________________
इन्दिराष्टकम्
विद्वान् महाबलेश्वरशास्त्री
(पञ्चचामरच्छन्दः)
रत्नपूर्णस्वर्णपात्रहस्तपङ्कजान्विते ! । रक्तपङ्कजालये ! समस्तभक्तसंस्तुते ! ॥ देवराजमुख्यनाकलोकवासिवन्दिते !। पाहि पाहि पङ्जाक्षवल्लभे ! नमाम्यहम् ॥१॥
देहि मे समस्तरत्नपूर्णस्वर्णभाजनं । रक्ष्य मां त्वदीयपादपदमसेवकं सदा । इन्दिरे ! मदीयदेवमन्दिरे सदा वस । पाहि पाहि पङ्कजाक्षवल्लभे ! नमाम्यहम् ॥२॥
बालभास्करोपमानदिव्यवस्त्रभूषिते ! । विप्रवर्गपठ्यमानवेदमध्यगोचरे ! ॥ वन्दिताङ्घि ! पद्मभक्तकार्यसाधनोद्यते ! । पाहि पाहि पङ्कजाक्षवल्लभे ! नमाम्यहम् ॥३॥
१२