________________
एवं प्रायो विंशतिर्वर्षाणि यावत् प्रवृत्तम् । अथाऽन्यदा कश्चनाऽतीव श्रद्धालुर्भगवति तदीयसर्वशक्तिमत्त्वे च दर्शनशाखायामध्येतुकामो महाविद्यालये प्रविष्टो विद्यार्थी । सत्रारम्भ एव प्राध्यापकेनाऽनेन प्रगल्भया तर्कचातुर्यपूर्णया च वाण्या भगवदस्तित्वखण्डनं समारब्धम् । अयं हि विद्यार्थी तं प्रत्युत्तरयितुं बहुशो विचारयति स्म प्रतिवादं च कर्तुमुत्सुको भवति स्म किन्तु तत्पुरत उपस्थातुमेव भयमनुभवति स्म भगवन्तं च प्रार्थयति स्म यद् - 'भगवन् ! एनं श्रद्धालूकर्तुं मे शक्तिं ददातु' । एवमेव च षट् मासा व्यतीताः । सत्रान्तदिनमुपस्थितम् । यथापूर्वमेव स प्राध्यापकः सत्रान्तव्याख्याने खटिकाखण्डं गृहीत्वोपस्थितः साधिक्षेपं च कथितवान् यद् – 'अधुनाऽपि यदि कश्चन भगवन्तं मन्येत तदा स उत्थितो भवेत्' । श्रुत्वैतत् कथमपि मनसि धैर्यं प्रपूर्याऽयं विद्यार्थी समुत्थितः ।
तं दृष्ट्वैव कोपविस्मयाकुलः स प्राध्यापकोऽत्युच्चैर्गजितवान् – 'रे मूर्ख ! षट्मासान् यावत् राटं राटं मम गलः शुष्को जातस्तथाऽपि त्वं बोधं न प्राप्तः ? पश्येमं खटिकाखण्डं, यदि तव भगवान् स्यादत्र च विद्यमानः स्यात् तदाऽमुं खटिकाखण्डं खण्डीभवनाद्रक्षेत् ? - इत्युक्त्वा स खटिकां पातयितुमुद्यतो जातः । तावताऽनेन विद्यार्थिनोक्तं - 'महोदय ! भगवान् ह्यवश्यमस्ति, अत्र च विद्यमानोऽप्यस्ति । स यधुचितं मन्येत तदाऽमुं खटिकाखण्डं रक्षेदपि' ।
'एवं वा? तहि स तव भगवानपि पश्यतु, त्वमपि पश्यतु, एते सर्वेऽपि पश्यन्तु नामे'ति वदन् प्राध्यापकः खटिकाखण्डं पातितवान् । किन्तु खटिकाखण्डो व्यक्तं भूमौ पतनं न प्राप्य तद्युतकभुजप्रान्तेन घट्टितः सन्नूरुकेऽपसरन् तस्य पादरक्षोपरि पतितः, ततश्च शनैरपसरन् भूमौ तथा पतितो यथा तस्य खटिकाखण्डस्यैकः कणोऽपि न विभक्तो जातः । विंशतौ वर्षेष्वैदम्प्राथम्येन केनचित् तेन सह प्रतिवादः कृत आसीत्, तत्क्षणमेव च तत्प्रमाणमपि प्राप्तम् । एतद् दृष्ट्वा प्राध्यापको विद्यार्थी सर्वोऽपि च वर्गः स्तब्धा जाताः । क्षणद्वयं तु नीरवशान्तिः प्रसृता । ततः सर्वेऽपि भानं प्राप्ता इव करतालैस्तं विद्यार्थिनमभिनन्दितवन्तः । स विद्यार्थी सहस्ताञ्जलिः साश्रुनयनश्च गगनं वीक्षितवान् । प्राध्यापकश्च नतमस्तकः सन् वर्गाद् बहिर्गतवान् ।
__(डॉ. आइ.के.वीजळीवाला - लिखित'अमृतनो ओडकार' इति पुस्तकात् साभारम् ।)
ममाऽहमिति चैष यावदभिमानदाहज्वरः कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यशःसुखपिपासितैरयमसावनर्थोत्तरैः परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ।।