SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सिद्धानां संसारे सर्वं सम्यगेव भवेदिति प्रबलेच्छा । अनन्तशक्तिसम्पन्नत्वाच्च तत् कर्तुं ते शक्ताः । ततः स्वस्थापिततीर्थनिकारादिकारणतो दुष्टादुष्ट-निग्रहानुग्रहसम्पादनार्थं ते कथं पुनः संसारे नाऽवतरेयुः? अवबोधसमाधेया इमा विप्रतिपत्तय इति जैनाः । १. यत् कृतकं तदनित्यमिति व्याप्तिरसिद्धा । ध्वंसस्य कृतकत्वे सत्यप्यविनाशित्वमेवाऽभिमतम् । एवं सति कर्मध्वंसरूपमोक्षस्य सैव स्थितिरित्यत्र का बाधा ? अन्यच्च, मोक्षस्य सर्वथा कृतकत्वमपि न । तथाहि- गगनस्य घटसंयोगदशायां घटसंयुक्तत्वविशिष्टाकाश इत्युच्यते । मुद्गरादिना घटनाशाद्धटसंयोगनाशे च शुद्धाकाश इति कथ्यते । एवं सति गगनस्य या शुद्धता घटनाशे प्रादुर्भूता, तस्याः कृतकत्वमननं कथं समीचीनं स्यात् ? सा तु मुद्गरप्रहारेण न जन्या किल ? तन्नाम शुद्धया व्यक्तेविशेषणसत्त्वे वैशिष्टयभाक्त्वेऽपि न शुद्धता व्याहन्यते । अन्यथा विशेषणाननुसन्धानदशायां वैशिष्ट्यस्याऽबोधात् शुद्धव्यक्तेश्चाऽसत्त्वादनवबोध एव विलसेत् । न च तथाऽनुभूयते इति वैशिष्ट्यं सादि स्यादनादि वा, शुद्धता त्वनादिरेव भवेदिति । अथ चाऽऽत्मनः शुद्धावस्थैव मुक्तिः । शुद्धतेयं कर्मसंयोगवैशिष्ट्यकालेऽप्यासीदेव । यदा च तपोध्यानादिना तद् वैशिष्ट्यं नष्टं तदा पूर्वतो विद्यमाना शुद्धतैवाऽवशिष्टा । तथाचेदानीं स मुक्त इति व्यवहारः, वैशिष्ट्यराहित्यकालीनशुद्धावस्थावदात्मन एव लोके मुक्तत्वाङ्गीकारात् । न च तावता शुद्धतेयं कृतकेति वक्तुं पार्यते इति कृतकत्वाभावाद् यत् कृतकं तदनित्यमिति व्याप्तेः सिद्धत्वेऽपि न दोषः । २. पर्यायाणां यत् क्षणस्थायित्वमुक्तं तद् येषां पर्याय विशेषाणामवान्तरपर्याया न सम्भवन्ति, तानपेक्ष्यैव, न पुनरवान्तरपर्यायसन्तानाधारपर्यायाणामपि क्षणस्थायित्वमभिमतम् । तथाहि- घटो नाम मृदः पर्यायविशेष एव । तथाऽपि घटः क्षणस्थायीति न कथ्यते- अनुभवापलापापत्तेः । एवं सत्यपि यत् प्रतिसमयमुत्पादविनाशयुक्तत्वं घटस्य प्रतिपादितं, तत् प्रथमसमयघट-द्वितीयसमयघटादि-घटपर्यायावान्तरपर्यायविशेषापेक्षयैवेति पर्यायाणामक्षणभङ्गरत्वेऽपि दोषानावहत्वात् सिद्धत्वपर्यायोऽप्यनन्तकालस्थायी सम्भवेदेव । ३. प्रथमसमयसिद्ध-द्वितीयसमयसिद्धाद्यवान्तरपर्यायापेक्षया यद्यपि सिद्धावस्थायाः क्षणभङ्गरत्वमस्त्येव, तथापि सिद्धावस्थाया आनन्त्यस्वीकारेऽप्यात्मनः सिद्धावस्थारूप एक एव पर्यायस्तु नाऽस्ति, येन तत्पर्यायानाशे आत्मनः सर्वथा ध्रौव्यमेवाऽऽपतेत् । अर्थाद् ज्ञान-दर्शन-चारित्राद्यनन्तानन्त-पर्यायाणामाधारीभूतमात्मद्रव्यम् । तत्र ज्ञानपर्यायो गृह्यते चेत्तत् प्रतिसमयं विषयाणां परावृत्तेः परिवर्तते । द्रव्यपर्याययोश्च कथञ्चिदभिन्नत्वमेव स्वीकृतं स्याद्वादे इति ज्ञानपर्यायगतोत्पाद-विनाशयोर्द्रव्यस्थत्वविवक्षायामात्मन उत्पादव्ययध्रौव्ययुक्तत्वात्मकं सत्त्वं युक्तियुक्तमेव । ४. सर्वथा मोहापगमे एव सिद्धत्वमन्यथा मोहसत्त्वेऽपि सिद्धत्वाङ्गीकारे संसारिसिद्धयोरविशेष एव स्यात् । ततश्च मोहविकारात्मिकाया इच्छायाः कथं मुक्तौ सम्भवः ?१७ सर्वे जीवाः स्वकृतं कर्मैव वेदयन्तीति, भवितव्यतानुरूपं च सर्वं प्रचलतीति यो ज्ञानचक्षुषा पश्यति तस्य कथं सामीचीन्यसम्पादनार्थं संसारावतरणेच्छा ? कथं वा सर्वातिशायिकरुणालोनिग्रहाकाक्षा ? किञ्च, सिद्धस्य भवोपग्राहि कर्म क्षीणमक्षीणं वा? अक्षीणं चेत् कथं स मुक्तः? क्षीणं चेत् कथं भवोपग्रहः? कारणस्य विनष्टत्वादिति । ननु सिद्धावस्थायाः सादित्वे तादृशेन पुरुषेण भवितव्यं यः प्रथमतया सिद्धः । तत् कः स इति चेत् ? शृणु, सिद्धत्वस्य पुरुषापेक्षया सादित्वेऽपि प्रवाहतोऽनादित्वमेव । नित्यं सूर्योदयेन साकं
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy