SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (उपमेयवाचकलुप्ता) २७. रम्यधीषु नृषु कण्टकीयसि ग्राम्यबुद्धिषु पुनः सुमीयसि । याचकेषु च महाभिनीतियुक् सूचक ! द्विरसनीयसि ध्रुवम् ॥ वाक्यार्थोपमा२८. व्योमोड्डयनगम्भीरां पश्य कादम्बिनीं सख्खे । सरोमञ्जनसोल्लासां रमणीयां घटामिव ॥ २९. मत्स्यनाशनि ! मत्स्यस्य ग्रहार्थं क्षुधिता सती । सौदामनीव पतिता त्वमहोऽतिद्रुताऽर्णवे ॥ (मत्स्यनाशनि! = Kingfisher) ३०. जन्तून् हतविधे! मीनान् धीवरो बडिशैरिव । घोरव्यसनसङ्घातैस्तुदितुस्तव का व्यथा ? ॥ (धर्मवाचकलुप्ता) ३१. धीमन् ! ग्रन्थव्रातपूतस्य विद्याकोशन्ती ते माऽस्तु बुद्धिः कदाचित् । दुःखोद्वेगे प्रस्तरन्ती परेषां तूलन्ती वा स्वीयदुःखप्रसङ्गे ॥ (धर्मवाचकलुप्ता) ३२. कूर्मति य एव मत्पुत्रः शालेति श्रुतिं समाकर्ण्य । काननहरिणति खेलेति शब्दपतनात् स एव सोल्लासम् ॥ (धर्मवाचकोपमानलुप्ता) ३३. गिरिराजधैर्य ! सुरराजवीर्य ! किं जलदातृदाढऱ्या-जन-दुष्टपद्धतिम् । भवता निषेव्य बहुशुग् विरच्यते नयनाम्बु भूषणगणे च मुच्यते ॥ [कपिभिर्दर्शितेषु सीताया भूषणेषु शोचन्तं श्रीरामं प्रति लक्ष्मणस्योक्तिरियम् ॥ (पूर्णा) ३४. उपविष्टबम्भरेयं सुमनोमण्डलदलावली भाति । निष्टप्तनीलमणिरिव भूषा वर्तुलविभागपक्तिमती ॥ [बम्भर:-षट्पदः ।
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy