________________
प्रेममयी माता
मुनितीर्थबोधिविजयः
"अम्बा अहं तत्खादेयं किं?" अमदावादनगरीया साऽऽपणपङ्क्तिरद्याऽपि मत्स्मृतिमधिगच्छति । पाल्यामुपविष्टौ मातापुत्रौ, जनन्यङ्के निहितशिरस्कोऽहं बालः पञ्चवर्षीयः, सम्मुखं दृश्यमानं हिमगोलकापणं, मादृशा नैके बाला यतः खादन्ति सहर्ष गोलकं, ततो "मयाऽपि खादनीयं" तदित्युक्तं यदा मया, तदा जननी मेऽनन्ताकाशे निहितदृष्टिका नितान्तं विचारगह्वरे निपतिता जीवनस्य परिवर्तान् दुःखनिपातांश्च संपश्यमानेव निर्निमेषं स्थिताऽऽसीत् । तया मद्वाक्यं नैव श्रुतमासीत् । मया तां कम्पयतोक्तं - "मातरम्ब !" सेहलोकं प्रविष्टवती सचमत्कृति, "अहं तत्खादेयं किं?" मयाऽऽपणसम्मुखं करमुत्तम्भ्योक्तम् ।
मातुर्दृष्टिस्तत्र पतिता । मनाङ् निःश्वसितं तया । पश्चादतीव मृदुभूयोक्तवती- "वत्सैनत्ते कथं दापयामि? कथं वा क्रीणाम्येतद्, न मे पार्वे काऽपि सुविधा।" इत्युक्तवत्यास्तस्याः कण्ठोऽवरुद्धः, परं झटिति स्वस्थीभूताऽसौ । मया सुष्ठ नाऽवगतं पुनश्च प्रलपितं - "परं मया खादनीयमेवाऽस्त्येतत् ।"
तया मत्सम्मुखं दृष्ट्वा मद्वदनं तद्धस्तयोर्गृहीत्वोक्तं - "कल्ये क्रीत्वा दास्यामि ते । अद्य स्वपिहि। आगच्छ मत्क्रोडे" । तया मां क्रोडे शाययितुं प्रयतितं यावता तावताऽहं बलादुत्थित एव जातः । "मयाऽद्यैव खादनीयमास्ते । त्वं कथमपि दापय । अन्यथा त्वया सह नैव वदिष्यामि कदाऽपि" । बालहठो व्यलसत् ।
"परं दारक! त्वं तु जानास्यस्माकं गृहस्थितिम् । सुज्ञोऽसि रे ! किमर्थमेवं हठं करोषि?"
७१