________________
ऋणमुक्ति:
मुनिकल्याणकीर्तिविजयः
बेङ्गलूरुनगरे चातुर्मास्यार्थं स्थिता वयं नव्यन्यायं दर्शनानि च पठितुकामा आस्मः, अतोऽदूष्यवैदुष्यधारिणं प्राच्य - नव्यन्याय - सर्वदर्शनशास्त्रपारगामिणं समस्त भारते विश्रुतयशसं विद्वन्मतल्लजं श्रीमन्तं हरिदासभट्ट महोदयं श्रीमन्तं चाऽरैयर् रामशर्ममहोदयं नः पाठनार्थं विज्ञप्तवन्त: । बहुषु विद्याकार्येषु व्यापृताभ्यामपि ताभ्यामस्माकं विज्ञप्तिः स्वीकृता, पाठिताश्च वयमत्यन्तं स्नेहेन पञ्चषान् मासान् ।
अथ च गूर्जरदेशे एषा सर्वमान्या परिपाटी यत् साधु-साध्वीभ्यः पाठयितारो जैना अजैना वा पण्डिता मासान्ते वा पूर्वनिश्चितं धनं स्वीकुर्वन्ति । श्रावकाश्च तदर्थं सर्वामपि व्यवस्थां कुर्वन्ति । अतोऽत्राऽपि वयं तदेव चिन्तयन्तः श्रावकद्वारा पण्डितवरेण्यौ तदर्थं पृष्टवन्तः । किन्तु तदा ताभ्यां यदुत्तरं दत्तं तदद्याऽपि नः हृदये उत्कीर्णमिव स्थिरीभूतमस्ति । ताभ्यामुक्तम्
“अस्माकं गुरुवर्या अस्मान् आबाल्यात् निरपेक्षतया पूर्णनिष्ठयाऽतीव स्नेहेन च सर्वाणि शास्त्राणि यत् पाठितवन्तस्तस्य ऋणमद्याऽपि नः शिरसि विद्यते । तस्माच्च ऋणात्तदैव वयं मुक्ता भवेम यदा तयैव निष्ठया प्रीत्या च विनाऽपेक्षां वयं विद्यादानं कुर्याम । अद्याऽयमवसरः सहजतयैव प्राप्तोऽस्त्यतो भवद्भिर्धनविषयकं न किञ्चिदपि वक्तव्यम्" ।
एतच्छ्रुत्वा वयं सर्वेऽस्माकं गुरुभगवन्तः श्रावकाश्च सर्वथा गादीभूताः । नूनमीदृशा निःस्पृहा निष्किञ्चना विद्यादाननिरता ऋषितुल्याः पण्डिता अद्याऽपि जगदिदं सनाथं कुर्वन्तीति निश्चित्य चाऽऽह्लादिताः जाता: ।
६७