SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ भगवदस्तित्वम् मुनिकल्याणकीर्तिविजयः महाविद्यालयस्य दर्शनविभागस्याऽध्यक्ष एष प्राध्यापको विविधदर्शनानि पाठयन्नपि सर्वथा नास्तिक आसीत् । भगवान् - इति शब्दोऽपि तन्मनसि जुगुप्सां प्रेरयति स्म । अतः प्रतिवर्षं यदा नूतनं सत्रं प्रारभ्यते स्म तदा स 'अस्मिञ्जगति भगवन्नामकं किञ्चिद् वस्तु सर्वथा नास्त्येवे'ति साधयितुं बहून् तर्कानुपस्थाप्य शतशो दृष्टान्तांश्च प्रस्तृय सर्वेषां विद्यार्थिनां मनांसि तथा परिवर्तयति स्म यत् प्रायः सर्वेऽपि विद्यार्थिनः सत्रान्ते भगवच्छ्रद्धारहिता भवन्ति स्म । ये केऽपि केचिच्छ्रद्धां धारयन्ति स्म तेऽपि तत्पुरतस्तां प्रकटयितुं समर्था न भवन्ति स्म । यतो यो कोऽपि तेन सह वादं कर्तुमुद्यतो भवेत् तं स क्षणमात्रेणैव तर्कवृष्टिं कृत्वा निरुत्तरीकरोति स्म । तथा, यदा सत्रान्तव्याख्यानं भवति स्म तदा स प्राध्यापको दर्शनशाखायाः सर्वानपि विद्यार्थिन एकत्र कत्वा प्रखरतर्ककर्कशया वाण्या भगवतोऽस्तित्वस्य खण्डनं करोति स्म । व्याख्यानान्ते चोदघोषयति स्म यद् - 'अधुनाऽपि यदि कस्यचिद् भगवतोऽस्तित्वस्य श्रद्धाऽवशिष्टा स्यात् तदा वदतु' । किन्तु न कोऽपि तत्पुरतो वदितुं शक्नोति स्म, यतः सर्वेऽपि जानन्ति स्म यदिदानीं स किं कुर्यादिति । स हि स्वदक्षिणहस्ते खटिकाखण्डं (Chalkpiece) गृहीत्वा सर्वान् दर्शयति स्म कथयति स्म च - 'भगवतोऽस्तित्वस्यैतावतीभिर्युक्तिभिरुदाहरणैश्च खण्डितत्वेऽपि यदि कश्चन भगवदस्तित्वं मन्येत तदा स न मूर्योऽपि तु महामूर्ख एव । अहं साधिक्षेपं वदामि यद् यदि भगवान् अत्र जगति स्यात् इह चोपस्थितः स्यात् सर्वशक्तिमान् सार्वभौमश्च स्यात् तदाऽमुं खटिकाखण्डं खण्डीभवनाद् रक्षेत् । स यदि न रक्षेत् तदा स नास्त्येवेति सिद्धम्' - एवमुक्त्वा स तं खटिकाखण्डं स्वहस्ताच्च्यावयति स्म भूमौ । तस्य च खण्डीभवनानन्तरं सर्वेषां पुरतो विजयिमुद्रायां स्मितं कृत्वा स व्याख्यानखण्डान्निर्गच्छति स्म । ८७
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy