________________
अतो बालोऽयं म्लायं म्लायं पठन-खेलनादिषु सर्वकार्येषु सीदन् सन् रुग्णो जातः । तीव्रो दाहज्वरस्तद्देहे लग्नः । तत्पित्राऽऽहूतश्चिकित्सकस्तदर्थमुत्तममौषधं दत्तवान् । किन्तु बहुदिनान्यौषधग्रहणेनाऽपि तस्य ज्वरो शान्तो न जातः प्रत्युत वर्धते स्म । तस्य सर्वामपि परिचर्यां सा तस्य मातैव करोति स्म । किन्तु सर्वमपि निष्फलम् । एतेन चिन्तिता जाता सा अहर्निशं तत्पार्वं नैव मुञ्चति स्म।
इतश्च कुसुमोऽपि रोगेनाऽऽकुलीभूतो वात्सल्य-स्नेहतृषितश्च मनसैव तस्या दूरीभूतस्तां नैवाऽऽह्वयति पश्यति स्म वा, तया समाहूतोऽपि चोत्तरं नैव ददाति स्म । एतद् दृष्ट्वाऽतीव दुःखितायास्तस्या मनसः कर्तव्यत्वबुद्धिः कदा विलीना जाता कदा च हृदयस्थं सहजं वात्सल्यं प्रेम च प्रकटीभूतं तत् तयैव न ज्ञातम् । इदानीमावश्यकताऽऽसीत् केवलमेकस्यैवाऽऽघातस्य यस्तद् वास्तव्यं प्रेम चाऽवरुध्य स्थितं सङ्कोचं सर्वथा नाशयेत् । अचिरादेव तदपि मुहूर्त समागतम् ।
एकदा कुसुमस्य दाहज्वरोऽत्यधिकं वर्धित आसीत् । चिकित्सकेन हि परिचारिकायै तल्ललाटे शीतलजलार्द्रा वस्त्रपट्टिकाः स्थापयितुमादिष्टम् । किन्तु परिचारिकां दूरीकृत्यैषा स्वयमेव तदर्थमुपविष्टा क्रमशश्चैकैकां वस्त्रपट्टिकां स्थापयति स्म । एवं च कुर्वत्या तया तदुष्णतां ज्ञातुं ललाटोपरि स्वहस्तो न्यस्तः । तस्य वात्सल्यभृतं मृदुस्पर्शमनुभूय कुसुमेनाऽक्षिण्युन्मीलिते । तां च दृष्ट्वा झटिति निमीलिते । एतद् दृष्ट्वा तया पृष्टं - 'किं रे वत्स ! मां द्रष्टुं नेच्छसि ?'
'नैव' - तेन रूक्षतयोक्तम् । 'किमर्थम् ?' 'त्वं मम माता न'। 'अहं तव मातैव भोः !' तयाऽऽकुलतयोक्तम् । 'मम माता तु स्वर्गं गताऽस्ति' ।। 'अहं स्वर्गात् प्रत्यागता तव मातैव वत्स!' सार्द्रनयनया तया गदितम् । 'किमर्थं त्वमागता ?' रोषेण तेन पृष्टम् ।
'त्वदर्थमेव वत्स ! त्वदर्थम्' इत्यत्यन्तगादीभूतया तयोक्त्वा सहसा तमुत्थाप्य वक्षसि च परिरभ्य चुम्बनवृष्ट्या सान्द्रस्नेहेन च स्नापितः सः । इदानीं वात्सल्यपूरेण प्रेमवर्षणेन च सर्वेऽप्यवरोधका विनष्टा आसन् । कुसुमस्य स्वजननी प्राप्ताऽऽसीत् । तस्य सर्वेऽपि स्वप्नाः फलिता आसन्।
प्रेम वात्सल्यं चैव जीवनस्य परिचालकं बलमित्यहं मन्ये । बहूनां दुःखितानि कुपथगामीनि च जीवनानि प्रेम्णैव परावर्तितानि । बाल्ये एव कुत्रचिच्छ्रतायां कथायामस्यां प्रकटितं प्रेम्णो मर्म हृदयं हठात् स्पृशतीत्येतदर्थमेषा कथाऽत्र यथाश्रुतं निरूपिताऽस्ति ।
७५