SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ " न दीक्षयाम्यहं छात्रान् पाठशालाधिवासिनः” । प्रतिज्ञा पितृतोषार्थमासीत् काश्यां गुरोरियम् ॥ ४६ ॥ छात्रैः पवित्रचारित्र-प्रेप्सुभिरिति प्रार्थिताः । “चयं सम्प्रति मुक्ताः स्मः पाठशालाधिकारतः ॥४७॥ गुवो ! धर्मसूरीन्द्राः ! सद्धर्ममर्मवेदिनः ! । तस्माद् दीक्षयताऽस्मान् भोः पञ्च कल्याणकाङ्क्षिणः” ॥४८॥ युग्मम् ॥ श्रुत्वेति प्रार्थनां तेषां धीमद्भिः सङ्घसाक्षितः । औदार्यधैर्यगाम्भीर्यशालिभिर्धर्मसूरिभिः ॥४९॥ त्रिषड्नवसुधाधामसङ्ख्ये (१९६३) वैक्रमवत्सरे । द्वितीये मासि वैशाखे सुतिथौ पञ्चमी सति ॥ ५०॥ सवयस्का वयस्यास्ते प्राज्ञा विरक्तचेतसः । परः सहस्रलोकानां दीक्षिता विधिवत् पुरः ॥ ५१ ॥ त्रिभिर्विशेषकम् ॥ कलिकातास्थसङ्गेनोत्साहात् कृत्वा महोत्सवम् । अभूतदृष्टपूर्वं च दर्शितो भक्ति सम्भरः ॥५२॥ कृतं बेचरदासस्य नाम दीक्षाक्षणे शुभम् । विद्यादिविजयान्तं हि गुरुभिस्तत्त्वदर्शिभिः ॥ ५३ ॥ श्रीन्यायविजयः सिंह- महेन्द्र - गुणशब्दतः । विजयान्ताश्च चत्वारः शिष्या नाम्ना कृताः परे ॥ ५४ ॥ शाणोल्लीढं यथा रत्नं युद्धोत्तीर्णो यथा भटः । तथा विद्याविजेताऽयं दीक्षितो दिद्युतेतराम् ॥५५॥ चातुर्मासीं च तत्रैकां कृत्वा धृत्वा गुणानयम् । अजीमगञ्ज-मुर्शीदाबाद - चम्पापुरीः शुभाः ॥५६॥ पावापुरीं व्यचारीच्च गुरुभिर्नूतनो मुनिः । अनुभवं वरं कुर्वन् तन्वन् व्याख्यानपद्धतिम् ॥ ५७ ॥ युग्मम् ॥ श्रीविद्याविजयस्साधुक्रियाधर्मं जिनोदितम् । तत्त्वं च गुरुतोऽज्ञासीत् भजन् तच्चरणं सुधीः ॥५८॥ पाठशालाधिनाथश्रीवीरचन्द्रादिप्रार्थनात् । यदा हि धर्मसूरीशाः श्रीकाशीमाययुः पुनः ॥५९॥ तदा शिष्याः स्वकाः पूर्वं प्रेषिताः पञ्च सूरिभिः । तत्रैकोऽयं प्रियो दक्षः श्रीविद्याविजयोऽभवत् ॥६०॥ युग्मम् ॥ ३९
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy