SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिहोरात्मको दिवसरूपः कालविशेष आरभ्यते । एवं दिवसः सादिः । तथाऽपि यथा न वक्तुं शक्यते यत् प्रथमो दिवसः कस्तथाऽत्राऽपि बोद्धव्यम् । मुक्तावात्मस्वरूपमनन्तज्ञानसुखादिमयम् । क्षायिकाः (=कर्मक्षयजन्या) एव भावा अत्राऽवशिष्टा भवन्ति । न पुनः क्षायोपशमिकाः (कर्मणामेकस्यांऽशस्य क्षयेन तदितरांशस्य चोपहतशक्तीकरणेन जन्याः) औपशमिकाः (कर्मणां सर्वांशेनोपहतशक्तीकरणेन जन्याः) औदयिकाः (कर्मोदयजन्याः) वा । पारिणामिकास्तु (सहजाः) भव्यत्वं विहाय जीवत्वा-ऽनाद्यनन्तत्वा-ऽरूपित्व-गुणाधारत्वा-ऽसङ्ख्यप्रदेशवत्त्वादयस्तथावस्था एव । भव्यत्वमर्थात् सिद्धिगमनयोग्यत्वं पुनः स्वफलं दत्त्वा विनिवर्तते । तथाऽपि सिद्धिगमनायोग्यताऽपि न, येनाऽभव्या इत्युच्येरनतः सिद्धा 'नो भव्या नो अभव्या' इति शास्त्रे उच्यते । एवंरीत्यैव चारित्रस्याऽर्थः 'चारात् = कारागृहसदृशसंसारात् त्रायते' इति तत्सदृशो वा कश्चित् क्रियते तर्हि तदपेक्षया 'नो चारित्री नो अचारित्री' इत्युच्यते । अत्र मुक्तौ ज्ञानं नाऽस्तीति ज्ञानस्येन्द्रियादिसापेक्षत्व-प्रकृतिजन्यत्वाद्यङ्गीकुर्वतां नैयायिकादीनां कथनं सुखवदेव सङ्गमनीयम् । आत्मनो ज्ञानराहित्ये आत्मा पाषाणकल्प एव भवेद् - ज्ञानस्यैव जडचेतनभेदकत्वादिति न विस्मर्त्तव्यमत्र । यद्यपि मोक्षमिमं विशुद्धतमात्मिकपरिणत्या प्रबलपुरुषार्थेन च सर्वे जीवा अधिगन्तुं शक्तास्तथापि तदर्थं कानिचित् सहकारिकारणान्यावश्यकानि । तानि मुख्यत इमानि - मनुष्यगतिः, मोक्षगतियोग्यः कालः, श्रेष्ठतमं शारीरमानसबलं, तीव्रनिकाचितकर्माभावश्च । वस्त्रधारणे स्त्रीदेहे वा सति मोक्षोऽसम्भव्येवेति कदाग्रहग्रहिला दिगम्बरजैना अत्र नग्नत्वं पुल्लिङ्गत्वं चाऽपि निवेशयन्ति । कस्मिंश्चिदपि वेषभूषादौ रागद्वेषविलयतो मोक्षसम्भावनां स्वीकुर्वद्भिः, स्त्रीणां मोक्षविषये पुरुषतुल्यसामर्थ्य चोररीकुर्वद्भिः श्वेताम्बरजैनैस्तन्मतं विस्तरतः खण्डितमेवेति नेह प्रतन्यते ।१८ मोक्षस्याऽस्य प्ररूपणा पूर्वावस्थापेक्षया तीर्थसिद्धादिपञ्चदशभेदत इदानीन्तनावस्थापेक्षया क्षेत्राद्यनुयोगत उभयावस्थापेक्षया च चतुर्दशमार्गणातः क्रियते ।१९ परं तदवगमार्थं जैनपारिभाषिकशब्दानां जैनशास्त्रीयपदार्थानां च विशदज्ञानस्याऽपेक्षा भवतीति नेह प्रदर्श्यते । वस्तुतो मुक्तिरियमतीन्द्रिया वचनातीता तर्काग्राह्या मनोऽग्राह्या चेत्यत्र सर्वेषां दार्शनिकानां सम्मतिः । यतः संसारस्थानामस्माकं बुद्धिवचनव्यवहारविकल्पादि सर्वमपि संसारपरिधावेव सीमितं, ततः तद्बहिर्भूता मुक्तिस्तदगोचरैव स्याद् । अत एवोपनिषत्सु मोक्षस्य विशुद्धसत्त्वग्राह्यत्वमेव प्रतिपादितम् ।२० बौद्धदर्शनेऽपि लौकिकदृष्टिपुरुषस्य मोक्षज्ञानेऽसामर्थ्य प्रतिपादयित्वा तस्य विशुद्धमनोविज्ञानविषयत्वमेव कथितम् ।२१ जैनमतेऽपि तस्याऽनिर्वचनीयत्वं स्पष्टतः स्थिरीकृतमस्ति । तदुक्तमाचाराने मोक्षनिरूपणप्रसङ्गे - "सव्वे सरा नियटुंति" (सूत्र १७०) । एतट्टीका- 'न तत्र शब्दानां प्रवृत्तिः, न च सा काचिदवस्थाऽस्ति या शब्दैरभिधीयेत । तथाहि- शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवर्तेरन्, न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति" इति । तत्रैव मोक्षस्य तर्कातीतत्वं विकल्पातीतत्वं चाऽपि प्रतिपादितम् । अत एव सिद्धस्यैकत्रिंशदगुणाधारकत्ववर्णने ५२
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy