SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चाऽऽश्वास्ये - इत्येतदत्यन्तमद्भुतम् । प्रभो ! प्रभो ! कृपया मां क्षाम्यतु । मयाऽकार्यं कृतम् । भवता यः कोऽपि दण्डो विधास्यते तमहं स्वीकरिष्यामि सहिष्ये च । प्रभो ! ......' इति कथयन् स पुनरपि रोदितुं लग्नः । पुनरपि स मयाऽऽश्वास्य कथितः - 'भोः ! भवान् मम बन्धुरेव । विंशत्यधिकवर्षेभ्यो भवान्मे पित्रा सह कार्यं करोति स्म । अतोऽस्मिन् आपणे भवतोऽप्यधिकारोऽस्त्येव । यदि भवता मे कथितं स्यात् तदाऽहमेव भवदावश्यकतानुसारं धनमदास्यम् । यदा मया ज्ञातं यद् भवतेयद् धनं गृहीतमस्ति तदा मयैतदेव था दुःखं वा स्याद् येन भवान् धनमेतद् गृहीतवानस्ति । दुःखं तु ममैतदेवाऽत्र यद् भवता मामकथयित्वैव धनं गृहीतम् । अस्तु, विस्मरतु सर्वम् । अद्यप्रभृति भवान् अत्रैव कार्यं करिष्यति । धनप्रतिदानस्य काऽप्यावश्यकता नास्ति । तथा, यदा कदापि भवते या काऽप्यावश्यकता स्यात् भवान् मामेव कथयतु - अहमवश्यं सर्वमपि सुस्थं करिष्यामि' । ___गुरुवर्य !' स युवाऽस्मान् कथितवान्, 'ततः प्रभृति स मे आपणे पूर्णनिष्ठया मम बान्धव इवैव कार्यं करोति । आवयोः स्नेहतन्तुः सर्वथाऽविच्छिन्नो जातोऽस्ति । स कथयति यत् – यावज्जीवमहमत्रैव कार्यं करिष्यामि, भवता न काऽपि चिन्ता कार्येति । अतोऽहं पूर्णतया निश्चिन्तोऽस्मि । एतच्छ्रुत्वा वयं सर्वेऽत्यन्तं प्रमुदिता जाताः । प्रेम विश्वासश्च यादृशं तादृशमपि जनं सदाचारपथमानेतुं क्षमौ - इति तथ्यं व्यवहारे प्रयुक्तं दृष्ट्वा च हृदयं नः पुलकितं जातम् ।। - - - - - - - - - - - लेखकेषु वाचकेषु च सूचना । १. सुरुचिपूर्णं शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम्। । २. पत्रस्यैकस्मिन्नेव पार्श्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् । ३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते।) । ४. अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । | ५. वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्यं स्यात् । प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः प्रतिभावो भवतु । - -- - - - - - - - -
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy