SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ हृष्टः । किन्तु त्रिसहस्ररूप्यकाणि कुत आनेतव्यानीति विचार्याऽहं सर्वथा हताशो जातः । तावता तत्रत्यैः कार्यकर्तृभिर्भवत्या नाम सूचयित्वा कथितं यद् – “हताशो मा भूः । एषा महोदयाऽग्रगण्या समाजसेविका। त्वं तस्याः साहाय्यं याचस्व । सा तव कार्यमवश्यं साधयिष्यति" । तच्छ्रुत्वा पुनरपि मम मनस्याशाकिरणाः प्रादुर्भूताः “यदि महोदयैषा साहाय्यं कुर्यात् तदाऽवश्यमहं द्रष्टुं पारयिष्ये । ततश्चाऽधिकं कार्यं कर्तुं शक्ष्ये । ततश्चाऽधिकं वेतनं समुपार्जयिष्ये, फलतश्च सर्वं सुस्थं भविष्यती"ति । किन्तु तत्सर्वमपि भवत्यधीनम् । महोदये ! भवत्याः पार्वे एतदर्थमेवाऽऽगतोऽस्मि । यदि भवती साहाय्यं कुर्यात् कारयेद् वा तदा मे मनोरथवृक्षोऽवश्यं पुष्पितो भविता' । सुजितस्य मुखान्निर्गतानि वचनान्येतानि ह्यत्यन्तं भावुकान्यासन् । तैर्मम हृदये विचित्राणि संवेदनानि जागरितानि । अपि च, मम समाजसेविकात्वस्य गौरवमभिमानश्चाऽप्येतेन वर्धेते- इत्येतदपि चित्ते सुखस्पन्दनानि प्रादुर्भावयति स्म । मयोक्तं - 'भवतु, अहं भवत्कृते प्रयत्नान् करिष्यामि । बहुत्र बहुजनानां च कृते मया कार्याणि कर्तव्यानि । किन्तु भवतः परिस्थितिः काचिदन्यैव । भवान् चिन्तां मा करोतु । अहमवश्यं सप्ताहाभ्यन्तर एव भवन्तमाकार्याऽपेक्षितं धनं दास्यामि' । तन्निशम्य तस्य मुखं विकसितपाटलपुष्पमिव प्रफुल्लितं जातम् । सोऽत्यन्तं भावुकतया मम हस्तं कथमपि गृहीत्वा कथितवान् यद् - 'यद्येवं भविष्यति तदा महोदये ! अहं भवदुपकारं यावज्जीवं न विस्मरिष्यामि' । मयोक्तं - 'भवतु, भवतु, अहं भवन्तमाकारयिष्ये, भवान् प्रतीक्षतु' । स तु गतः । मयाऽपि कथमपीतस्ततोऽटित्वा तदपेक्षितं धनं सञ्चितं तमाकार्य च दत्तम् । स तु मम पादयोरेव पतित आसीत् । हर्षाश्रुक्लिन्नं तत् तदीयं वदनमद्याऽपि न विस्मरामि । ततः स वैदेशिकचिकित्सक पार्वे गत्वा स्वोचिते काचपटले नेत्रपटलयोरग्रभागे योजितवान् । अहो ! आश्चर्यं नाम तस्य दर्शनशक्तिः प्रत्यावृत्ता । स तावान् प्रसन्नो हृष्टश्च जात आसीद् यावान् स्वजीवने न कदाऽपि जातः । एवमेव स्वप्रमोदं प्रकटयन् स मत्पाद्वेऽप्यागतो मां च दृष्ट्वा कथितवांश्चाऽऽसीद् - 'महोदये ! पश्यतु, भवत्याः कृपयाऽद्याऽहं सर्वमपि जगत् पश्यामि । भवत्या आकृतिश्चाऽपि मया यथा कल्पिताऽऽसीत् तथाऽथवा ततोऽप्यधिकं सुन्दराऽस्ति । महोदये ! भवदुपकारमहमाजन्म स्मरिष्यामि' - इत्युक्त्वा स मम पादयोः पतित आसीत् । तदनु स गतवान् । अहमपि तदीयं मुग्धत्वं स्मरन्ती स्वीयकार्यव्यग्राऽभवम् । कतिचिद्दिनानन्तरमहं तं विस्मृतवत्यपि । ततोऽद्याऽष्टौ मासा व्यतीताः । स किमर्थमागच्छति- इत्यूहितुं न पारितवत्यहम् । एवं च विचारव्याकुलाऽहमासम् । तावता तस्य स्वरः श्रुतः । स स्वरोऽद्यौदास्यमिश्रित आसीदित्यनुभूतं मया । 'महोदये ! किमहमागच्छेयम्' । 'आगच्छतु भोः !'। तस्याऽऽगतवतः सत एव दण्डस्य स्वरं श्रुत्वाऽहमाघातं प्राप्तवती । तावता स दण्डहस्तः सोपनेत्रश्च स्वीयभगिन्या सह दृष्टः । अहं सहसा चीत्कृत्वत्येव - 'सुजित ! सुजित ! किमिदं त्वया कृतम् ?' तेनोक्तं
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy