SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ वाचकलुप्ता समासगा१५. आकाशे सलिलाशयनीले शीतांशुखण्डरुचिराणाम् । कहानामावलिरुपजनयति मुदमननुभूतपूर्वां मे ॥ (कहानाम् = बकानाम् । (वाचकलुप्ता समासगा) दाडिमरोहितमुज्झन् निशि राकायां शनैर्निजं रूपम् । सुविदलितकूर्चके सरशुभं बिम्बं दधाति शीतांशुः ॥ [कूर्चके सरो नारिकेलः । 'लाङ्गली' इत्यपरं नामाऽस्ति नारिकेलस्य । एतेन, शुद्धसंस्कृतेऽभिधानद्वयवतोऽस्य वृक्षस्य केवलं द्राविडमूलक संज्ञावत्त्वं प्रतिपादयन्तः परास्ताः। किमुत "संस्कृतभाषिणां जनानां पूर्वं नारिकेल-वृक्षस्य परिचय एव नाऽऽसीत्, द्राविडानां संपर्कानन्तरमेव तेषां संजातं नारिकेलवृक्षदर्शनभाग्यम्" इति वादिनः ?] वाचकलुप्ता कर्मक्यचि १७. मारालपर्णमृदुला निशि भूप ! शय्या प्रातश्च मागधकूता स्तुतिगीतयस्ताः । सर्वं स्मर त्वमुपलं बत साम्प्रतं यो मञ्चीयसि श्रुतिकट्रन विरवांश्च शृण्वन ॥ (युधिष्ठिरं प्रति द्रौपद्या वाक्यमिदम् ।) १८. कल्पद्रुमीयति जनः स जनेश ! वीक्षा दुग्धाब्धिबिन्दुसहजा यदुपर्यहो ते । शाखोटकीयति निपातयसि स्वदृष्टिं हालाहलाणुभगिनीमथ चेत् स एव ॥ १९. विस्मितो विश्वरूपस्य दर्शनाद् विजयोऽवदत् । विष्फुलिङ्गायते सूर्यः पुरस्ते पुरुषोत्तम! ॥ (वाचकलुप्ता कर्मक्यचि) २०. अरसिक ! सरसां नूतनकवितां गरसंहतीयसि जडात्मन ! । प्राचीनकृतिरटनममृतीयसि नीचीयसि ज़मपि नव्यम् ॥ २७
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy