SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ मान्याः सादरं प्रणामाः । चतुर्विंशे 'नन्दनवनकल्पतरौ' प्रास्ताविके समीचीनं चिन्तनं विराजते । प्रा० अभिराजराजेन्द्रमिश्रस्य कथा 'प्रायश्चित्तम्' ग्राम्यजीवितस्य रम्यतरं वर्णनं प्रस्तौति । अत्र महिषीसंरक्षणस्योपेक्षायाः प्रायश्चित्तं बलदेवस्य पत्नी चकार । 'आर्याम्बा' इति कथायां भगवतः शङ्करस्य मातृभक्तिः, तस्य च मातुर्भावा हृदयं संस्पृशन्ति । 'मर्मगभीरम्' इति स्तम्भे सर्वाः लघुकथाः सद्विचारान् उपदिशति । 'संवेदनशीलता' त्वर्थशौचस्य नितरां गुरुत्वं प्रतिपादयति । मन्ये, न केवलम् आध्यात्मिकसाधनायामपि तु जीवनस्य सर्वेषु क्षेत्रेष्वर्थस्य शुचिता सर्वथाऽपेक्ष्यते। कस्याऽपि जनस्य, परिवारस्य, राज्यस्य, राष्ट्रस्य, निखिलजगतश्चाऽभ्युदय आथिकं शौचं विना न सम्भवति । अद्य सर्वे क्लेशा धनस्य विषये शुचिताया अभावात् प्रवर्तन्ते । 'किं दुःखस्य मूलम्', 'प्राणानप्यविगणय्य परोपकारं कुर्वाणा जीविनः' 'पापिनी' चेत्यादयः सर्वा रचनाः सत्समाजस्य संरचनाया मार्ग प्रदर्शयन्ति । मन्ये सत्यकथावैविध्यविलसिता पञ्चविंशतितमी शाखा न केवलं संस्कृतसाहित्यसम्पदं विवर्धयेत्, अपि तु मार्मिककथाभिः समग्रं भारतीयं समाजं सदाचारस्य नैतिकतायाश्चाऽभिनवं पन्थानं प्रदर्शयेत् । सुरभारतीसमर्चनामाध्यमेन समाजस्य संरचनायायां नन्दनवनकल्पतरोः परिवारस्य प्रयत्नाः सादरं समभिनन्दनीयाः सन्ति । जयतु संस्कृतं संस्कृतिश्च । डा० रूपनारायणपाण्डेयः प्रयागः पूज्यानां चरणारविन्दयोः प्रणामाः । नन्दनवनकल्पतरोः शाखाः क्रमशः प्राप्यन्ते । तासां पठनेन मोदमनुभवामि । प्रतिशाखं वाचनीयता वर्धमानाऽस्ति - इत्येतन्महते सन्तोषाय ।। डॉ. विश्वासः मङ्गलूरुः ॥
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy