SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सर्वेऽपि गुणा निषेधात्मका एव प्रदर्शिताः । संस्थानपञ्चक-वर्णपञ्चक-रसपञ्चक-स्पर्शाष्टक-गन्धद्वय-वेदत्रिकदेह-भव-परसङ्गात्मकैकत्रिंशद्वस्तूनामभाव एव सिद्धस्य गुणाः । इदृश्येव 'नेति नेत्या'त्मिका निरूपणरीतिरुपनिषत्स्वपि। ___ संसारातीततत्त्वस्याऽस्याऽवर्णनीयत्वेऽपि ध्येयरूपेण सर्वस्वीकृतत्वात् तद् वर्णयितुं सर्वैरपि दार्शनिकैः प्रयत्नो विहित एव । तत्र यद्यपि तत्त्वव्यवस्था-परिभाषा-ज्ञानमात्रादिभेदतो वर्णनभेदा प्रजाता एव; तथापि तत्त्वत एकमेव निर्वाणमिति२२ सर्वेऽपि मतभेदा जैनमतेन प्रायः सङ्गमनार्हा एव । ___ तथाहि- नवानामात्मगुणानामात्यन्तिकोच्छेद एव मोक्ष इति नैयायिका यदूचुस्तद् वैभाविक(=शरीरेन्द्रियादि-विभावदशाजन्य)गुणानपेक्ष्यैव । मुक्तौ स्वाभाविकान् (=आत्ममात्रापेक्षान्) एव ज्ञानसुखादिगुणान् यदा जैनाः प्रतिपादयन्ति, तदा मोक्षे वैभाविकगुणोच्छेदः स्यादेवेत्यत्र तेषामपि सम्मतिरिति कथं नैयायिकजैनमतयोविभिन्नता ? किञ्च, ईश्वरात्मनि नित्यज्ञानसुखादिसत्त्वं नैयायिकैरप्यङ्गीकृतं खलु ?२३ एवं परमार्थतश्चिन्तयामश्चेद् मुक्तात्मनि नित्यज्ञानसुखादिसत्त्वं वदतां जनानां पङ्क्तावेव तेषामुपवेशनम् । चित्तसन्ततिनिरोधो मोक्ष इति बौद्धमतमपि परमार्थतः सवासनचित्तवृत्तिनाशे तन्नाम तृष्णाक्षये एव पर्यवस्यति । बौद्धशास्त्रेषु बहुत्र निर्वाणस्य ध्रुवत्वेन शुभत्वेन सुखमयत्वेन च वर्णितत्वात्२४, सर्वथाऽऽत्माभावत्वे तस्याऽसम्भवात् । अथ च सवासनचित्तसन्ततिनिरोध इति बौद्धमतस्य वासनापरनामकरागद्वेषपरिणतिक्षय एव मोक्ष इति जैनमतस्य च को भेदः परिभाषाभेदादृते? प्रकृतिवियोगे शुद्धचैतन्यावस्थानमेव मुक्तिरिति साङ्ख्यमतं कर्मप्रकृतिवियोगे आत्मनः शुद्धस्वरूपाविर्भाव एव मुक्तिरिति जैनमतस्य समानाभिप्रायकमेव । प्रकृतिगुणात्मकानन्दसत्त्वं तत्र साङ्ख्यैर्न स्वीकृतमित्यपि न जैनमतं व्यभिचरति - पुण्यप्रकृतिविपाकरूपसुखस्य मुक्तौ जैनैरप्यनङ्गीकारात् । शुद्धचैतन्यस्य केवलं निर्मलचिच्छक्तिमत्त्वं न पुनरानन्दवत्त्वमिति साङ्ख्यमतमपि जैनैः कथञ्चिदभ्युपगमार्हमेव - व्याबाधारहितस्य निर्मलचिच्छक्तिमत्त्वे एवाऽपेक्षाविशेषेणाऽऽनन्दस्य समावेशनीयत्वमिति जैनशास्त्रेषु प्रतिपादितत्वात् ।२५ एवं वेदान्तादिदर्शनस्थमुक्तिनिरूपणमपि जैननिरूपणेन सङ्गमयितुं शक्यमेव । जैनविचारणायाः सर्वाङ्गीणत्वमेवाऽत्र कारणीभूतमिति निश्चप्रचम् । वस्तुतो जैनदर्शनस्थमुक्तिविचारोऽतिविस्तृतो मादृशेनाऽनिपुणमतिनाऽगम्यश्च । तथापि तत्त्वार्थाधिगमसूत्रस्य दशमोऽध्यायः-सभाष्यः(-श्रीउमास्वातिवाचकः), पञ्चसूत्रस्थ-पव्वज्जाफलसुत्तं (-श्रीहरिभद्रसूरिः), न्यायालोकस्थ-मुक्तिवाद:(-उपा.श्रीयशोविजयः), विशेषावश्यकस्थ-षष्ठैकादशगणधरवक्तव्यते (-श्रीजिनभद्रगणिः) -इत्येतान् ग्रन्थानाधारीकृत्य लिखितुं प्रयत्नो विहितः । टिप्पण्यां यस्य स्थाननिर्देशो न विहितः, स सर्वोऽपि विषय प्राय एतेभ्य एव मूलेभ्यः सङ्गृहीतः । इतोऽप्यत्र बहु बहु वक्तव्यमवशिष्यते, तत्पुनरेतेभ्यो ग्रन्थेभ्यस्तत्सदृशान्येभ्यश्चाऽवसेयमिति शम् ।
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy