SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ पितरौ मेऽतीव दयालू करुणहृदयौ चाऽऽस्ताम् । स्वपुत्रं मां सर्वजनसेवकमात्र निर्मातुं यत्नवन्तावास्ताम् । तत एव नामैतत् कृतं मम ताभ्याम् । मयाऽपि पित्रभिलाषं सार्थकीकर्तुं न परिवर्तितमभिधानमिदम् । कुम्भदासः कश्च भवतां रोगः? रक्षिपुरुषः पाखण्डखण्डनरोगः । पाखण्डपरायणान् दृष्ट्वैव आवेश इव सञ्जायते । प्रत्यङ्गं धनुष्टङ्कार इव सञ्जायते । अपस्मार इव समुत्पद्यतेऽकस्मादेव । रुद्ररूपतामुपयामि । पाखण्डिनं भूमौ निपात्य पशुमारं मारयामि । कदाचिद् यमीभूय तत्कण्ठनलिकामेव कुब्जीकरोमि । नाऽहं किञ्चिदपि स्मरामि यत्करोमि । परन्तु दर्शका एवं भणन्ति मद्व्यहारविषये । कुम्भदासः (वेपमान इव) विचित्रोऽयं रोगः ? नकुलदासमाह्वयामि । रक्षिपुरुषः भो कुम्भदास ! अलं नकुलदासमाहूय ! स्वगुरुवर्यं महायोगिराजं मृदङ्गदासमेव विज्ञापय यदङ्गभङ्गदासो नाम कश्चिद रुग्णः समागतोऽस्ति । (जनं निर्दिश्य) अयं मम सम्बन्धी । अस्यैव तातपादस्योपचारः कृतो भवद्भिः । अस्य मुखादेव भवद्गुरुप्रशस्ति श्रुत्वा समागतोऽहम् । तत् शीघ्रं गच्छ । वयमत्रैव प्रतीक्षामहे । कुम्भदासः (सन्दिग्धमनोवृत्त्या कुटीरं प्रविशति) (कालानन्तरं प्रविशति मृदङ्गदासः पूर्वाभ्यस्तनृत्यं कुर्वाणः) मृदङ्गदासः (विविधमुद्राभिर्नृत्यं सम्पादयन्) दोंदों दुमुक्क, दोंदों दुमुक्क, दोंदोंदोंङ् दोंदोंदोङ् दुह्दुह् दुहदुत् दोंदुमुक्क। रक्षिपुरुषः (मृदङ्गदासनृत्यमतिशयानः) अङ्गङ्गङ्ग अङ्गङ्गभङ्ग , अङ्गङ्गभङ्ग, मुखचिबुकभङ्ग करयुगलभङ्ग पदयुगलभङ्ग दृग्युगलभङ्ग सुललाटभङ्ग सुकपोलभङ्ग कलकण्ठभङ्ग युगजानुभङ्ग सितदन्तभङ्ग सर्वाङ्गभङ्ग सर्वाङ्गभङ्ग ! दोंदों दुमुक्क!! मृदङ्गदासः (सभयम्) भोः ! कोऽयं मन्त्रः? रक्षिपुरुषः अयं साबरमन्त्रः । साबरमन्त्रं जानासि, न वा ? अस्य मन्त्रस्य भाषा व्याकरणं किमपि नाऽपेक्षते । शबराणां विन्ध्यदरीवासिनां सिद्धमन्त्रोऽयम् ? मृदङ्गदासः कस्तव दीक्षागुरुः ? मन्त्रपारङ्गतः प्रतीयसे ! रक्षिपुरुषः साक्षाद् वृषभध्वजो रुद्रः । तेन स्वप्ने दीक्षितोऽस्मि । मृदङ्गदासः मया गुप्तगोदावर्यां साधना कृता । कुत्र तावत् त्वया ? १०७
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy