SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Title-4 निवेदनम् अयि भो ! नन्दनवनकल्पतरुफलरसास्वदिच्छुकाः सहृदयवाचकाः ! अवधार्यतामेतद् यत् प्रवर्त्तमानं वर्षं कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यस्य पुण्यस्मृत्याऽङ्कितम् । महापुरुषस्याऽस्य ११६६ तमे वैक्रमीयवर्षे सूरिपदेनाऽलकृतिः समजनि । तत इदानीं कलिकालसर्वज्ञस्य नवमसूरिपदशताब्द्या उत्सवाचरणस्य पुण्यावसरः । उत्सवेऽस्मिन् स्वीयया विशिष्टशैल्या भागं ग्रहीष्यति नन्दनवनकल्पतरुपरिवारः । तन्नाम नन्दनवनकल्पतरोरग्रिमा शाखा 'कलिकालसर्वज्ञ-विशेषाङ्क' रूपेण प्रकाशयिष्यते । अतो निमन्त्र्यन्ते भवन्तो यद अघोनिर्दिष्टेषु तत्सदृशेषु वा कलिकालसर्वज्ञसम्बन्धिविषयेषु लेखनी प्रचाल्य विशेषाङ्कमिदमङ्कर्वन्तु । विषयाः - कलिकालसर्वज्ञस्य जीवनम् - कलिकालसर्वज्ञस्य राजनैतिकक्षेत्रे प्रभावः - कलिकालसर्वज्ञस्य समुदारदृष्टिः - कलिकालसर्वज्ञस्य योगसिद्धिः - कलिकालसर्वज्ञस्य दार्शनिकप्रतिभा - कलिकालसर्वज्ञेन संस्थापितानि नैतिकमूल्यानि - कलिकालसर्वज्ञस्य ग्रन्थाः - त्रिषष्टिशलाकापुरुषचरित्रमहाकाव्यस्य रमणीयता - योगशास्त्रस्थं स्वानुभवपरिपाकजं योगवर्णनम् - वीतरागस्तवे प्रकटीभवद् भक्तितत्त्वम् - सिद्धहेमशब्दानुशासनस्योत्कृष्टता एतदतिरिच्य कलिकालसर्वज्ञसम्बन्धि प्रेरणास्पदघटनारोचकप्रसङ्गः-स्तुत्याद्यपि प्रेषयितुं कल्पते । भवद्हृदयस्थं कलिकालसर्वज्ञं प्रत्यादरं व्यक्तीकर्तुमयमेकः सुयोग्योऽवसरः । प्रेषणावधिः 11
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy