________________
-
अतो वयं किञ्चित् खिन्ना इव ततोऽग्रे प्रस्थिताः । मार्गे गच्छतां च गुरुभिः पृष्टं - 'तर्ह्यद्य कुत्र निवत्स्यामः ?' मया विचिन्त्योक्तं – ‘तैर्ग्रामजनैरुक्तमासीद् यदग्रे होटल - विशाला विद्यते, तत्र च सर्वा व्यवस्था भवति । अतो वयमग्रे गत्वा निरीक्षामहे तावत् । यदि व्यवस्था स्यात् तदा वरम् । अन्यथा किञ्चिदधिकं चलिष्यामः' । गुरुभिः कथितं - 'भवतु । यूयमग्रे गत्वा पश्यन्तु । यद्युचितं स्यात् तदैव वसितव्यमन्यथा न' ।
ततो वयं द्वित्राः साधवोऽग्रे निर्गता: होरायां च तदुपाहारगृहं प्राप्ताः । यावद् वयमितस्ततः पश्येम तावत् तु तत्सञ्चालको धावन्निव तत्राऽऽगतो नमस्कारादि कृत्वा चाऽस्माकं स्वागतं कृतवान् । ततस्तेनैव नम्रतया कथितं – ‘यदि भवन्तोऽद्याऽत्र स्थातुमिच्छुकास्तदा सर्वाऽपि व्यवस्था विद्यत एव' । अस्माभिरुक्तं - 'किन्तु नः आचारानुकूलं....' तावता मध्ये एव तेनोक्तं- 'तस्य चिन्ता मास्तु । वयं जैनसाधूनामाचारं जानीमहे । तदनुसारं भवत्कृते उष्णं जलं प्रगुणीकर्तुं मया निर्दिष्टमेव कर्मचारिणे । तथा भोजनव्यवस्थाऽपि भवत्कृते स्वच्छभाजनेषु जैनरीत्या भविष्यति । अतो निश्चिन्तीभूयाऽद्याऽत्र निवसन्तु भवन्तः' ।
एतावता गुरुभगवन्तोऽपि समागता आसन् । तैः सह विमर्शं कृत्वा वयं तस्मै सञ्चालकाय तत्र निवासार्थमनुमतवन्त: । एतन्निशम्याऽतीव हृष्टः सोऽस्माकं कृते आसन्दानानाय्य तत्रोपवेष्टुमस्मान् विज्ञप्तवान् । ततः कर्मकरद्वारापवरकमेकं सम्मार्ज्य स्वच्छीकृत्य च तत्र निवासाय नो नीतवान् । एवं च तेनाऽऽदिनमस्माकं व्यवस्थाऽतीव सुष्ठु कृता ।
सायङ्काले तु ततो निर्गन्तव्यमासीत् । एतज्ज्ञात्वा स स्वीयभ्रात्रा सहाऽऽशीर्ग्रहीतुमागतो गुरुभगवतां पार्श्वे । तदा वार्तालापे जातेऽस्माभिर्ज्ञातं यदस्योपाहारगृहस्य स्वामिनावेतावेव । तौ च मोलेसलामज्ञातिकौ मुस्लिमधर्ममतीयौ इत्यपि ताभ्यामुक्तं कथितं चाऽऽश्चर्यचकितानस्मान् यदिदमुपाहारगृहं सर्वथा शाकाहारयुतम् । अतो भवतां नास्ति चिन्ताकारणम् ।
ततो गुरुभिः पृष्टं – ‘किन्तु मुस्लिम् - मतीयौ भवन्तौ कथमस्मादृशः साधून् परिचरेताम् ? अस्माकमाचारादि च भवद्भ्यां कथं ज्ञातम् ? ' तदा ताभ्यामुक्तं यद् - 'गुरवः ! अस्माकं सम्प्रदायस्य प्रधानगुरुभिरस्माकमादिष्टमस्ति यद् " भवतां स्थाने यस्य कस्याऽपि सम्प्रदायस्य साधुजना आगच्छेयुर्भवद्भिस्तेषां सर्वाऽपि परिचर्या पूर्णभक्त्या करणीया, तत्र च न कोऽपि सङ्कोचः कार्यः " । वयं हि तमादेशं सदाऽप्यनुसरामः । तथा नः स्थानेऽत्र बहुशो जैनसाधव आगच्छन्ति । अतो वयं सर्वमपि भवतामाचारादि जानीमहे एव । अपि च, नेदमस्माकमेकमेव स्थानं किन्तु समग्रेऽपि भारते एतादृशि चतुर्विंशतिः शतं स्थानानि यान्येवमेवाऽऽतिथ्यभावनापूर्णानि । अस्माभिः सर्वैरपि प्रतिवर्षमेकवारं वा नः प्रधानगुरूणां समीपे गत्वा सर्वमपि सुकृतनिवेदनं कर्तव्यं, वार्षिकमनुदानं चाऽऽयानुरूपं दातव्यमेव' ।
एतत्सर्वं निशम्य नश्चित्तमानन्दितं नयने चाऽऽर्द्रे जाते, चिन्तितं चाऽस्माभिर्यत् क्व स जन्मना जैनस्य व्यवहारः ? क्व चाऽयं व्यवहारः ?
६९