SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कान्तभुक्ताऽपि शय्यायां कान्ताऽभिनयपारगा। केन भुक्तेति जानाति केवलं स्वैरिणी धिया ॥३४॥ यथा प्लावनमाधत्ते वर्षौ नु नदीजलम् । एनसामपि सम्भारं तथा जातु विलोक्यते ॥३५॥ तनिम्ना स्वादुपयसा शीते भाति सरिद्यथा । प्रकृत्याऽकिञ्चनतया मनस्वी पुरुषस्तथा ॥३६॥ वृक्षाणां धरणी वन्द्या धनानां सागरस्तथा । नदीनां पर्वतो वन्द्यो वन्द्या तृणाञ्च जन्मदा ॥३०॥ अगृहस्य गृहं माताऽप्यपितुर्जननी पिता । अबन्धोर्जननी बन्धुरनाथानाञ्च साऽखिलम् ॥३८॥ सम्बन्धिनोऽखिला लोके मत्कुणा रक्तशोषिणः । तस्माद् विधेहि सम्बन्धं केवलं हरिणा सह ॥३९॥ समृद्धं यो न गृीतेऽप्यसमृद्धं न मुञ्चति । अकारणप्रणयिनं समाश्रयत तं हरिम् ॥४०॥ क्षीरं सोदरजं प्रेम प्रसूगोनिस्सृतं मृदु । प्रियारागाम्लतामिश्रं विकृतं हन्त जायते ॥४१॥ स्वर्गो गृहेऽथ पनी चेन्मनोवृत्तानुसारिणी। प्रतीपपथगा सैव गेहे सृजति रौरवम् ॥४२॥ संरोपितोऽपि माकन्दो नित्यसङ्कटसङ्कुलः । निर्भयं वर्धते हन्त स्वयंजातस्स्नुहीतरुः ॥४३॥ अधीत्य वाङ्मयं नित्यं मया हृदर्पणीकृतम् । ततोऽत्र जगतां रूपमयनं प्रतिबिम्बितम् ॥४४॥ न तयुगं न कवयस्ते न तादृशपाठकाः । अहमेव कलावस्मिन् कालिदासोऽथ भारविः ॥४५॥ जगत्प्रकाशके सूर्ये गगने संस्फुरत्यपि । सान्ध्यनीराजना देव्या दीपकेनैव जायते ॥४६॥ कवयः कवयस्त्वेव धनिनो धनिनस्तथा । नामशेषा भवन्त्यन्ये यशश्शेषाः कवीश्वराः ॥४७॥ १७
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy