SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सर्व-समृद्धिकरं आदिनाथप्रभुस्तवनम् मुनितारकचन्द्रसागरः शिवमन्दिरयानरथे वृषभं, नतसर्व-सुरेन्द्र-नरेन्द्रगणम् । श्रितभव्यजनं कूततीर्थवरं, प्रणमामि जिनेश्वरमादिजिनम् ॥१॥ (तोटकवृत्तम्) अमलं वदनं मधुरं वचनं, नयनं वरपङ्कजपत्रसमम् । नर-देवनतं गुणलक्षयुतं, प्रणमामि जिनेश्वरमादिजिनम् ॥२॥ भजनात् क्षणुते भवकर्मरिपुं, स्तवनात् तनुते गुणकेलिगृहम् । स्मरणात् ददते सकलं विभवं, प्रणमामि जिनेश्वरमादिजिनम् ॥३॥ वरदिक्कुमरीकूतसत्करणं, सुरकोटिगणैः कृतजन्ममहम् । त्रिजगज्जनता-नतपादयुगं, प्रणमामि जिनेश्वरमादिजिनम् ॥४॥ परमात्ममयं जिनपं विमलं, सविशुद्धसुवर्णसदृक्चरणम्। गतसर्वविकार-विषादमलं, प्रणमामि जिनेश्वरमादिजिनम् ॥५॥ हतमोहमहारिपु-सैन्यबलं, निजचेतनभावसमाधिगतम् । गतहास्य-रति-भय-शोकगणं, प्रणमामि जिनेश्वरमादिजिनम् ॥६॥ वरसिद्धिपदे स्थितमैन्द्रमयं, निरुपाधिनिरञ्जनमात्ममयम् । अविकल्पमयं निरपेक्षमयं, प्रणमामि जिनेश्वरमादिजिनम् ॥७॥ समवस्थितमात्मसुख्खे कमनं, वरकेवलबोधयुतं मधुरम् । सफलं सरसं रुचिरं प्रियदं, प्रणमामि जिनेश्वरमादिजिनम् ॥८॥ अघपर्वतभञ्जनवज्रसमं, भवदुःख-निवारण-कामघटम् । विगतेन्द्रियसर्व-विकारभरं, प्रणमामि जिनेश्वरमादिजिनम् ॥॥ भववारिनिधौ वयानसमं, भवभीमवने वरसार्थसमम् । अधरीकृतजन्मजरा-मरणं, प्रणमामि जिनेश्वरमादिजिनम् ॥१०॥ शुभशान्तसुधारसकुण्डमयं, शतभास्ककान्तिशरीरधरम् । वरसौख्यदधर्मविधानपरं, प्रणमामि जिनेश्वरमादिजिनम् ॥११॥ भवरोगनिवारण-वैद्यसमम्, भवतापनिवारण-मेघसमम् । बहुपुण्यकलाललितं प्रवरं, प्रणमामि जिनेश्वरमादिजिनम् ॥१२॥ उपसर्गमहानिल-शैलसम, कलिकालतमो निशि दीप-समं । भवतारक-तीर्थकरं सुभगं, प्रणमामि जिनेश्वरमादिजिनम् ॥१३॥
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy