SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ (श्रौती धर्मलुप्ता समासे) ८. प्रजाभिः सहिते राज्ये नेत्रैदृष्टोऽम्बुजैरिव । ताराभिरन्विते व्योम्नि राजा राजेव हे सखे ! ॥ ["इवेन समासो विभक्त्यलोपश्च" इति वैयाकरणसमयः । तस्मात् 'अम्बुजैरिव', 'राजेव' इत्युभयत्रापि समासो न केवलं सन्धिः । अन्यच्च- 'हे सखे' इत्यत्र ‘राजते' इति पाठकल्पने तु राजनस्य साधारणधर्मत्वात् पूर्ववदनुदाहरणत्वं प्रसज्येत ] (आर्थी धर्मलुप्ता-वाक्ये) ९. सुधया सम्मिता वाणी शिलया सदृशी मतिः । नटाभिनीत्या दुष्टस्य तुल्या वचनवैखरी ॥ (आर्थी धर्मलुप्ता-समासे) १०. कोकिलालापसंवादी नादः संगीतके श्रुतः । सुधाधारासजातीया जाता चाऽऽमोदसन्ततिः ॥ (आर्थी धर्मलुप्ता-तद्धिते) ११. सदृढधियां फलकल्पं लषितं नृणां भवत्यसंकसकम । चञ्चल ! जहति न संकल्पास्ते संकल्पकल्पतां जातु ॥ [अ-संकुसुकम-स्थिरम् । 'संकुसुकोऽस्थिरे' इत्यमरः ।। वाचकलुप्ता१२. शीतांशुगौरेण कपोतकेन छत्राभिरामे विटपिन्यदीर्थे । अगायि गीतं बहुधा रवेण नीरेऽश्मपात-ध्वनिमञ्जुलेन ॥ (कर्तृक्यङि वाचकलुप्ता) १३. सति वस्तुकृते धनव्यये हृदयं धन्वगताम्बुजायते । कृपण ! द्रविणगमे तु ते रविबिम्बेक्षकनीरजायते ॥ [धन्व = मरुस्थलम् । (कर्तृक्यङि वाचकलुप्ता) १४. शब्दैः पुरं सृति-ग-वाहन-वृन्दजातैः श्वभ्रायते नमनो गरलायमानैः । ग्रामः पुनर्जनपदादृतमञ्जुगीतैः स्वर्गायते मनुजचित्तसुधायमानैः ॥ २६
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy