SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ यदा ह्ययं नन्दनवनकल्पतरुरैदम्प्राथम्येन प्रकाशयितुमारब्धोऽस्माभिस्तदा वयं प्रथमतया चलितुकामो बाल इव संस्कृतपत्रिकालेखन-प्रकाशनादिषु सर्वथाऽनभिज्ञा अनुभवरहिताश्चाऽऽस्म। किन्तु बालस्य मातेव नः पूज्यगुरुभगवन्तः सन्ततमूष्मपूर्णपथप्रदर्शनेन साक्षाच्च नव-नवसाहित्यसृष्ट्याऽस्मान् संस्कृतभाषापथे चलनार्थं व्यापारितवन्तः स्खलनानि शोधं शोधं च रक्षितवन्तः पतनात् । अनेनैव सह, अदूष्यवैदुष्यधारिण: काव्य-कथा-नाट्यादिसाहित्यप्रकारेषु पारगामिणः समस्तभारतवर्षे विश्रुतकीर्तयो बहवो मूर्धन्या विद्वांसो निःस्पृहतया केवलं भाषाप्रीत्या साहित्यप्रीत्या चाऽस्माकं साहाय्यार्थं नन्दनवनकल्पतरोश्च समृद्धीकरणार्थमग्रे समागताः । एतैर्हि सन्ततं विविधाः साहित्यरचनाः सम्प्रेष्याऽस्माकमुत्साह उल्लासश्च वधितोऽस्ति । अतोऽस्मिन्नवसरे तेषां कार्तश्यपुरस्सरं स्मरणमत्र कुर्महे । ते च सन्ति - डॉ. श्रीअभिराजराजेन्द्रमिश्रमहोदयः, डॉ. श्रीरामकिशोरमिश्रमहोदयः, श्रीदेवर्षिकलानाथशास्त्रिमहोदयः, डॉ. श्रीरूपनारायणपाण्डेयमहोदयः, श्रीएस्.जगन्नाथमहोदयः, अरैयर् श्रीरामशर्ममहोदयः, डॉ. एच्. वि. नागराजराव् महोदयः, श्रीसुरेन्द्रमोहनमिश्रमहोदयः, श्रीजगन्नाथपाठकमहोदयः, श्रीमदनलालवर्ममहोदयः, डॉ. श्रीवासुदेवपाठकमहोदयः, श्रीमहाबलेश्वरशास्त्रिमहोदय- इत्यादय औत्तराहा दाक्षिणात्याश्च विद्वांसः । एतानतिरिच्य सम्भाषणसन्देशः, भारती, कथासरित्-इत्यादिसंस्कृतपत्रिकाणां सम्पादकैरपि डॉ. श्रीविश्वासमहोदयः, डॉ. श्रीजनार्दनहेगडेमहोदयः, श्रीदेवर्षिकलानाथशास्त्रिमहोदयः, डॉ. श्रीनारायणदाशमहोदयः- इत्यादिभिर्यथाकालं स्वस्वपत्रिकासु नन्दनवनकल्पतरोः समीक्षादि प्रकाश्याऽस्माकं प्रेरणा मार्गदर्शनं च प्रदत्तमस्ति, तदर्थं वयं कृतज्ञाः स्मः । तथैव बहुभिः पूज्यसाधुभगवद्भिः - आचार्यवर्यश्रीविजयहेमचन्द्रसूरिवर-उपाध्यायश्रीभुवनचन्द्रजित्-मुनिश्रीधुरन्धरविजयमहाराजादिभिः स्वीयोत्कृष्टरचनाः सम्प्रेष्य यथाकालं मार्गदर्शनं च दत्त्वा न उत्साहो वधितोऽस्ति, तदर्थं वयं तेषामृणिनः स्मः । तथैव सर्वेषामपि वाचकानामपि वयमाभारं मन्यामहे । अथ चैतान् सर्वान् पूज्यमुनिभगवतो विद्वांसश्च विज्ञपयामोऽद्य यदेवमेव सर्वदा साहित्यप्रेषणेन मार्गदर्शनोत्साहवर्धनेन च नन्दनवनकल्पतरुं समृद्धीकुर्युरिति । कीर्तित्रयी भाद्रपदपूर्णिमा, २०६६ अहमदाबादनगरम् ॥
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy