SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ('लीमडावाळु दवाखानु' इति नाम्ना ख्यातोऽयं रुग्णालयः ।) अतीवसेवापरायणः 'डॉ. रूथर फोर्ड' नामको वैद्यः (Doctor) कदा कदाऽऽगच्छति स्म तत्र । सद्भाग्यतः स एव तत्राऽऽसीत् तद्दिने । सफलचिकित्सकत्वेन प्रतिष्ठितो डॉ. फोर्डः । तथाऽपि, रोगस्य गम्भीरतां दृष्ट्वा सः चिन्तामग्नो जातः । किं कार्यमिति प्रश्नस्तस्य मनसि । तस्या व्याधिग्रस्ताया अतीवाऽशक्तिं विचार्य, सर्वप्रथमं तेन रुधिरस्याऽल्पत्वस्य निदानं विचारितम् । सत्वरमेव रुधिरं दातव्यमिति कृत्वा, तेन तस्या रुधिरपरीक्षा कृता रुधिरस्य प्रकारोऽपि (Blood-group) निश्चितः कृतः । B+ इति प्रकारकं रुधिरमासीत् । तदनु तस्याः पतिमुद्दिश्य तेनोक्तं - भ्रातः ! एषा प्रथमं शक्तिसम्पन्ना कार्या । तदनु अन्यव्याधिनिवारणे यत्नः शक्यः । अधुनाऽहं तव रुधिरपरीक्षां करिष्ये । यदि तदनुरूपं तर्हि तस्यै तवैव रुधिरं दातव्यम् । यदि तत् शक्यं, शोभनम् । अन्यथाऽपि चिन्ता नैव कार्या । मम रुधिरं तु सार्वत्रिकरूपम् (Universal Group) । अहं मम रुधिरं दास्यामि । ___ ईश्वरकृपया तवैव रुधिरमनुरूपं चेदानन्दस्य वार्ता । मम रुधिरं कस्याऽप्यन्यस्य रुग्णस्य कृते उपकारक भविष्यति। श्रुत्वैतदुपस्थिताः सर्वेऽप्येकमेव वाक्यमवदन् - भग*-वानेव भग-वन्तं प्राप्तः । यो जीवति परार्थाय जीवनं तस्य शोभते । तत्रैव भगवद्रूपे व्यक्ता भवति दिव्यता ।। कृते निदाने उपचारयोग्यतया सा रोगमुक्ता जाता, प्रसन्नता च व्याप्ता । अन्यायेन धनं नैव, न प्रतिष्ठा छलेन वा । पापं कृत्वा न सत्ताऽपि, सर्वमन्ते विनाशदम् ।। न्याय्येन जीवनं भद्रं न्याय्येन सुखमद्भुतम् । न्याय्येन परमा शान्तिः न्यायतः किं न लक्ष्यते ।। इति सुभाषितानुसारिणं जीवनमध्यापकस्य विपत्तौ अपि साफल्यमानयत् ॥ (कथाबीजं - प्रा. बंसीलाल पटेल (वल्लभविद्यानगर, आणंद)) ३५४, सरस्वतीनगर, आंबावाडी, ३८००१५ * ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां 'भग'इतीरणा ।। भगेन युक्तः सम्पूर्णतया, स भगवान् । ७७
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy