SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पुनर्नाशमेवेति । "शक्ते. कदाऽपि नाशो न भवति, तत्परिणामान्तरमेव सम्भवती"ति वैज्ञानिकसंशोधनं तत्त्वान्तरविषयकमप्यत्र ध्यानाहम् । संसारे नरनारकादिपर्यायवियुतं शुद्धजीवद्रव्यं तु नैव दृष्टम् । पर्यायाश्च सर्वे कर्माधीना एवेति कर्मनाशे तज्जन्यपर्यायनाशात् तदवियुक्तं शुद्धजीवद्रव्यमपि न तिष्ठेदिति केषाञ्चित् कल्पना बालिशताद्योतिकैव । यतः किं मुद्गरपाताद् घटनाशे तदवियुक्तस्य गगनस्याऽपि नाशो भवति? जीवत्वं तु न कर्मसापेक्षं खलु ?, यत् कर्मनाशे तस्याऽपि नाशो भवेत् । वस्तुतः पर्यायवियतं द्रव्यं नैव भवतीति जैनैरपि स्वीकृतं, परं मक्तिरपि पर्यायविशेष एवेति न दोषः । 'जीवनं नाम प्राणधारणमेव । प्राणास्तु शरीरेन्द्रियादयः सर्वेऽपि कर्मजन्याः ।१३ मोक्षः कर्मनाशे सत्येव । ततस्तत्र प्राणाभावाज्जीवनाभाव इति जीवोऽजीवत्वं प्राप्नुयादिति मननमज्ञानविजृम्भितमेव । यतः प्राणा हि द्विविधाः- द्रव्यप्राणा भावप्राणाश्च । मोक्षे शरीरादि-द्रव्यप्राणानामेवाऽभावः, न पुननिदर्शनादिभावप्राणानाम् । तद्धारणाज्जीवस्य जीवत्वमपि सुस्थमिति । वस्तुतो ये केऽपि येन केनाऽपि प्रकारेण मोक्षे आत्मास्तित्वं निषेधयन्ति तैरेतद् विचारणीयं- मोक्षे ममाऽस्तित्वमेव समाप्तिमेष्यतीति जानतः पुंसः कथं मोक्षप्रवृत्तावुत्साहः स्यात् ? कथं वा स्वस्यैवोच्छेदोऽभीष्टः स्यात् ? दुःखवित्रस्तानामात्महानमपीष्टं भवतीति विभावने मुक्तिर्मूढाचीर्णात्मघातान्निविशेषैव कथं न स्यात् ? तथाच सा कथं विवेकिनां हेया न स्यात् ? तत्त्वतस्तु किं तादृशमुक्त्यपेक्षया संसार एव न वरः? यत्र तावदन्तराऽन्तराऽपि काचित् सुखमात्रा त्वनुभूयते; न पुनर्दुःखाद् वित्रस्य सुखसम्भावनाया अप्युच्छेद इति । अथ मुक्त्यर्थं प्रवृत्तिः कथं भवतीति चिन्त्यते । सर्वे जीवाः सुखाभिलाषिणः । कीटिकातः कुञ्जरं यावत् सर्वेऽपि सत्त्वा यत्किमपि कुर्वन्ति तत् सुखाभीप्सयैव । इष्टसाधनताज्ञानस्य प्रवर्तकत्वं यन्नैयायिकैनिष्टङ्कितं तेनाऽपीदमेव फलितं भवति यत सखेच्छैव जीवानां प्रचोदिका । इत्थं च सखार्थं प्रयत्नवत्त्वरूपेण धर्मेण यद्यपि सर्वे समानास्तथापि तात्त्विकदृष्ट्या सत्त्वाः समूहचतुष्के विभक्ता दृश्यन्ते । एकस्मिन् समूहे तेऽन्तर्भवन्ति ये शारीरिकसुखे तन्नाम विषयेष्वेव गृद्धा भवन्ति । हेयार्थार्थमुद्यमवन्तः स्थूलदृष्टय एतेऽधमा उच्यन्ते । द्वितीये ते समाविष्टा भवन्ति, ये 'अस्मिन् जन्मनि तु पूर्वजन्मविहितकर्मजन्यं सुखदुःखादिकं लब्धं, परममुत्र सुखार्थं मयेहलोके प्रवतितव्य'मिति विचिन्त्य दानादिषु व्यापृता भवन्ति । प्रेयार्थार्थमुद्यमिन एते विषयेष्वेव निबद्धदृष्टयोऽपि प्रायः परहानिं न कुर्वन्ति, प्रत्युत पुण्यलिप्सया किञ्चित्परोपकारमपि साधयन्तीति प्रथमसमूहगतसत्त्वापेक्षया मनागुच्चा इति विमध्यमा उच्यन्ते । तृतीये पुनः परार्थसम्पादने एव सुखं मन्यमानाः प्रविष्टाः । उपादेयार्थार्थमुद्यम कुर्वन्त एते यद्यपि महान्तः, तथाऽप्यमीषां दृष्टिभौतिकपरिधावेव सीमितेत्येते मध्यमाः परिगण्यन्ते । चतुर्थे पुनस्ते उत्तमजीवाः स्थानमाप्नुवन्ति, ये एवं विचिन्तयन्ति- विषयसुखं यावदुत्कृष्टं भवतु परं तदनित्यमेव भवति । तदुपभोगादिकालार्जितकर्मोदयवेलायां घोरदुःखानुभवेन विपाकविरसमेव वैषयिकसुखं भवति । किञ्च, तत् कर्मानुसारं लभ्यते इति परवशं, ततश्च परमार्थतो दुःखमेव । तदर्थं कतीनां चाटुकारिताद्यपि करणीयं भवति । किञ्च, कष्टेन विषयाः सम्प्राप्ताश्चेन्न पर्याप्तं, तत्संरक्षणेऽपि तावत्येव कष्टपरम्परा । अन्यच्च, ४७
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy