________________
"त्वत्पावें तावन्त्यपि रूप्यकाणि न सन्ति किं ?" मया सामर्षमुक्तं तदा तया हस्तस्थानि सर्वाणि रूप्यकाणि मत्पुरतः प्रकटितानि "पश्यैतावन्त्येव सन्त्येतानि । अथाऽऽनयनीयमास्ते गोधूमपिष्टकं, तैलं च, नाऽवशेक्ष्यते किञ्चन, तत्त्वदर्थं कथं क्रीणामि गोलकं भोः !" तया मां पृष्टं, तदुत्तररूपेण ।
"न, कथमप्यद्य तु खादनीयमेव मया । अहं ग्रहिष्याम्येव, अदिष्याम्येव, किमपि कुर्वम्ब ! मया गोलकोऽत्तव्यः" । इत्युक्त्वोच्चै रोदनं प्रारब्धवानहम् । लघुरासं, परिसरस्य भानं नाऽऽसीन्मे । गमनागमनं कुर्वतां जनानां मनोगतनिरीक्षणेऽसमर्थ आसं, यद्वा तदाऽऽवश्यकतैव नाऽऽसीद्यतः पार्श्वे माता स्थिताऽऽसीत् ।
"वत्स ! मैवं रोदीः । आगच्छ... पश्य त्वां..." इत्युक्त्वा मम ग्रहणायाऽऽगतवती यावता, तावता कोपाकुलीभूतोऽहमग्रेऽधावम् । तदा "वत्स ! मैवं कुरु । किमहं कुर्वे ? त्वदिच्छां पूरयितुं मम भाग्यं नाऽऽस्ते वत्स । अतो मा धाव, आगच्छाऽत्र ।" इति तस्याः पूत्कृतिर्मम मानचूरणेऽसमर्था जाता ।
__ तदाऽन्ततो गत्वा सोपविष्टा पुनरपि पालिकायाम् । स्वदुर्भाग्यस्य, स्वासहायकतायाः, पुत्रेच्छाऽपूर्तेश्च युगपन्नके शरा विद्धवन्तस्तद्धृदयं वेदनासागरो हृदय उच्छलन्सामग्रयेण युगपद् बहिरागच्छत् । हस्तौ वदने संस्थाप्य सा रोदितुं प्रवृत्ता साक्षात्, किं वा कुर्यात् सा वराकी ! कीदृक्कष्टं हृदयं चूर्णीकुर्वदनुभवमाना स्यात्सेति तु जानाति जनन्यन्तरङ्गं वा । पुत्रकाङ्क्षापूर्तावजायमानायां याऽसहायकताऽनुभूयते जगन्मातृभिः सा वेदना... सा करुणाऽपि जगति महाजनानां पूज्यतमा भवति । तया करुणयैव माताऽपि पूजनीयतमाऽस्ति।
अथ परिवर्त्य मया दृष्टं यदा, रुदत्युपलब्धा माता, तदा मया यदुःखं संवेदितं, तदद्याऽपि स्मृतिमधिरोहति यदा तदा गलकोऽवरुध्यते, अक्ष्णोस्तोयधारा निर्गच्छति च । धावन्नेव गतस्तत्र, यत्र मम प्रेममयी स्नेहला माता स्थिताऽऽसीत् । तद्धस्तौ कोमललघुहस्ताभ्यां स्पृष्ट्वा दूर्यकरवम् -
"अम्ब ! त्वं रोदिषि?" इत्युक्तं मया । तेन सहैव तयोन्नीय वक्षसि गाढतरमाश्लिष्टोऽहम् । तस्या रोदनं तीव्रतरं मुक्तकण्ठं चैव सञ्जातम् ।
"मातः ! मा रोदीः, अद्यप्रभृति हठं नैव करिष्यामि, कदापि त्वां दुःखिनीं न करिष्यामि, अहं तव पुत्रोऽस्मि, त्वं च मे माता, नाऽन्यत्किमपि काक्षेऽथ ।" न जाने इत्यादि किं किमपि उदितवानहं । मातापुत्रावावां विस्मृतवन्तौ यदेतदस्माकं मिलनं दृष्ट्वा मार्गजना अपि क्षणं विरम्याऽक्ष्णोर्नीरतोरणकानि बद्ध्वा बद्ध्वा गच्छन्ति ।
क्षणानन्तरं "चिन्तां मा कुरु बाल ! त्वामवश्यं दापयिष्यामि, त्वामवश्यं खादयिष्यामि, कोपं मा कुरु भोः ! दुःखी मा भव लाल !" इत्यादि किं किमपि गदत्यासीन्मे माता.... सर्वाङ्गं स्नेहेनाऽभिषेकं
कुर्वती।