SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ रक्षिपुरुषः मया गुप्तकाश्यां सिद्धिरवाप्ता । गुप्तगौहाट्यां मम गुरुभ्राता तिष्ठति । मृदङ्गदासः मया द्विवारं चतुर्धामयात्रा कृता । त्वया कति धानाम् ? रक्षिपुरुषः अहं नित्यमेव पञ्चधामयात्रां सम्पादयामि । पञ्चधाम्नाम् ?? मृदङ्गदासः भो कथमिदं सम्भवति ? किमिदं पञ्चमं धाम ? रक्षिपुरुष: पश्य मूर्ख ! मनः शरीरापेक्षया सुष्ठुतरम् । त्वं शरीरमात्रेण चतुर्धामयात्रां कृतवानसि। परन्त्वहं मनसैव नित्यमेव तत्र गच्छामि । किञ्च, मनसैव यमपुरीमपि नित्यमवेक्ष्य प्रत्यावर्ते । मनः शक्त्या किन्न कर्तुं शक्यते ? मृदङ्गदासः (भैरवमुद्रायां भूयोऽपि नृत्यन्) कुतरित् खुतरित् गुतरित् घुतरित्... रक्षिपुरुषः (तथैव समाचरन् ) चुतरित छुतरित जुतरित् झुतरित्...... मृदङ्गदासः (अभिभूयमानः) टुकरित ठुकरित डुकरित् ढुकरित् रक्षिपुरुषः तुकरित धुकरित दुकरित धुकरित् मृदङ्गदासः (सविजयोन्मादम् ) पुकरित् फुकरित्, बुकरित, भुकरित् रक्षिपुरुषः डुकरित जुकरित, णुकरित, नुकरित, मुकरित, युकरित, रुकरित, लुकरित, वुकरित, शुकरित षुकरित सुकरित हुकरित, क्षुकरित, क्षुकरित, क्षुकरित, क्षुकरित्....... (इत्येवं भणन्नेव वज्रमुष्टिप्रहारेण मृदङ्गदासमुखं भनक्ति । स च रक्तरञ्जितस्सन् भूमौ निपतति) नकुलदासः कुम्भदासः भोः किमिदम् ? कथं प्रताडयति भवान् अस्मद्गुरुवर्यम् ? रक्षिपुरुषः (स्वकीयं परिचयपत्रं प्रदर्शयन्) I धूर्त ! पाखण्डिन् ! पश्य । रक्षिपुरुषोऽहम् । एते मम सहचरा अपि रक्षिण एव । धूर्ततामभिनीय मुग्धान् जनान् प्रवञ्चयथ ? चिरकालादेव युष्माकं विषये श्रुतम्मया । परन्तु नित्यमेव स्थानपरिवर्तनवशात् न खलु निग्रहीतुं शक्तोऽभवम् । निर्यातय मम सम्बन्धिनः पञ्चशतरूप्यकाणि, सार्धञ्च मया चलत रक्षिस्थानकम् । पश्चात् च सेवध्वं चिराय कारागारम् । (निर्दिष्टा रक्षिणस्तथा कुर्वन्ति) ॥ पटाक्षेपः ॥ ॥ इति श्रीमदभिराजराजेन्द्रविरचितं मृदङ्गदासप्रहसनं परिपूर्णम् ॥ १०८
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy