SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ को भगवान् ? डॉ.वासुदेव वि. पाठकः 'वागर्थः' अस्त्यस्माकमेकः सुहृद् अध्यापकः / वस्तुतः, परोपकारपरायणः स बहूनां सुहृद् / विद्यादानं करोति, किन्त विद्याविक्रयाद विमुखः स आर्थिकरीत्या सामान्य जीवनं जीवति / तस्य धर्मपत्न्यपि तथैव तस्याऽनुसरणं करोति / एकदा साऽतीव रुग्णा जाता / परिचितैः सर्वैराश्चर्यमनुभूतम् / ईश्वरीयन्यायस्य विषये शङ्काऽपि कृता / 'अस्या विषये एवं नैव भाव्यम्' इति सर्वेषां स्वरः / कलियुगस्य प्रभाव एष इति कथयन्ति सर्वे / का गतिः ? "सीदन्ति सन्तः, विलसन्त्यसन्तः" / एवं सत्यपि दम्पत्योश्चित्ते न काऽपि विपरीता भावना ईश्वरीये आयोजने / कथयन्ति यद दुःखं नैव ददाति देवः, देवः प्रीत्या रक्षति रे पिता समेषां देवस्साक्षात् साहाय्यं च करोति रे / / कस्याऽपि सूचनेन स्वस्थेन मनसा सा आणंद-नगरे, 'आइ.पी.मिशन हॉस्पीटलं' नीता / 76
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy