स अंतो अववरए गच्चा निच्चितो जाओ ।
तीए पुणो वि पुई “कि एवं नग्गो आगओ ?" तेण कहियं "चोरेहिं लुटिओ, सव्वं अवहरिअ नग्गो कओ” । सा कहेइ - "पुव्वं मए कहिअं - हे सामि ! तए एवं मज्झरत्तीए मंजूसं गहिऊण न आगंतव्वं, तुमए न मन्निअं तेण एवं जायं" । सो कहेइ "अहं महाबलिट्टो वि किं करोमि?" जइ पंच छ वा चोरा आगया होज्जा, तया ते सव्वे अहं जेउं समत्थो, एए उ सयसो थेणा आगया, तेणाऽहं तेहि जुज्झमाणो पराजिओ, सव्वं लुंटिऊण नग्गो कओ, पिट्ठदेसे य असिणाऽहं पहरिओ । पासेसु पिट्ठदेसं, घाएण सह कीडगाऽवि उप्पन्ना" । तीए तस्स पिट्ठदेसं पासित्ता णायं - चिब्भडस्स रसबीयाइं इमाइं लग्गाईं संति । भत्तुस्स वि कहिअं - "सामि ! भयभंतेण तए एवं जाणियं - 'केण वि अहं पहरिओ,तओ सोणिअं निग्गयं, तत्थ य कीडगा वि समुप्पन्ना', तं न सच्चं । तुं चिब्भडेण पहरिओ सि, तस्स रसो बीयाइं च पिट्ठदेसे लग्गाई" ति ।
तओ तस्स देहपक्खालणाय सा जलं गहिऊण आगया नियपइस्स देहसुद्धिं करेऊण परिहाणवत्थपणे ताई चैव वत्थाई पासिऊणं धिट्टत्तणेण कहेइ "हुं हुं मए तय च्चिय तुमं नाया, मए चितिअं 'मम
-
११४
Page #125
--------------------------------------------------------------------------
________________
भज्जा किं करेइ ? त्ति हं पासामि' । तेणाऽहं भयभंतो इव तत्थ थिओ मए य सव्वावहरणमुवेक्खिअं, अन्नह मम पुरओ इत्थीए का सत्ती?" | सा कहेइ - "हे भत्तार ! तव बलं मए तया चेव नायं, गेहेसूरो तुमं असि । अओ अज्जप्पभिइ तुमए मज्झरत्तीए मंजूसं गहिऊण कयाऽवि न आगंतव्वं" ति । भज्जाए वयणं सो अंगीकरेइ। उवएसो
सुवण्णगारदिलुतं, नच्चा लोगा 'जहाबलं । वएज्जा वा सकज्जाइं, पसाहेज्जा विवेगिणो' ॥२॥
गेहेसूरसुवण्णयारस्स कहा समत्ता ॥
- सूरीसरमुहाओ
(२) निद्धणवणिअस्स कहा
'दव्वं एगारसो पाणो' त्ति णेयं सच्चमेव तं ।
सुमिणे वि जओ लोगा, तयटुं सहिरे दुहं ॥१॥ कत्थ वि एगो वणिगो निद्धणो आसि । सो धणत्थं सव्वत्थ भमंतो निब्भग्गो कत्थ वि काणवराडियं पि न लहेइ । 'कत्थ अत्थो लब्भइ' त्ति तिव्वधणपिवासाए एगया रत्तीए सेज्जाए सुत्तो । मज्झरत्तीए अत्थस्स सुमिणं आगयं । तत्थ सो रण्णे मलुस्सग्गत्थं गओ, तत्थ एगस्स रुक्खस्स हिटुंमि उवविट्ठो मलं चयंतो हत्थेण भूमिं खणेइ, खणंतो तत्थ सुवण्ण-दीणारभरियं चरुं पासइ, पासित्ता हरिसुम्मत्तो जाओ ।
तेण चिंतिअं - 'अहो मम पुण्णं जागरेइ, जेण इयंतं धणं लद्धं । कहं घरं नेस्सामि ?' त्ति । तया तत्थ एगो जोगी तेण मग्गेण गच्छंतो तं तारिसं उवविटुं, हत्थेण य भूमि खणंतं दट्टण पुच्छइ - "किं करेसि?" सो कहेइ - "तुम्हे मग्गेण गच्छह, कहणेण किं?" । स जोगी चिंतेइ - 'किमवि कारणं होज्ज, तेणेवं एसो वणिओ बोल्लेइ' । तओ सो तत्थ गच्चा पुच्छइ - "भूमीए किं अत्थि?" । सो कहेइ - "हं न कहेमि" । तया सो जोगी गत्ताए उवरिं थिए तस्स हत्थे बलाओ दूरीकरिअ देक्खइ तत्थ दीणारभरिअंचरुं देक्खइ, वएइ य - "हे महाभाग ! तव भग्गं जागरिअं, ममाऽवि एगं दीणाराणं अंजलिं देहि, तव कल्लाणं होही"।
सो वणिओ कहेइ - "किं तुज्झ पिउसंति एवं अत्थि ? अहं एगं पि दीणारं न दाहिस्सं, तुब्भ जं रोएज्जा तं कुणिज्जसु" । जोगी कहेइ - "तुम मम य पिउसंतिअं नत्थि, तुमए पुण्णुदएण लद्धं, मम किंचि दाऊण सव्वं तं गिण्हाहि" । लोहंधो वणिगो तस्स अप्पिउं नेच्छइ । तया सो कहेइ - "जोगी अहं, अगहिऊण कयाऽवि न वच्चिस्सं" ति कहिऊण तस्स सम्मुहं उवविट्ठो ।
११५
Page #126
--------------------------------------------------------------------------
________________
तयणंतरं तत्थ एगो रायसुहडो तेण मग्गेण गच्छंतो ते दुण्णि तहाथिए पासेइ, पासित्ता कहेइ - "किमेत्थ तुम्हे कुणिज्जा?" । तया सो जोगी कहेइ - "एत्थ भूमीए दीणारभरिओ चरू अत्थि, अणेण सो लद्धो, मए किंचि वि धणं जाइओ एसो न देइ, तेणाऽहं एत्थ थिओ' । सो रायसुहडो तत्थ आगच्च वणि पुच्छइ - "किमेत्थ?" | वणिगो कहेइ – “किमवि एत्थ नत्थि, जोगी असच्चं लवेइ, तुम्हे तुब्भ मग्गेण गच्छह" ।
तया ससंको रायसुहडो वणिअं कहेइ - "इओ अवसरसु", सो नाऽवसरेइ, हत्थे य चरूवरिं ठविऊण तत्थ थिओ । तेणुत्तं - "भूमीए जं धणं सिया तं रायसंतिअं होज्जा, न तव" । एवं कहिज्जमाणो वि जया सो न अवसरेज्ज, तया उवाणहाजत्तपाएण पिट्टदेसे ताडिओ सो "हा ! हा ! मारिओ हं" ति बोल्लंतो निदाए जागरिओ समाणो सुहडस्स पायप्पहारेण सक्खं किल नियसयणे उच्चार-पासवणाइं संभूआई पासेइ, न य जोगिं, न वि सुहडं । जइ सुविणे वि आगया लच्छी अणटुं करेज्जा, तो जागरमाणस्स किं किं न कुणेज्जा ?। उवएसो
तिव्ववित्तपिवासाए, पासित्ता कडुअं फलं । परिचएज्ज तं लोगा ! संतोसो परमं सुहं ॥२॥ तिव्वधणासत्तीए निद्धणवणिअस्स कहा समत्ता।
- सूरीसरमुहाओ
(३) चउजामायराणं कहा -
परण्णभोयणे अच्चा-सत्ती न हि सुहावहा ।
ससुरगेहवासीण, जामायराण नायगं ॥१॥ कत्थवि गामे नरिंदस्स रज्जसंतिकारगो पुरोहिओ आसि । तस्स एगो पुत्तो, पंच य कन्नगाओ संति, तेण चउरो कन्नगाओ विउसमाहणपुत्ताणं परिणाविआओ ! कयाई पंचमीकन्नगाए विवाहमहूसवो पारद्धो । विवाहे चउरो जामाउणो समागया । पुण्णे विवाहे जामायरेहिं विणा सव्वे संबंधिणो नियनियघरेसु गया । जामायरा भोयणलुद्धा गेहे गंतुं न इच्छंति । पुरोहिओ विआरेइ – 'सासूए अईव पिया जामायरा, तेण अहुणा पंच छ दिणाई एए चिटुंतु पच्छा गच्छेज्जा' । ते जामायरा खज्जरसलुद्धा तओ गच्छिउं न इच्छेज्जा। परुप्परं ते चिंतेइरे - 'ससुरगिहनिवासो सग्गतुल्लो नराणं, किल एसा सुत्ती सच्चा', एवं चिंतिऊणं एगाए भित्तीए एसा सुत्ती लिहिआ। एगया एयं सुत्तिं वाइऊण ससुरेण चिंतिअं- 'एए जामायरा खज्जरसलुद्धा कयावि न गच्छेज्जा, तओ एए बोहियव्वा' एवं चिंतिऊण तस्स सिलोगपायस्स हिटुंमि
११६
Page #127
--------------------------------------------------------------------------
________________
पायत्तिगं लिहिअं
जइ वसइ विवेगी पंच छव्वा दिणाई, दहि-घय-गुडलुद्धो मासमेगं वसेज्जा ।
स हवइ खरतुल्लो माणवो माणहीणो ॥२॥ ते जामायरा पायत्तिगं वाइऊणं पि खज्जरसलुद्धत्तणेण तओ गंतुं नेच्छंति । ससुरो वि चिंतेइ - 'कहं एए नीसारियव्वा ?, साऊभोयणरया एए खरसमाणा माणहीणा संति, तेण जुत्तीए निक्कासणिज्जा' । पुरोहिओ नियं भज्ज पुच्छइ - "एएसिं जामाऊणं भोयणाय किं देसि?" | सा कहेइ - "अइप्पियजामायराण तिकालं दहिघयगुडमीसिअमन्नं पक्कन्नं च सएव देमि" । पुरोहिओ भज्जं कहेइ - "अज्जदिणा आरब्भ तुमए जामायराणं वज्जकुडो विव थूलो रोट्टगो घयजुत्तो दायव्वो" । 'पियस्स आणा अणइक्कमणीअ' । त्ति चिंतिऊण सा भोयणकाले ताणं थूलं रोट्टगं घयजुत्तं देइ । तं दट्ठणं पढमो मणीरामो जामाया मित्ताणं कहेइ - "अहुणा एत्थ वसणं न जुत्तं, नियघरंमि अओ वि साउभोयणं अत्थि, तओ इओ गमणं चिय सेयं, ससुरस्स पच्चूसे कहिऊण हं गमिस्सामि" । ते कहिंति - “भो मित्त ! विणा मुल्लं भोयणं कत्थ सिया? एसो वज्जकुडरोट्टगो साउत्ति गणिऊण भोत्तव्वो, जओ - 'परन्नं दुलहं लोगे' इइ सुई तए किं न सुआ? तव इच्छा सिया तया गच्छसु । अम्हे उ जया ससुरो कहिही तया गमिस्सामो"।
एवं मित्ताणं वयणं सोच्चा पभाए ससुरस्स अग्गे गच्छित्ता सिक्खं आणं च मग्गेइ । ससुरो वि तं सिक्खं दाऊण "पुणाऽवि आगच्छेज्जा" - एवं कहिऊण किंचि अणुसरिऊण अणुण्णं देइ । एवं पढमो जामायरो 'वज्जकुडेण मणीरामो' निस्सारिओ।
पुणरवि भज्जं कहेइ - "अज्जपभिइं जामायराणं तिलतेल्लेण जुत्तं रोट्टगं दिज्जा" । सा भोयणसमए जामाऊणं तेल्लजुत्तं रोट्टगं देइ । तं दट्ठण माहवो नाम जामायरो चिंतेइ- 'घरंमि वि एयं लब्भइ, तओ इओ गमणं सुहं' । मित्ताणं पि कहेइऽहं कल्ले गमिस्सं, जओ भोयणे तेल्लं समागयं" । तया ते मित्ता कहिंति - "अम्हकेरा सासू विउसी अत्थि, जेण सीयाले तिलतेल्लं चिअ उयरग्गिदीवणेण सोहणं, न घयं, तेण तेल्लं देइ, अम्हे उ एत्थ ठास्सामो" । तया माहवो नाम जामायरो ससुरपासे गच्चा सिक्खं अणुण्णं च मग्गेइ । तया ससुरो "गच्छ गच्छ' त्ति अणुण्णं देइ, न सिक्खं । एवं 'तिलतेल्लेण माहवो' बीओ वि जामायरो गओ।
तइअचउत्थजामायरा न गच्छंति । 'कहं एए निक्कासणिज्जा' इअ चिंतित्ता लद्धवाओ ससुरो भज्जं पुच्छेइ – “एए जामाउणो रत्तीए सयणाय कया आगच्छंति ?" । तया पिया कहेइ - "कयाइ रत्तीए पहरे गए आगच्छेज्जा, कया दु-तिपहरे गए आगच्छंति ?" | पुरोहिओ कहेइ - "अज्ज रत्तीए तुमए दारं न उग्घाडियव्वं, अहं जागरिस्सं" । ते दोण्णि जामायरा संझाए गामे विलसिउं गया,विविहकीलाओ कुणंता नट्टाइं च पासंता, मज्झरत्तीए गिहद्दारे समागया । पिहिअं दारं दट्टण दारुग्घाडणाए उच्चसरेण रविंति - "दारं उग्घाडेसु" त्ति । तया दारसमीवे सयणत्थो पुरोहिओ जागरंतो कहेइ – “मज्झरत्तिं जाव कत्थ तुम्हे
११७
Page #128
--------------------------------------------------------------------------
________________ थिआ? अहुणा न उग्घाडिस्सं / जत्थ उग्घाडिअद्दारं अत्थि, तत्थ गच्छेह" एवं कहिऊण मोणेण थिओ / तया ते दुण्णि समीवत्थियाए तुरंगसालाए गया। तत्थ अत्थरणाभावे अईवसीयबाहिया तुरंगमपिट्ठच्छाइअवत्थं गहिऊण भूमीए सुत्ता / तया विजयरामेण चिंतिअं - ‘एत्थ सावमाणं ठाउं न उइअं' / तओ सो मित्तं कहेइ - "हे मित्त ! कत्थ अम्हं सुहसज्जा? कत्थ य इमं भूलोट्टणं? अओ इओ गमणं चिअ वरं" / स मित्तो बोल्लेइ - “एआरिसदुहे वि परन्नं कत्थ? अहं तु एत्थ ठास्सं / तुमं गंतुमिच्छसि जइ, तया गच्छसु" / तओ सो पच्चूसे पुरोहियसमीवे गच्चा सिक्खं अणुण्णं च मग्गीअ / तया पुरोहिओ सुट्ठ त्ति कहेइ / एवं सो तइओ जमाया 'भूसज्जाए विजयरामो' वि निग्गओ। अहुणा केवलं केसवो जामायरो तत्थ थिओ संतो गंतुं नेच्छइ / पुरोहिओ वि केसवजामाउणो निक्कासणत्थं जुतिं विआरिऊण नियपुत्तस्स कण्णे किंचि वि कहिऊण गओ / जया केसवजामायरो भोयणत्थं उवविट्ठो, पुरोहिअस्स य पुत्तो समीवे वट्टइ तया सो समागओ समाणो पुत्तं पुच्छइ - "वच्छ ! एत्थ मए रूवगो मुक्को सो य केण गहिओ? / सो कहेइ - "अहं न जाणामि" / पुरोहिओ बोल्लेइ - "तुमए च्चिय गहिओ, हे असच्चवाइ ! पावा ! धिट्ठ ! देहि मम तं, अन्नह तं मारइस्सं" ति कहिऊण सो उवाणहं गहिऊण मारिउं धाविओ / पुत्तो वि मुढेि बंधिऊण पिउस्स सम्मुहं गओ / दोण्णि ते जुज्झमाणे दट्ठण केसवो ताणं मज्झे गंतूण "मा जुज्झह मा जुज्झह" त्ति कहिऊण ठिओ। तया सो पुरोहिओ - "हे जामायर ! अवसरसु अवसरसु" त्ति कहिऊण तं उवाणहाए पहरेइ / पत्तो वि - "केसव ! दरीभव" त्ति कहिऊण मुट्ठीए तं केसवं पहरेइ / एवं पिअर-पुत्ता केसवं ताडिति / तओ सो तेहि धक्कामुक्केण ताडिज्जमाणो सिग्धं भग्गो / एवं 'धक्कामुक्केण केसवो' सो चउत्थो जामायरो अकहिऊण गओ / तद्दिणे पुरोहिओ निवसहाए बिलंबेण गओ / नरिंदो तं पुच्छइ - "किं विलंबेण तुमं आगओ सि?" / सो कहेइ - "विवाहमहूसवे जामायरा समागया / ते उ भोयणरसलुद्धा चिरं ठिआऽवि गंतुं न इच्छति / तओ जुत्तीए सव्वे निक्कासिआ / ते एवं वज्जकुडा मणीरामो, तिलतेल्लेण माहवो / भूसज्जाए विजयरामो, धक्कामुक्केण केसवो // " त्ति तेण सव्वो वुत्तंतो नरिंदस्स अग्गे कहिओ / नरिंदो वि तस्स बुद्धीए अईव तुट्ठो / एवं जे भविआ कामभोगविसयवामूढा सयं चिय कामभोगाइं न चएज्जा, ते एवंविहदुहाणं भायणं हुंति / उवएसो जामायरचउक्कस्स, सुणिऊण पराभवं / ससुरस्स गिहावासे, सम्माणं जाव संवसे // 3 // ससुरगेहम्मि भोयणासत्तचउजामायराणं कहा समत्ता // - सक्कयकहाए 118