________________
'किं वदामि महोदये !? न किञ्चिद् वक्तुं पारये'।
'किन्तु सुजित !' दुःखान्ममाऽक्षिभ्यामश्रूणि निर्गतान्येव, 'तव दृष्टिस्तु प्रत्यागताऽऽसीत्, पुनरिदं किं कृतम् ?'
'महोदये ! यदाऽहं भवत्याः पार्वे प्रत्यावृत्तदृष्टिकः समागतस्तदा मम कृते तु जगदिदं सर्वथा नूतनं सुन्दरं शुभं चाऽऽसीत् । सर्वत्र प्रफुल्लताऽऽह्लादश्चाऽनुभूयेते स्म मम । मम पुनर्जन्म जातमिव भासते स्म । बहवः स्वप्नाऽस्य नूतनजीवनस्य कृते दृष्टा आसन् मया, चिन्तितं चाऽऽसीद् यद् - इतः परं समधिकं परिश्रमं कृत्वा मे मातू रोगान् दूरीकरिष्यामि चिकित्सकद्वारा, भगिनीं च सम्यक् पाठयित्वा चिकित्सिकां करिष्यामि । ततश्च मे जीवनं परमावर्णनीयानन्दपूर्णं भविष्यति' - एवंविधान् स्वप्नान् पश्यन्नहं द्वितीयदिने एव कार्यशोधनार्थं निर्गतवान् । ये केचिदपि मां जानन्ति स्म ते सर्वेऽपि मया कार्यार्थं पृष्टाः, किन्तु पूर्वं तेषां मनसि या सहानुभूतिरासीत् सा दृष्टिप्राप्त्यनन्तरं विलीनीभूताऽऽसीत् । पूर्वं ये मां साहाय्यं कर्तुमुद्यता आसन् तेऽद्य मां प्रत्यभिज्ञातुमपि निषेधन्ति स्म । बहु परिश्रमं कर्तुकामोऽपि यद्यहं कार्यार्थमवसरमेव न लभेय तदा किवा कुर्याम् ? अतो मयाऽनन्यगतिकतया पुनरप्यन्धशालायां गत्वा कार्य याचितम् । तैस्तूक्तं'अत्र केवलमन्धानां कृते एव कार्यकरणावसरः कल्पितो भवति । भवांस्तु दृष्टिमान् । अन्यत्र कार्यं कर्तुं बहवोऽवसरास्तव प्राप्यन्त एव । अतोऽत्र नैवाऽऽगन्तव्यं त्वया' । तथा महोदये ! भवत्याः पार्वेऽप्यागन्तुं चिन्तितमासीन्मया। किन्तु 'पूर्वमेव भवत्या मे त्रिसहस्रं रुप्यकाणि प्रदत्तान्येव । अतः पुनरपि कार्ययाचनार्थं कथं भवत्याः समीप एवाऽऽगच्छेय'मिति चिन्तयित्वा नैवाऽत्राऽऽगतोऽहम् । एवं चाऽहं सर्वथा सर्वतश्च तिरस्कृतो हताशो जातोऽस्मि । अतोऽद्य मया चिन्तितं यद् – 'यदि परमन्धोऽहं पुनरपि भवेयं तदाऽन्धशालायां त्ववश्यं कार्यं लभेय' । ततश्च मयैते काचपटले (lens) नेत्राभ्यां निष्कासिते, पुनश्चाऽन्धो जातोऽस्मि । महोदये ! क्षन्तव्योऽहं भवत्या । किन्तु किं वा करवाण्यहम् ? अनन्यगतिकोऽस्मि । इदं काचपटलद्वयं भवती रक्षतु - अन्यस्य कस्यचन मत्तोऽधिकभाग्यशालिनोऽन्धस्य कदाचिदुपयोगाय भविष्यति' । स मम पुरतस्तदीयं लघुपटिकं कथञ्चिन्मुक्तवान् ।
अहं स्तब्धतया तदक्तं सर्वं शृण्वत्यस्मि । तदीयं दुःखपूर्णमेकैकं वचनं मम हृदयपटलं शर इव विध्यति । अश्रुक्लिन्नं तदीयं वदनं मम मस्तिष्के मुशलाघातमिव करोति । तं कथमिव सान्त्वयामि आश्वासये वेति न वेद्मि । तावता पुनस्तस्य स्वरः श्रुतः - 'अस्तु महोदये ! मया भवत्या अमूल्यः समयो मुधा गमितः । तदर्थं क्षम्यतां कृपया । अधुना साधयामि तावत्...... । किन्तु महोदये ! जगदिदं मया यथा सुन्दरं शुभं नूतनं च कल्पितमासीत् तथा नास्ति महोदये ! तथा नास्ति' ।
एवमुक्त्वा स स्वीयभगिन्या हस्तं गृहीत्वा दण्डेन 'ठक् ठक्' इति शब्दं कुर्वन् कार्यालयतो निर्गतवान् । अहं तत्पृष्ठतो निरीक्षमाणा शून्यदृष्टिकैव स्थिताऽस्मि स्तब्धान्तःकरणा । मम समाजसेविकात्वाभिमानोऽद्य पूर्णतया चूर्णीभूतोऽस्ति ........ ।
(जनकल्याणपत्रिकासौजन्येन)