SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विद्याप्रबन्धः वीतरागात् समग्रज्ञात् प्राज्ञज्ञेयात् सुवादिनः । धर्मनाथाच्च नाथामि कृपां कल्याणकारिणीम् ॥१॥ भारती मे सदा देयाद् ज्ञानसारसरस्वती । बुद्धिं शुद्धिं कवित्वस्य सदृष्टिवृष्टितोऽम्बिका ॥२॥ लेखक-वक्तलोकेषु स्फीतकीर्तिवतामहम् । श्रीविद्याविजयाख्यानां पूज्यानामैतिहासिकम् ॥३॥ सुचरित्रं प्रबध्नामि चित्रकायैर्विचित्रितम् । समासतः समस्तं च सरलं सरलाशयः ॥४॥युग्मम्॥ जम्बूद्वीपेऽथ देशोऽस्ति गूर्जरत्राख्यया श्रुतः । रसाल-ताल-हिन्ताल-प्रियालफलभूषितः ॥५॥ मही-कुमारिका-तापी-नर्मदादिनदीवृतः । धर्मनिष्ठ: कुमाराङ्गः समृद्धः सर्वसम्पदा ॥ युग्मम् ॥६॥ श्रीमान् अमथालालाख्यः श्राद्धः प्रभावमण्डितः । जात्या वसति तत्र स्म दशाश्रीमालिवंशगः ॥८॥ वैश्यो वैश्यवरेण्यः सन पुण्यकारुण्यसनिधिः । तस्य परशनाह्वाऽस्ति प्रसन्नवदना प्रिया ॥७॥ युग्मम् ॥ दम्पती तौ गतौ पार्श्वे साठंबाख्ये पुरे वरे व्यवसायार्थमङ्गिनां व्यवसायो हि जीवकः ॥१०॥ त्रिवेदालेन्दुवर्षेऽथ(१९४३) गच्छति सति वैक्रमे । कार्तिकीकृष्णपक्षस्य चतुर्थे शुद्धवासरे ॥११॥ तयोर्निवसतोस्तत्र प्रीतयोः पुण्यतः सुखम् । अजायत वरः पुत्रः पवित्रः पुण्यलक्षणः ॥१२॥ युग्मम् ॥ वर्द्धमानेन सिद्धार्थ इन्द्रो जयन्ततस्तथा । दशरथो यथा रामाद् हृष्टः पुत्रेण तत्पिता ॥१३॥ कुटुम्बमत्रणात् तस्य जम्पती चक्रतुर्वराम् । आख्यां बेचरदासेति देवीविशेषभक्तितः ॥१४॥ दिने दिने शरीरेण सार्धं बालो गुणैरपि । ववर्ध, चन्द्रवत् सोऽब्धेः पितुर्हर्षकरोऽजनि ॥१५॥ ३६
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy