SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मित्रपिताऽपि तदर्थमधिकमाग्रहं न कृतवान् । ततः सर्वेऽपि यथास्थानं गताः । गृहं प्रति गच्छता च मित्रपित्रोक्तं - 'परश्वो भवान् मां रेल्-स्थानके मिलतु, मम किञ्चित् कार्यमस्ति' । अस्त्विति कथयित्वाऽहमपि गतः । ततो नियते कालेऽहं तं मीलितुं गतवान् । स तत्र द्वारि एव तिष्ठन्नासीत् । तत आवां समीपस्थे उपाहारगृहे प्राप्तौ । तत्र चायपानादि कृत्वा तेनोक्तं 'शृणोतु अहमिदानी वाणिज्यार्थं बहिर्गन्ता । किन्तु भवता ममैकं कार्यं कर्तव्यम् । इदमस्ति प्रायो नवतिग्राममितं (अष्टौ तोलकाः) सुवर्णम् । भवतेदं कन्यायाः पित्रे रहसि दातव्यं । कथयितव्यं च "अस्य सुवर्णस्याऽऽभूषणानि कारयित्वा कन्यायै दातव्यानि । वातॆषा च न कस्मै अपि ज्ञापनीये"ति । अन्यत् सर्वमहं तं बोधयिष्यामि' । एतच्छ्रुत्वाऽतीव विस्मितोऽहं तं प्रश्नार्थदृष्ट्या वीक्षितवान् । तद् दृष्ट्वा तेनोक्तं - 'भोः ! शृणोतु, मम ज्येष्ठपुत्रस्य यदा विवाहो जातस्तदा तस्य श्वशुरेण स्वीयपुत्र्यै दशतोलकमितं सुवर्णं दत्तमासीत् । अधुना यदीयं कन्या द्वितोलकमितं सुवर्णमानयेत् तदा तदीया श्वश्रूः (मे पत्नी) यदा कदाऽपि तां यत्किञ्चित् श्रावयेदेव, ज्येष्ठवध्वा चाऽस्यास्तुलनामपि कुर्यात् । यतः स्त्रीस्वभावोऽयम् । परिणामतश्च मम गृहस्य सुखं शान्तिश्च विनश्येदेव । नाऽहं तत्कर्तुमिच्छामि । मम त्वेकैवेच्छा यच्छ्वश्र्वा हृदये द्वयोरपि वध्वोस्तुल्यमेव स्थानं मानं च स्यात् – इत्येतदर्थमेव ममाऽयमारम्भः । अपरं च, वाणिज्यार्थमस्मत्समीपे सुवर्णं भवेदेव । गृहसदस्याश्चैतन्नैव जानन्ति । अतो भवान् मदुक्तं करोतु । अन्यत् सर्वमहं करिष्यामि । इत्युक्त्वा सुवर्णं च दत्त्वा स गतवान् । यदाऽहं कन्यायाः पितरं मीलित्वा तस्मै सुवर्णं दत्तवान्यथार्थं च कथितवान् तदा तस्य नयनाभ्यामपि हर्षाश्रुधारा प्रावहत् । स सर्वमपि यथोचितं कृतवान् । अद्य द्वयोरपि परिवारयोः सुखं शान्तिश्च निराबाधे प्रवर्तेते । (सत्यघटना) (अखण्डानन्दपत्रिकासौजन्येन) द्वेषस्याऽऽयतनं धृतेरपचयः क्षान्तः प्रतीपो विधिव्याक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः । प्राज्ञस्याऽपि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy