SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ जगत: सौन्दर्यम् मुनिकल्याणकीर्तिविजयः दूरवाणी ध्वनिता । मया ग्राहकमुत्थाप्य पृष्टं - 'को भवान् ?' 'अहं सुजित-मोहितेऽस्मि महोदये !' स्वरस्तु परिचित आसीत् तथाऽपि न प्रत्यभिज्ञातः । अतो मया पृष्टं 'कः सुजित-मोहिते?' 'न प्रत्यभिज्ञातो वा ? स्मरतु भवती, अहं मासाष्टकपूर्वं भवत्याः पार्वे आगतवानासीत्, नेत्रचिकित्सायै साहाय्ययाचनार्थम्' । 'आम् आम् स्मरामि । किन्तु भवानद्य किमर्थमाजिगमिषति ? मत्पाद्येऽद्याऽवकाशो नास्ति, बहूनि कार्याणि कर्तव्यानि । तथा भवतो नेत्रचिकित्सा तु सम्पन्ना एव' । 'तत् सत्यं महोदये ! । तथाऽपि कृपया पञ्चनिमेषान् ददातु । ततोऽहमवश्यं गमिष्यामि । कृपया मा निषेधतु माम्'। किञ्चिदिवाऽनिच्छन्त्या मया स आगन्तुमनुमतः । दूरवाणी 'कट्' इति स्थगिता । तथाऽपि ग्राहकं हस्ते एव धारयन्त्यहं कदा विचारधारायां प्रवहितेति तु न ज्ञातम् । अष्टभ्यो मासेभ्यः पूर्वं मम कार्यालये एको युवा कनीयस्या स्वीयभगिन्या सह आगतः । सोऽन्ध आसीदिति तु तस्य स-नीलोपनेत्रत्वात् दण्डहस्तत्वाच्च ज्ञातं मया । अहमस्मि समाजसेविकात्वेन विश्रुतेति तेन ज्ञात्वा मया पार्श्वे आगतम् । सोऽतीव मधुरभाषी मुखरश्चाऽऽसीत् । आगच्छतः सत एव तस्य वाग्धाराऽऽरब्धा । 'महोदये ! अहमस्मि सुजित-मोहिते । इयमस्ति मे लघुभगिनी, मम पिता तु नास्ति । माताऽस्ति किन्तु वृद्धा रुग्णा च । तस्यै कृते औषधार्थं अस्यै कृते च शिक्षणव्ययार्थं नास्ति मत्पाबें धनम् । किन्तु महोदये ! अन्यथा मा चिन्तयतु । अहं तदर्थं धनं याचितुं नाऽऽगतोऽत्र । ममाऽन्धशालायां कार्यं कुर्वतो वेतनं प्राप्यत एव । तच्च सार्धषट्शतरूप्यकमितं प्राप्यते । किन्तु महोदये ! तदपर्याप्तं भवति । यदि मात्रर्थमौषधमानयामि भगिन्याः शिक्षणव्ययं च करोमि तदा मासार्धं किं खादितव्यमिति ....... । क्षम्यतां महोदये ! भवत्याः समयोऽमूल्यः । मम वृत्तश्रवणेन च न कोऽपि लाभः । किन्तु भवत्याः साहाय्यमपेक्षितं ममाऽतोऽत्राऽऽगतोऽस्मि'। तद्वृत्तश्रवणेन ममाऽपि हृदयमार्दीभूतमासीत् । अतो मयोक्तं - 'किं साहाय्यमपेक्षितं भोः !?' । 'महोदये ! परह्योऽस्माकमन्धशालायां वैदेशिकः कश्चिच्चिकित्सक आगत आसीत् । तेनाऽहं परीक्ष्योक्तः - "भोः ! त्वन्नेत्रे द्रष्टुं क्षमे एव । केवलं त्वया त्रिसहस्ररूप्यकाणां व्ययो कर्तव्यः । तेन चेमे काचपटले (lens) क्रीत्वा नेत्रपटलाग्रभागे यदि स्थाप्येते तदाऽवश्यं तव दृष्टिः प्रत्यावर्तेत" । क्षणं यावत्त्वहमतिशयं ८४
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy