________________
"मम हृदय-स्पर्शिनी घटना"
मुनिविश्रुतयशविजयो गणी
गूर्जरदेशस्य नडियादनगरस्यैषा घटना । तत्रैकविंशतिवर्षप्रायश्चिन्तननामा एको युवा सन्तराममन्दिरमार्ग दर्शयितुं मम सार्धं चलितवान् । यावच्च मन्दिरस्य सभामण्डपस्थानं प्राप्तौ ततः पूर्वमेव चिन्तनेन प्रोक्तं यद् ममाऽऽपणः चतुश्चक्रिकायां (लारी इति) सन्तराममन्दिरस्य बहिर्भागे वर्तते, यस्मिन् वस्त्राणि शाटिकादि च विक्रीणामि । तत्राऽऽगत्य भवान् पदार्पणं करोतु येनाऽहं भाग्यशाली भवेयम् । अतस्तस्याऽऽग्रहवशात् तत्र मया गतम् । तस्य पिताऽपि तत्र मिलितः । सोऽप्यतिहृष्टः।
चिन्तनेन तस्य पित्रा चाऽऽशीर्याचिता । ताभ्यां काऽप्यर्थेच्छा प्रार्थना वा न दर्शिता कथिता वा । प्रत्युत चिन्तेन कथितं यद-मत्तो व्याघटय कोऽपि ग्राहको मम प्रतिवेश्मिकस्य चतुश्चक्रिकातो वस्तुनि क्रीणीयात् तदा मे मनसि द्वेष इर्ष्या च माऽऽयातु-इत्याशीर्वादं भवतो मार्गयामि । एतच्छ्रुत्वा मम चक्षुषी बाष्पार्दै जाते ।
स सार्धवर्षाद् ग्रीष्मकालेऽप्युपानही न परिदधाति । सूर्यास्तानन्तरमाहारादिकं न करोति । प्रतिदिनं देवपूजां करोत्येव, तथा स्वलघुभ्रातरं पाठयितुं स्वपठनं गौणं कृतवान् । इतोऽप्यधिकं त्वेतद् यद् स प्रतिदिनं विक्रयेण यावद् धनं प्राप्यते तस्यैकं प्रतिशतं (१%) मन्दिरं गत्वा देवाय समर्पितं करोति । एषा घटना इदानीमेव सञ्जाता । नूनं जना अद्याऽपि पुण्यवन्तः सुकृतिनश्च लभ्यन्त एव ।
७०